३२ देवदैत्यसमागमः

॥ श्रीगणेशाय नमः ॥

शक्तय ऊचुः ।
कामासुरवधार्थाय भक्तियुक्ता गजाननम् ।
देवर्षयः प्रार्थयन्तो निःकामाः कथमप्यहो ॥ १ ॥

आदिशक्तिरुवाच ।
अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः ।
शृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥ २ ॥

स्वदेहपोषणाद्यर्थं यशोर्थं भावसंयुताः ।
भजन्ते कामसंयुक्ता देवं जानीत तान्नरान् ॥ ३ ॥

स्वस्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये ।
निःकामास्ते भजन्ते तं देवं भावसमन्विताः ॥ ४ ॥

निःकामिका कृता भक्तिर्देवेशैः शृणुत प्रियाः ।
तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥ ५ ॥

सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः ।
वयं तदेव सेवा ते खेलसि त्वं गजानन ॥ ६ ॥

हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः ।
भुङ्क्षे तेन गणेशान सेवा ते देहपोषिका ॥ ७ ॥

तव प्रीत्यर्थमानन्दात् प्रकुर्मः स्वस्वधर्मजाम् ।
क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥ ८ ॥

अधुना दैत्यमुख्येन सेवा ते खण्डिता परा ।
असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥ ९ ॥

एवं सम्प्रार्थितो देवैर्विकटो नात्र संशयः ।
देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥ १० ॥

स्वधर्मसंयुतैः सर्वैः स्वस्वव्यापारजा क्रिया ।
कर्तव्या ढुण्ढिप्रीत्यर्थं निःकामा सा मता किल ॥ ११ ॥

अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् ।
विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥ १२ ॥

कुम्भकर्णादयः सर्वे जग्मुर्भयसमन्विताः ।
कामासुरं महावीर्यं वृत्तान्तं तं न्यवेदयन् ॥ १३ ॥

मयूरेशः समायातो विकटश्चेति कथ्यते ।
देवैः सम्प्रार्थितो नाथ हनिष्यति महासुरान् ॥ १४ ॥

तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः ।
वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥ १५ ॥

शरणं विकटं चैव शुभदं ते भविष्यति ।
अन्यथाऽसुरसङ्घानां विनाशो निश्चितोऽधुना ॥ १६ ॥

कुम्भकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् ।
निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥ १७ ॥

बलिरुवाच ।
किं भ्रान्तोऽसि विशेषेण वदसे विकलो यथा ।
कामासुरस्य वेगं तु सहते कः स्वरूपधृक् ॥ १८ ॥

[[९४]]

बलेर्वचनमाकर्ण्यासुरः कामः प्रतापवान् ।
जगाद दैत्यमुख्यांश्च हृदयेन विदूयता ॥ १९ ॥

कामासुर उवाच ।

वाणी सत्या बभूवापि स्वस्था मे शत्रुरागतः ।
हनिष्यामि मरिष्यामि किं वा तत्र भविष्यति ॥ २० ॥

कामासुरवचः श्रुत्वा दुर्मदस्तत्र चाब्रवीत् ।
वचनं तेजसा युक्तो वीर्ययुक्तं महासुरः ॥ २१ ॥

दुर्मद उवाच ।

कुम्भकर्णेन दृष्टश्च विकटो नात्र संशयः ।
उत्पत्तिनाशसंयुक्तो विचारय महामते ॥ २२ ॥

यद् दृष्टं तत्प्रणष्टं वै पश्य वेदे विचक्षण ।
कथं त्वां स महाराज हनिष्यति वरैर्युतम् ॥ २३ ॥

मा चिन्तां कुरु राजेन्द्र वधिष्यामो वयं च ते ।
शत्रुं तत्र जयैर्युक्ता भविष्यामो न संशयः ॥ २४ ॥

अज्ञापय महादैत्यास्मांस्ते पादस्य किङ्करान् ।
पश्य नो यत् महावीर्यं देवनाशकरं परम् ॥ २५ ॥

देवैर्माया कृता चेयं खवाणी भयरूपिणी ।
मायया तं विनिर्माय भयार्थं दैत्यरक्षसाम् ॥ २६ ॥

नेयमाकाशवाणी वै विचारय महामते ।
देहधारी कथं त्वां स हनिष्यति महाबलम् ॥ २७ ॥

दुर्मदस्य वचः श्रुत्वा बलिमुख्या महाऽसुराः ।
हर्षयुक्ताः पुनस्तं ते जगुः सत्यं त्वयोदितम् ॥ २८ ॥

ततः कामासुरश्चैव सन्नद्धः सर्वदैत्यपैः ।
चतुरङ्गबलैर्युक्तैर्निर्जगाम गजाननम् ॥ २९ ॥

ततः शुक्रेण दैत्येन्द्रो बोधितो बहुलोक्तिभिः ।
न बुबोध मदोत्सिक्तो बलगर्वेण मोहितः ॥ ३० ॥

भाविनं मुनिमुख्यश्च ज्ञात्वा काव्यो महायशाः ।
कालवेगं समाश्रित्य प्रययौ तमनु प्रभुः ॥ ३१ ॥

दैत्याः क्रोधयुताः सर्वे समाजग्मुः प्रहर्षिताः ।
देवमर्दनकामार्थं यत्र देवाः स्थिताः पुरा ॥ ३२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः ॥