३७ गुणेशावतारवर्णनम्

॥ श्रीगणेशाय नमः ॥

शक्तय ऊचुः ।
विकटस्य च माहात्म्यं श्रुत्वा शक्ते वयं परम् ।
हर्षं प्राप्ता विशेषेण योगामृतमयं किल ॥ १ ॥

तथापि देवि तृप्तिं न प्रयामो रसवर्धिनीम् ।
कथां श्रुत्वा पुनस्तां च वद वैघ्नेश्वरीं पराम् ॥ २ ॥

विकटेन जगन्मातरवतारा धृताः परे ।
तेषां सङ्क्षेपतो ब्रूहि चरित्रमवतारजम् ॥ ३ ॥

आदिशक्तिरुवाच ।
गण्डकी नगरीपालश्चक्रपाणिर्नृपोऽभवत् ।
उग्रा पत्नी च तस्यासीत् पातिव्रत्यगुणान्विता ॥ ४ ॥

धर्मशीलो वदान्यश्च राजा नीतिपरायणः ।
देवविप्रातिथिप्रेप्सुः पञ्चयज्ञकरोऽभवत् ॥ ५ ॥

जित्वा भूमण्डलं सर्वं चकार वशवर्तिनम् ।
सम्पत्तिं बुभुजे सोऽपि देवमान्यां विशेषतः ॥ ६ ॥

अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् ।
वान्ध्यदोषसमायुक्तौ दम्पती सम्बभूवतुः ॥ ७ ॥

तदर्थं व्रतदानादींश्चकार विधिसंयुतः ।
तथापि सन्ततिं राजा न प्राप परमेश्वरात् ॥ ८ ॥

ततो राज्यममात्येषु निक्षिप्याऽभवदुद्यतः ।
वनं गन्तुं महादेव्यः सस्त्रीकः शोकसंयुतः ॥ ९ ॥

एतस्मिन्नन्तरे तत्र शौनको मुनिसत्तमः ।
यदृच्छया ययौ योगी तं नृपं विचरन् परः ॥ १० ॥

भानोस्तेनोपदिष्टं स व्रतं चक्रे नराधिपः ।
तुष्टस्तेन रविः स्वप्ने राज्ञ्यां गर्भं समादधे ॥ ११ ॥

सूर्यतेजोयुतं गर्भं न क्षमा सम्बभूव ह ।
धर्तुं दाहयुतोग्रा सा समुद्रे तं ततोऽत्यजत् ॥ १२ ॥

तत्र पुत्रो बभूवापि त्रिनेत्रश्चक्रधारकः ।
जलं संशोषयामास समुद्रस्य विशेषतः ॥ १३ ॥

ततो ब्राह्मणरूपेण चक्रपाणिं समाययौ ।
समुद्रः कथयामास वृत्तान्तं पुत्रसम्भवम् ॥ १४ ॥

दत्वा पुत्रं समुद्रस्त्वन्तर्दधे हर्षितोऽभवत् ।
नृपः सर्वजनैः सार्धं जातकर्माऽकरोद् द्विजैः ॥ १५ ॥

सिन्धुर्नाम्ना द्विजैः पुत्रः कृतस्तस्य विशेषतः ।
अपारवीर्ययुक्तत्वात् सोऽपि बलयुतोऽभवत् ॥ १६ ॥

आज्ञां गृह्य वनायैव तपोऽर्थं मार्गमध्यगः ।
काव्यः सौरं ददौ मन्त्रं विधियुक्तं तु सिन्धवे ॥ १७ ॥

एकपादमधिष्ठाय तताप तप उत्तमम् ।
निराहारः स्वभावेन तोषयामास काश्यपम् ॥ १८ ॥

द्विसहस्रे तु वर्षेषु सविता वरदोऽभवत् ।
त्रैलोक्यविभवं तस्मै ददावमृतपानकम् ॥ १९ ॥

त्रिगुणैर्हीनभावेन तिष्ठति ब्रह्मशास्त्रगम् ।
देहं धृत्वाऽमृतं सोऽपि निष्का?श्य त्वां हनिष्यति ॥ २० ॥

एवमुक्त्वा स्वभक्तं तु सविताऽन्तर्दधे तदा ।
हर्षयुक्तः स्वयं सिन्धुः स्वगृहं प्रत्यपद्यत ॥ २१ ॥

पितृभ्यां मानितोऽत्यन्तं शुशुभे तेजसा युतः ।
तस्मै राज्यं ददौ राजा सस्त्रीको वनगोऽभवत् ॥ २२ ॥

ततः सिन्धुर्धरां जिग्ये सप्तद्वीपवतीं पराम् ।
वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः ॥ २३ ॥

शुम्भोतिशुम्भवृत्रौ च कमलः शङ्ख एव च ।
कोलासुरादयश्चान्ये तदाज्ञागा बभूविरे ॥ २४ ॥

तैर्युतो देवराजेन्द्रान् जिग्ये शम्भुमुखान् किल ।
पपाल शङ्करः सद्यस्त्यक्त्वा कैलासमात्मनः ॥ २५ ॥

विष्णुं सूर्यं विधीन्द्रादीन् सङ्गृह्य स्वपुरं ययौ ।
कारागारे स चिक्षेप देवेन्द्रान् बलसंयुतः ॥ २६ ॥

[[१०६]]

एवं जित्वा त्रिलोकान् स राज्यं चक्रे महासुरः ।
दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः ॥ २७ ॥

ततो बहुगते काले क्रोधयुक्तो महासुरः ।
देवतीर्थादिकान् भङ्क्त्वा दैत्यः कर्म त्वलोपयत् ॥ २८ ॥

स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमण्डले ।
देशे देशे पुरे ग्रामे पूजयत्तां स मानवैः ॥ २९ ॥

ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः ।
स्वाहा स्वधादिकं कर्म नष्टं सर्वत्र शक्तयः ॥ ३० ॥

अधुना तद्वधोपायं वदामि शृणुत प्रियाः ।
शङ्करो गणसंयुक्तस्त्रिसन्ध्याक्षेत्रमागमत् ॥ ३१ ॥

गौतमाद्यैर्युतस्तत्र वासं सस्त्रीक आकरोत् ।
ध्यानमास्थाय विघ्नेशमभजद्भक्तिसंयुतः ॥ ३२ ॥

एकदा संशयाविष्टा पार्वती तं प्रणम्य च ।
जगाद शङ्करं देव्यो विनयेन समन्विता ॥ ३३ ॥

पार्वत्युवाच ।
ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च ।
तेनेशो वेदवादेषु कथितोऽसि महेश्वर ॥ ३४ ॥

तथापि ध्यानसंयुक्तो भजसे कं विशेषतः ।
वद मां पादपद्मस्य दासीं संशयसंयुताम् ॥ ३५ ॥

शिव उवाच ।

अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः ।
तं गणेशं भजाम्येव भक्त्या ब्रह्मपतिं सदा ॥ ३६ ॥

अनीशश्च गकारो णकार ईशमयः स्मृतः ।
तयोः स्वामी गणेशानः पश्य वेदे शुचिस्मिते ॥ ३७ ॥

तस्य तद्वचनं श्रुत्वा पार्वती विनयान्विता ।
जगाद तस्य प्राप्त्यर्थं वचनं शकरं प्रति ॥ ३८ ॥

पार्वत्युवाच ।
एतादृशं गणेशं चेन्न जानामि कदाचन ।
प्राप्त्यर्थं वद मुख्यं मे चोपायं साधयाम्यहम् ॥ ३९ ॥

शिव उवाच ।

एकाक्षरं गृहाण त्वं सविधिं च तपः कुरु ।
ध्यात्वा गजाननं देवं ततः सिद्धिमवाप्स्यसि ॥ ४० ॥

एवमुक्त्वा ददौ तस्यै मन्त्रं गणपतेः परम् ।
तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् ॥ ४१ ॥

अवायुभक्षणेनैव तपसा ध्यानशालिना ।
तया संराधितो ढुण्ढिर्वरदश्च बभूव ह ॥ ४२ ॥

ययौ वर्षशते देवीं वरं याचेति सोऽब्रवीत् ।
तया संयाचितो देव्या पुत्रो मे भव विघ्नप ॥ ४३ ॥

तत्र ते सेवनं नाथ करिष्यामि विशेषतः ।
माता पिता भविष्यावो बन्धहीनौ सुते त्वयि ॥ ४४ ॥

तथेति पार्वतीं दत्वा वरं सोऽन्तर्हितोऽभवत् ।
देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः ॥ ४५ ॥

पूजयित्वा गणेशानं ययौ सा शङ्करं ततः ।
वृत्तान्तं कथयामास सोऽपि संहर्षितोऽभवत् ॥ ४६ ॥

ततः सा तन्मना जाता सस्मार वरदं प्रभुम् ।
सर्वत्र गणराजं तं ददर्श भाग्यगौरवात् ॥ ४७ ॥

ततो भाद्रपदे मासि कृत्वा मूर्तिं पुपूज ह ।
शङ्करेण युता देवी मध्याह्ने शुक्लपक्षगे ॥ ४८ ॥

चतुर्थ्यां सोमवारे तु स्वातीनक्षत्रसंयुते ।
सचेतनाऽभवन् मूर्तिर्विकटस्य वरप्रदा ॥ ४९ ॥

तेजसा धर्षितौ देवौ किञ्चित् द्रष्टुं न शेकतुः ।
स्तुतस्ताभ्यां ततः सौम्यतेजोयुक्तो बभूव ह ॥ ५० ॥

शिवो ददर्श तं तत्र षड्भुजं शशिसन्निभम् ।
जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥ ५१ ॥

[[१०७]]

एकादशदिने नाम गुणेश इति चक्रिरे ।
द्विजाः शिवौ हर्षयुतौ पूजयामासतुर्द्विजान् ॥ ५२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेविकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥