॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
ततः कामासुरो दैत्यैर्जगाम द्विरदाननम् ।
जगाद भयसंयुक्तो वचनं हितकारकम् ॥ १ ॥
कामासुर उवाच ।
ब्रह्म त्वं विकट प्राज्ञ देव साहाय्यकृत् कथम् ।
सुरासुरमयं तद्वै कथमेकगुणाश्रितम् ॥ २ ॥
विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु ।
जन्मादिहीनभावश्चेत् कथं देहप्रधारकः ॥ ३ ॥
वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः ।
तदा ते शरणं नाथाऽऽगमिष्यामि न संशयः ॥ ४ ॥
विकट उवाच ।
माया नानाविधा दैत्य सा खेलति मया धृता ।
भेदान् कृत्वा तदाधारान् मयूरेशं वदन्ति माम् ॥ ५ ॥
मायाशब्दं मयूराख्यं वदन्ते तत्त्वदर्शिनः ।
तस्याः स्वामिनमेवं मां मयूरेशं विलोकय ॥ ६ ॥
नानाभेदयुतं ब्रह्मासद्रूपं कथ्यते बुधैः ।
उत्पत्तिस्थितिसंहारसाक्षिरूपप्रदर्शनात् ॥ ७ ॥
तत्रामृतमयं ब्रह्म सदा भेदविवर्जितम् ।
तदेव विकटं तस्मात् सत्यं जानीहि मां परम् ॥ ८ ॥
सदाऽखण्डमये दैत्य कुत्र ब्रह्मणि वर्तते ।
सृष्टिस्थितिलयत्वं च साक्षिरूपं वदस्व माम् ॥ ९ ॥
चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामते ।
तत्र नैव विजानीहि विकटेऽमृतसञ्ज्ञिते ॥ १० ॥
सर्वेषां जीवनं ब्रह्म तदेव विकटं मतम् ।
तं भजस्व विधानेन मृत्युहीनो भविष्यसि ॥ ११ ॥
[[१००]]
सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा मता ।
तयोः स्वामी गणेशश्च विचारय हृदि स्थितः ॥ १२ ॥
चित्तं पञ्चविधं दैत्य तत्र भ्रान्तिश्च पञ्चधा ।
भ्रान्तियुक्तं महच्चित्तं त्यक्त्वा चिन्तामणिं भज ॥ १३ ॥
सर्वेषां चित्तगोऽहं तु मत्प्राप्त्यर्थं महामते ।
देहधारी स्वयं भूत्वा भक्तान् शान्तिं ददाम्यहम् ॥ १४ ॥
सम्प्रज्ञातो नराकारो सम्प्रज्ञातात्मकं शिरः ।
तयोर्योगेऽभवं देहधारी गजं विचारय ॥ १५ ॥
अतोऽहं गजवक्त्रश्च दर्शनं मे सुयोगिनाम् ।
स्वसंवेद्यं भवेन्नूनं तेन स्वानन्दवासकृत् ॥ १६ ॥
मायाक्रीडार्थमानन्दाद्रचितं विविधं पुरा ।
स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा ॥ १७ ॥
देवासुरमयोऽहं तु न भिन्नं मे प्रवर्तते ।
तथापि धर्मरक्षार्थं हन्मि सर्वान्न संशयः ॥ १८ ॥
स्वर्गेषु स्थापिता देवा नराः पृथ्व्यां मया तथा ।
असुरा विवरेष्वेवं त्रिविधं त्रिषु संस्थितम् ॥ १९ ॥
यदा लोभयुता देवाः पातालस्थान् महासुरान् ।
हन्तुं विष्णुमुखाः क्रोधाद् बभूवुश्चोत्सुका बलात् ॥ २० ॥
तदा क्रोधयुतोऽहं तु दैत्यानां हृदि संस्थितः ।
तपःसामर्थ्यसंयुक्तान् करोमि दानवान् परान् ॥ २१ ॥
विघ्नकर्ताऽमराणां वै दैत्यानां विघ्नहारकः ।
भवामि तेन दैत्येन्द्रा जययुक्ताः सदाऽभवन् ॥ २२ ॥
असुरैर्हन्यमानाश्च देवेन्द्रा वनवासिनः ।
बभूवुः काम जानीहि संशयो न मदिच्छया ॥ २३ ॥
यदा दैत्या महादुष्टा मदयुक्ता बभूविरे ।
कर्मनाशप्रभावेण देवानां मूलछेदकाः ॥ २४ ॥
तदा देवाः समर्थाश्च प्रजघ्नुर्दैत्यनायकान् ।
दैत्यानां छिद्रकं सर्वं दर्शयामि हृदि स्थितः ॥ २५ ॥
ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवन्ति च ।
तदाऽहं देहधारी तान् भूत्वा हन्मि विशेषतः ॥ २६ ॥
यदा स्वधर्मसंयुक्ता देवा दैत्या बभूविरे ।
तदा तेषां हृदि स्थित्वा तिष्ठाम्यसुर सर्वदा ॥ २७ ॥
त्वया देवगणाः सर्वे पीडिता धर्मलोपक ।
अतस्त्वां हन्तुमायातो देवपक्षधरो ह्यहम् ॥ २८ ॥
हनिष्यामि महादुष्ट यदि मामवमन्यसे ।
जीवितुं त्वं सुखी देव वैरं त्यक्त्वा भवेच्छसि ॥ २९ ॥
एवमुक्त्वा महादैत्यं विकटो विरराम ह ।
कामासुरः प्रसन्नात्मा बभूवे भाविगौरवात् ॥ ३० ॥
विचारमकरोच्चित्ते विकटोऽयं न संशयः ।
सुरासुरमयः पूर्णो व्रजामि शरणं ततः ॥ ३१ ॥
कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः ।
विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२ ॥
प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् ।
तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३ ॥
कामासुर उवाच ।
नमस्ते विकटायैव गणेशाय परात्मने ।
सर्वपूज्याय सर्वेश देवासुरमयाय च ॥ ३४ ॥
अनन्तमाययायुक्त ब्रह्मभूतस्वरूपिणे ।
गजाननाय हेरम्ब देवेशाय नमो नमः ॥ ३५ ॥
शूर्पकर्णाय विघ्नानां चालकाय नमो नमः ।
भक्तानां विघ्नहर्त्रे ते ह्यभक्तानां विनाशिने ॥ ३६ ॥
स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे ।
योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ ३७ ॥
[[१०१]]
अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे ।
ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ ३८ ॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ ३९ ॥
त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च ।
लम्बोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥ ४० ॥
देवानां पालकायैव दैत्येभ्यो वरदायिने ।
सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ ४१ ॥
विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप ।
वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ ४२ ॥
किं स्तौमि त्वां गणाधीश यत्र योगीन्द्रमुख्यकाः ।
वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ ४३ ॥
मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे ।
त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥ ४४ ॥
अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा ।
विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ ४५ ॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
कामासुरो ननर्ताऽसौ रुद्धकण्ठो महायशाः ॥ ४६ ॥
भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् ।
वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥ ४७ ॥
त्वां हन्तुं क्रोधयुक्तोऽहं समागतो न संशयः ।
अधुना न हनिष्यामि शरणागतमादरात् ॥ ४८ ॥
त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् ।
शृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ ४९ ॥
एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् ।
प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥ ५० ॥
कामासुर उवाच ।
प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥ ५१ ॥
गाणपत्यप्रियत्वं मे देहि नित्यं गजानन ।
नान्यद्याचे परं किञ्चिन्नश्वरं सर्वमञ्जसा ॥ ५२ ॥
अहो योगीन्द्रमुख्यानां दुर्लभं ते पदं प्रभो ।
साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥ ५३ ॥
तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः ।
उवाच तं महाभक्तं कामं गाणेशकामुकम् ॥ ५४ ॥
विकट उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महासुर ।
गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥ ५५ ॥
तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव ।
मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥ ५६ ॥
आदौ तत्रासुरेणैव फलं भुङ्क्ष्व सुकर्मजम् ।
मदीयभक्तिसंयुक्तान् कुरु मत् कामसंयुतान् ॥ ५७ ॥
तथेति गणपं नत्वा सुरः कामो महायशाः ।
स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥ ५८ ॥
तं शान्तं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः ।
स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥ ५९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥
[[१०२]]