॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
छिन्नाङ्गा असुराः कामासुरं केचिन् महाबलम् ।
जग्मुर्भययुतं दृष्ट्वा वृत्तान्तं तमवेदयन् ॥ १ ॥
दैत्या ऊचुः ।
किं स्थितोऽसि महाराज मृता दैत्या महामृधे ।
तव पुत्रौ मृतौ तत्र शरणं व्रज विघ्नपम् ॥ २ ॥
नोचेत् दैत्यकुलानां वै मूलच्छेदो भविष्यति ।
इति तेषां वचः श्रुत्वा कामासुरो मुमूर्च्छ ह ॥ ३ ॥
सावधानः कृतो दैत्यै रुरोद भयसङ्कुलः ।
शोकसन्तप्तगात्रोऽसौ देवान् हन्तुं मनो दधे ॥ ४ ॥
गृहीत्वा शस्त्रसङ्घातान् रथारूढो बभूव ह ।
शेषसेनां समादाय विकटं प्रययौ पुरः ॥ ५ ॥
रणभूमौ महावीरं प्राप्तं कामासुरं परम् ।
दृष्ट्वा भययुता देवा वचो विकटमब्रुवन् ॥ ६ ॥
समागतः स्वयं कामासुरः स्वामिन् महायशाः ।
इदानीं गणनाथ त्वं यत् करिष्यसि तत् कुरु ॥ ७ ॥
ततः क्रोधयुतो देवान् विकटः प्रत्युवाच ह ।
भयहीना महेशाना युध्यध्वं मदनुग्रहात् ॥ ८ ॥
तस्य तद्वचनं श्रुत्वा शम्भुविष्णुमुखाऽमराः ।
गर्जित्वा घनवद्धोरं तं ययुः शस्त्रपाणयः ॥ ९ ॥
समागतान् महेशाद्यान् जगाद दैत्यनायकः ।
क्रोधेन महता युक्तो देवान् देवनिषूदनः ॥ १० ॥
कामासुर उवाच ।
शम्भो विष्णो तथाऽन्ये तु देवेशा मे वचोऽधुना ।
शृणुध्वं किं कृतं घोरं वैरं पुत्रवधात्मकम् ॥ ११ ॥
मया स्नेहयुतेनैव न हताः प्राक् सुरेश्वराः ।
दयायुक्तेन तस्येदं फलं दत्तं सुरैः परम् ॥ १२ ॥
अधुना क्रोधसंयुक्तो हनिष्यामि सुरेश्वरान् ।
विकटं देवप हत्वा मुनीन् देवेन्द्रसत्तमाः ॥ १३ ॥
एवमुक्त्वा धनुः सज्जं चकार दैत्यनायकः ।
जगाद धैर्यमालम्ब्य ततस्तं शङ्करो वचः ॥ १४ ॥
श्रीशङ्कर उवाच ।
त्वयाऽस्माकं महादैत्य गृहीतं सकलं पुरा ।
धर्मनाशः कृतश्चैव त्रैलोक्यं पीडितं बलात् ॥ १५ ॥
फलं दैत्यपते तस्य त्वया प्राप्तं न संशयः ।
त्वां हनिष्यामि विकट कृपयाऽहं खलोत्तम ॥ १६ ॥
[[९८]]
शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
गदया तं जघानैव पातयामास शङ्करम् ॥ १७ ॥
शङ्करं पतितं दृष्ट्वा चक्रं तत्याज केशवः ।
कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥ १८ ॥
ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च ।
सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥ १९ ॥
तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले ।
छिन्नाङ्गा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥ २० ॥
ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः ।
देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समन्ततः ॥ २१ ॥
विष्णुः कामं जघानैव बाणैः परमदारुणैः ।
सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥ २२ ॥
ततो मूर्च्छां परित्यज्य शङ्करो युयुधे भृशम् ।
कामासुरेण दैत्येन्द्रस्तं जघानासिघाततः ॥ २३ ॥
तथापि न चचालैव शिवः संहारकारकः ।
ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥ २४ ॥
भानुना शरघातेन रावणस्ताडितो भृशम् ।
दुर्मदश्च तथा देव्यः पेततुस्तौ धरातले ॥ २५ ॥
विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह ।
महिषः कुम्भकर्णश्च शङ्करश्च बलिस्तथा ॥ २६ ॥
ततश्चक्रेण गोविन्दो जघान दानवान् परम् ।
हाहा कृत्वा सुराः सर्वे पलायन्त दिशो दश ॥ २७ ॥
तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः ।
क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥ २८ ॥
विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके ।
भानुं गृह्य धरायां स पोथयामास दारुणः ॥ २९ ॥
ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः ।
प्रपलुश्छिन्नभिन्नाङ्गाः कामासुरनिपीडिताः ॥ ३० ॥
दैत्येन्द्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् ।
मूषकोपरि संस्थाय ययौ सङ्ग्रामकारणात् ॥ ३१ ॥
कामासुरः समालोक्य आगतं तं प्रतापवान् ।
क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥ ३२ ॥
कामासुर उवाच ।
मयूरेश कथं यातः सङ्ग्रामाय मया सह ।
मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥ ३३ ॥
मम पुत्रौ महावीर्यौ गजानन हतौ त्वया ।
तयोः शोकेन सन्तप्तो हनिष्यामि समूषकम् ॥ ३४ ॥
देवैः सम्प्रार्थितस्त्वं तु किं करिष्यसि मां वद ।
मम भ्रूभङ्गमात्रेण कम्पते सचराचरम् ॥ ३५ ॥
उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन ।
तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥ ३६ ॥
देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् ।
अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥ ३७ ॥
कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् ।
जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥ ३८ ॥
मूर्खोऽसि काम अत्यन्तं विकटोऽहं विचारय ।
जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥ ३९ ॥
न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुङ्गव ।
यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥ ४० ॥
नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः ।
गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥ ४१ ॥
शुक्रेण कथितं सर्वं न बुद्धं मूर्खभावतः ।
स्वरूपं मे त्वया दुष्टाधुनापि शरणं व्रज ॥ ४२ ॥
[[९९]]
विकटस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह ।
कामासुरश्च तं हन्तुं गदां चिक्षेप दारुणाम् ॥ ४३ ॥
सा गदा निष्फला तत्र पपात धरणीतले ।
अकस्माद्दैत्यराजस्तु मूर्च्छितः प्रबभूव ह ॥ ४४ ॥
प्रहरेण महाक्रूरः सावधानो बभूव ह ।
अशक्तः सर्वदेहे स पीडां लेभेऽतिदारुणाम् ॥ ४५ ॥
ततो मनसि सन्धार्य विचारमकरोत् खलः ।
अहो शस्त्रं विना मां स जघान विकटः कथम् ॥ ४६ ॥
शक्तिहीनोऽहमत्यन्तं कथं युद्धं करोमि वै ।
शुक्रेण कथितं सत्यं ब्रह्माकारोऽयमुच्यते ॥ ४७ ॥
तथापि देवपक्षस्य धारकोऽयं कथं भवेत् ।
अतः संशयसंयुक्तः शरणं न व्रजाम्यहम् ॥ ४८ ॥
मरिष्यामि न सन्देहस्तदेव कीर्तिवर्धनम् ।
शत्रूणां शरणं चैव न योग्यं भासते हृदि ॥ ४९ ॥
अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतम् ।
देवपक्षविहीनश्चेद्व्रजामि शरणं च तम् ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥