॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः ।
विस्मिता विकटं पूज्य तुष्टुवुः करसम्पुटाः ॥ १ ॥
देवर्षय ऊचुः ।
अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् ।
असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २ ॥
अनादिमध्यान्तविवर्जितं यत् सुजीवनं जीवनधर्मधारम् ।
सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३ ॥
त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् ।
बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ ४ ॥
तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् ।
अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ ५ ॥
ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् ।
जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ ६ ॥
जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् ।
अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ ७ ॥
ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ ।
अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ ८ ॥
अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या ।
अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ ९ ॥
हरिस्वरूपेण विनायक त्वं सुरक्षसीदं रजसा विधाता ।
तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ १० ॥
प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण ।
क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ ११ ॥
सदात्मरूपेण च ढुण्ढिराज स्थितोऽसि विश्वम्भर विश्वमूर्ते ।
न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ १२ ॥
सदादिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् ।
सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ १३ ॥
स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् ।
महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ १४ ॥
स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च ।
अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ १५ ॥
नियन्तृरूपं तव हस्तसंस्थं ?जगत्सु नानाविधब्रह्मसु प्रभो ।
महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ १६ ॥
भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् ।
स्वभक्तिकृद्बन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ १७ ॥
त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च ।
प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ १८ ॥
निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् ।
सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ १९ ॥
असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् ।
अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ २० ॥
[[१०३]]
वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च ।
शुकादि?भिःस्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ २१ ॥
तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश सुसंस्तुतोऽसि ।
अतः प्रतुष्टो भव दीनपाल भजामहे तं विकटं परेशम् ॥ २२ ॥
आदिशक्तिरुवाच ।
एवं स्तुत्वा महादेव्यो विकटं त्वमरर्षयः ।
प्रणेमुर्दण्डवत् सर्वे ततश्च ननृतुः पुरः ॥ २३ ॥
स तानुवाच सर्वेशो विकटो भक्तियन्त्रितः ।
देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥ २४ ॥
विकट उवाच ।
वरान् ब्रूत महाभागा देवा मुनिसमन्विताः ।
दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः ॥ २५ ॥
इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् ।
भविष्यति जनायैव पठते शृण्वते परम् ॥ २६ ॥
भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ।
धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ २७ ॥
षट्कर्मसाधनकरं परकृत्यविनाशनम् ।
नानारोगहरं पूर्णं भविष्यति सुसेविनाम् ॥ २८ ॥
कारागृहगतानां च बन्धमोक्षकरं भवेत् ।
सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥ २९ ॥
नानापापसमूहानां दाहकं पठनात्तथा ।
सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥ ३० ॥
एकविंशतिवारं यः पठिष्यति निरन्तरम् ।
स सर्वं साधयेत् सद्यो दिनानामेकविंशतिम् ॥ ३१ ॥
एवं विकटवाक्यं ते श्रुत्वा देवर्षिसत्तमाः ।
जगुस्तं प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः ॥ ३२ ॥
देवर्षय ऊचुः ।
कामासुरं महावीर्यं शान्त्या युक्तं गजानन ।
दृष्ट्वा सर्वे च सन्तुष्टा भवामो नात्र संशयः ॥ ३३ ॥
अधुना कर्मसंयुक्ता भविष्यन्ति द्विजादयः ।
देवाः स्वपदसंस्थास्तु स्वस्वधर्मयुता जनाः ॥ ३४ ॥
जातं वरस्य कृत्यं यदधुना किं वृणीमहे ।
तव भक्तिं स्थिरां देहि यथा कामभयं न हि ॥ ३५ ॥
तथेति तानुवाचैव विकटोऽन्तर्दधे ततः ।
देवर्षयोऽभवंस्तत्र स्थिताः खेदसमन्विताः ॥ ३६ ॥
ततो मुनिगणैः सार्धं विकटं देवसत्तमाः ।
स्थापयामासुरानन्ददायकं भक्तिकारिणे ॥ ३७ ॥
हिमाचलस्य प्रान्ते तत् स्थानं वायुदिशि स्थितम् ।
विकटस्य महादेव्यः सर्वसिद्धिप्रदायकम् ॥ ३८ ॥
मूर्तिं देवर्षयः पूज्य विकटस्य महात्मनः ।
गत्वा स्वस्वपदेष्वेते पुनः क्षेत्रं समाययुः ॥ ३९ ॥
अंशेन स्वाधिकारेषु स्थिता देवर्षयो मताः ।
विकटं पूर्णभावेनाभजंस्ते क्षेत्रवासिनः ॥ ४० ॥
चतुरस्रं महत् क्षेत्रं दशयोजनविस्तृतम् ।
तत्र मध्ये स्वयं साक्षाद्विकटः संस्थितोऽभवत् ॥ ४१ ॥
चतुर्दिक्षु चतुर्देवाः शम्भुमुख्याः स्थितास्ततः ।
अन्ये देवा वामभागे दक्षिणे मुनयस्तथा ॥ ४२ ॥
तीर्थानि क्षेत्रयुक्तानि पश्चिमे संस्थितानि च ।
पुरो भक्तजनास्तत्र सेवार्थं संस्थिता बभुः ॥ ४३ ॥
मूषको विकटस्यैव समीपे स्थापितोऽभवत् ।
वामाङ्गे संस्थिता सिद्धिर्बुद्धिर्वै दक्षिणाङ्गके ॥ ४४ ॥
ब्रह्मप्रियादिकास्तत्र गणाः सर्वत्र संस्थिताः ।
शस्त्रहस्ता भजन्ते स्म विकटं विकटप्रियाः ॥ ४५ ॥
[[१०४]]
तत्र विकटतीर्थं तु विख्यातमभवत् परम् ।
जन्तुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥ ४६ ॥
अन्ते मुक्तिमवाप्नोति स्वानन्दे नात्र संशयः ।
विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥ ४७ ॥
अन्यानि तीर्थमुख्यानि देवर्षीणां समन्ततः ।
स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥ ४८ ॥
अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् ।
विकटस्य च ते तस्य लोकं गच्छन्ति निश्चितम् ॥ ४९ ॥
तत्र भोगान् प्रभुक्त्वा ते लये स्वानन्दगामिनः ।
विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥ ५० ॥
क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः ।
दर्शनेन तथा तस्य विकटस्य न संशयः ॥ ५१ ॥
विकटस्य च ये भक्ता यत्र कुत्र मृता यदि ।
ब्रह्मभूता न सन्देहो बभूवुः शास्त्रसम्मतम् ॥ ५२ ॥
भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् ।
विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥ ५३ ॥
भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः ।
वार्षिकस्तत्र कुर्वन्ति देवाद्या भक्तिसंयुताः ॥ ५४ ॥
मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥ ५५ ॥
धन्यास्ते पुरुषा लोके पश्यन्ति विकटं परम् ।
कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥ ५६ ॥
तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः ।
भजन्ते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥ ५७ ॥
विकटस्य चरित्राणि कथयन्ति परस्परम् ।
साश्रुनेत्राः स रोमाञ्चा भवन्ते भक्तिभावतः ॥ ५८ ॥
नरदेहं समासाद्य न दृष्टो विकटो जनैः ।
निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥ ५९ ॥
एतत् सङ्क्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसम्भवम् ।
विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥ ६० ॥
अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः ।
न समर्था वर्णयितुं भवन्ते वर्षकोटिभिः ॥ ६१ ॥
एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः ।
विकटः कलया देव्यो रक्षति स्म चराचरम् ॥ ६२ ॥
एतद्विकटमाहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा स लभेत् सर्वमन्ते ब्रह्ममयो भवेत् ॥ ६३ ॥
न कामस्य भयं तस्य भवेद्देव्यः कदाचन ।
कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥ ६४ ॥
एवं कामं निगृह्यैव स्ववशं तं चकार ह ।
विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥ ६५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥
[[१०५]]