॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
समागतं महत् सैन्यं नानाशस्त्रविराजितम् ।
अपारं तत् समालोक्य देवेशा गणपं ययुः ॥ १ ॥
देवेशा ऊचुः ।
कामासुरः स्वयं साक्षादागतः स महाबलः ।
यस्याग्रे देवदेवेशा मशका इव सम्बभुः ॥ २ ॥
यस्य शस्त्रबलं स्वामिन्नमोघं सर्वदा बभौ ।
न बले सदृशस्तस्य सोऽयं कामः समागतः ॥ ३ ॥
रक्ष नः कामसन्त्रस्तान्नोचेत् कामः प्रतापवान् ।
देवर्षीणां गणेशान जीवग्राहं करिष्यति ॥ ४ ॥
तेषां वचनमाकर्ण्य तान् जगाद गजाननः ।
मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ ५ ॥
[[९५]]
मदनुग्रहतः सर्वे समर्था देवनायकाः ।
भविष्यथ न सन्देहो युध्यध्वं दानवैः सह ॥ ६ ॥
विकटस्य वचः श्रुत्वा देवा हर्षसमन्विताः ।
जगर्जुः शस्त्रसंयुक्ता भयहीनाश्च शक्तयः ॥ ७ ॥
तेषां गर्जितशब्देन व्याप्तं सर्वं दिगन्तरम् ।
दैत्या भययुताः सर्वे बभूवुर्ये समागताः ॥ ८ ॥
ततः क्रोधसमाविष्टा दैत्येशा बलिमुख्यकाः ।
जगर्जुः सिंहनादैश्च शङ्खनादैः समन्ततः ॥ ९ ॥
ततो दैत्यगणाः सर्वे मुमुचुः शस्त्रपाणयः ।
शस्त्रवृष्टिं महोग्रां च मेघा इव शिलोच्चये ॥ १० ॥
ततो देवाः स्वशस्त्रैस्तान्निवार्य युयुधुः परम् ।
दैत्या देवा महोग्राश्च युयुधुस्ते परस्परम् ॥ ११ ॥
नाऽभूत् स्वपरबोधोऽपि रजसा छादिते रवौ ।
जघ्नुः परस्परं देव्यः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १२ ॥
ततो रक्तसमोघैश्च नदी जाता दुरत्यया ।
प्रवाहबहुला रक्तै रजः शान्तं बभूव ह ॥ १३ ॥
एवमेकदिनं घोरं दिवानिशि निरन्तरम् ।
युद्धं बभूव दैत्यानां देवानां तु जयैषिणाम् ॥ १४ ॥
ततो देवा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् ।
जघ्नुः शस्त्रप्रहारैस्तु प्रपेलुर्दैत्यनायकाः ॥ १५ ॥
तद् दृष्ट्वा परमाश्चर्यं दैत्येन्द्राः क्रोधमादधुः ।
बलिमुख्या महावीर्या आययू रणमण्डलम् ॥ १६ ॥
तैः शस्त्रास्त्रबलैः सर्वं देवानां प्रहतं बलम् ।
प्रपेलुरमरास्तत्र भयभीता दिशो दश ॥ १७ ॥
तत इन्द्रः समायातो जघानामर्षतो बलिम् ।
वज्रेण पातयामास दानवेन्द्रं महाबलम् ॥ १८ ॥
ततो हर्षयुता देवा जगर्जुर्नादसंयुताः ।
महेद्रं कुम्भकर्णश्च हृदि विव्याध मुष्टिना ॥ १९ ॥
इन्द्रः पपात भूपृष्ठे ततो विष्णुर्महाबलः ।
चक्रं तत्याज सङ्क्रुद्धो रणभूमौ विचक्षणः ॥ २० ॥
चक्रेण क्षुरधारेण हता दैत्याः समन्ततः ।
रावणः क्रोधसंयुक्तस्तं ययौ रणकाम्यया ॥ २१ ॥
गदया विष्णुना तत्र हतो मूर्च्छामवाप ह ।
कुम्भकर्णं तथा विष्णुर्मूर्च्छितं प्रचकार ह ॥ २२ ॥
ततो दुर्मदकस्तत्र महिषः शङ्करस्तथा ।
समाजग्मुर्महाविष्णुं क्रोधयुक्ताः समन्ततः ॥ २३ ॥
ततोऽतिव्याकुलं दृष्ट्वा केशवं शङ्करः स्वयम् ।
त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ ॥ २४ ॥
भानुना दुर्मदस्तत्र गदया पीडितो भृशम् ।
मूर्च्छितः स पपातैव वमन् रक्तं मुखाद् बहु ॥ २५ ॥
त्रिशूलेन हतस्तत्र शङ्करः शङ्करेण च ।
पपात स धरापृष्ठे मूर्च्छितो सुरनायकः ॥ २६ ॥
चक्रेण महिषस्तत्र विष्णुना मूर्च्छितः कृतः ।
ततो हाहारवं कृत्वा प्रपेलुर्दैत्यदानवाः ॥ २७ ॥
देवानां जययुक्तानां बलं दृष्ट्वा महामुनिः ।
शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे ॥ २८ ॥
एतस्मिन्नन्तरे तत्र महाकाली समाययौ ।
काव्यं गृह्य ययौ देवी तं चिक्षेप गुहान्तरे ॥ २९ ॥
ततः कामासुरः शोकयुतो दैत्यः प्रतापवान् ।
निःश्वस्य योद्धुमायातस्तस्य पुत्रौ समूचतुः ॥ ३० ॥
तिष्ठ तात गमिष्यावो रणं कृत्वा महारिपुम् ।
हनिष्यावो न सन्देहः किं करिष्यति विघ्नपः ॥ ३१ ॥
[[९६]]
एवमुक्त्वा महावीर्यौ दैत्यपुत्रौ रणस्थलम् ।
ययतुः शङ्करं विष्णुमूचतुः क्रोधसंयुतौ ॥ ३२ ॥
शोषण उवाच ।
तिष्ठ तिष्ठ महादेव हत्वा दैत्यगणान् पुरा ।
अधुना त्वां हनिष्यामि पश्य मे पौरुषं परम् ॥ ३३ ॥
शिवोऽसि त्वं शिवातुल्यो गच्छारण्यं मरिष्यसि ।
पशुभिश्च मदग्रे तु किं करिष्यसि तद्वद ॥ ३४ ॥
श्रीशङ्कर उवाच ।
शोषण त्वं समर्थश्चाधुना हन्मि न संशयः ।
विकट तेजसा युक्तः पौरुषं दर्शयस्व रे ॥ ३५ ॥
श्रुत्वा बाणान् महाबाहुश्चिक्षिपामोघरूपकान् ।
तैस्ते देवगणाः सर्वे मूर्च्छिताः पतिता मृधे ॥ ३६ ॥
शङ्करस्तं महावीर्यं योधयामास वेगतः ।
सोऽपि क्रोधसमायुक्तस्तं विव्याध शरैः पुनः ॥ ३७ ॥
ततस्त्रिशूलघातेन शोषणश्च पपात ह ।
क्षणाल्लभ्य ततः सञ्ज्ञां शम्भुं जग्राह कोपतः ॥ ३८ ॥
भ्रामयित्वा प्रचिक्षेप महापर्वतमस्तके ।
ततो हर्षयुता दैत्यास्तं जयेति शशंसिरे ॥ ३९ ॥
दुष्पूरो विष्णुमागत्य तं जगाद सुरेश्वरम् ।
क्रोधयुक्तो महाबाहुर्बलेन भृशगर्वितः ॥ ४० ॥
दुष्पूर उवाच ।
किं विष्णो त्वं मदोत्सिक्तो मां न जानासि दुर्मते ।
हतास्त्वया महावीरा मदीया दैत्यनायकाः ॥ ४१ ॥
फलं गृहाण मत्तस्त्वं तेषां देवानुसारिणाम् ।
सहायस्त्वं हतो नूनं गमिष्यसि यमक्षयम् ॥ ४२ ॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्तश्च केशवः ।
जगाद तं महावीर्यं दैत्यपुत्रं सुगर्वितम् ॥ ४३ ॥
श्रीविष्णुरुवाच ।
किं मां वदसि पापिष्ठ हनिष्यामि न संशयः ।
विकट सत्तया त्वाऽहं मा गर्वं कुरु दैत्यज ॥ ४४ ॥
ततः क्रोधसमाविष्टो दुष्पूरो गदया त्वहन् ।
विष्णुं तयाऽतिदुःखेन पपात धरणीतले ॥ ४५ ॥
ततो देवेन्द्रमुख्याश्च दुष्पूरं शस्त्रवर्षतः ।
मारयामासुरव्यग्राः सोऽपि चिक्षेप सायकान् ॥ ४६ ॥
शतैः सन्ताडयामास भानुं तेजस्विनां वरम् ।
इन्द्रं शतैर्यमं वायुं ब्रह्माणं च व्यपातयत् ॥ ४७ ॥
ततो विष्णुश्च दुष्पूरं सावधानो जघान ह ।
चक्रेण मूर्च्छितं चक्रे दैत्यपं रणमूर्धनि ॥ ४८ ॥
पुनः सञ्ज्ञां समासाद्य बाणैर्विष्णुमपीडयत् ।
सहस्रैर्मूर्च्छितं कृत्वा जगर्ज हर्षयन् स्वकान् ॥ ४९ ॥
एवं दुष्पूरदैत्येन शोषणेन च शक्तयः ।
कृतं कर्म रणे तुल्यं जययुक्तप्रभावतः ॥ ५० ॥
दैत्येन्द्रैर्बलिमुख्यैश्च सावधानैस्तदन्तरे ।
तैः स्तुतौ दैत्यराजस्य पुत्रौ तत्र विरेजतुः ॥ ५१ ॥
ततो देवगणान् हन्तुं दैत्येशा बलसंयुताः ।
मतिं चक्रुस्ततः क्रुद्धो बभूव द्विरदाननः ॥ ५२ ॥
पाशं चिक्षेप वेगेन तथाऽङ्कुशं गजाननः ।
पाशः शोषणकण्ठं तु समागत्य स्थितोऽभवत् ॥ ५३ ॥
रुद्धश्वासः स पाशेन पपात शोषणो मृधे ।
हस्तौ पादौ प्रचाल्यैव ममार तत्क्षणात्ततः ॥ ५४ ॥
अङ्कुशः सहसाऽऽगत्य जघानोदरके ततः ।
दुष्पूरं स ममारैव पश्यतां दैत्यरक्षसाम् ॥ ५५ ॥
ततः पाशाङ्कुशौ तत्र चेरतू रणमण्डले ।
हत्वा दैत्याननेकांश्च हाहाकाररवाकुलान् ॥ ५६ ॥
[[९७]]
बलिमुख्या भयोद्विग्नास्त्यक्त्वा लज्जां च शक्तयः ।
प्रपेलुः शस्त्रहीनास्ते दशदिक्षु तथाऽपरे ॥ ५७ ॥
ततो विघ्नेश्वरस्यैव हस्तगौ सम्बभूवतुः ।
पाशाङ्कुशौ गणेशस्योत्तस्थुर्दृष्ट्वाऽमराः पुनः ॥ ५८ ॥
नीरुजो बलसंयुक्तास्तुष्टुवुर्विकटं ततः ।
दैत्याः शोकाकुलास्तद्वद्रुरुदुः सर्वतो दिशाम् ॥ ५९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥