३१ विकटप्रादुर्भावः

॥ श्रीगणेशाय नमः ॥

शक्तय ऊचुः ।
अहो भाग्यबलेनैव संश्रुतं जगदम्बिके ।
मयूरक्षेत्रमाहात्म्यं सर्वसिद्धिप्रदायकम् ॥ १ ॥

अधुना वद देवेशि मुद्गलेनोपदेशिताः ।
शिवाद्याः किं समाचक्रुः कामासुरभयार्दिताः ॥ २ ॥

आदिशक्तिरुवाच ।
गते मुनौ महाभागे मुद्गले योगिनां गुरौ ।
तं प्रणम्य शिवाद्यास्ते ययुः क्षेत्रं मयूरकम् ॥ ३ ॥

यथाशास्त्रं विधानेन यात्रां चक्रुः सुरर्षयः ।
ततस्तपोयुताः सर्वे गणेशमभजन् पुरा ॥ ४ ॥

एकाक्षरविधानेनातोषयंस्ते विनायकम् ।
ततस्तान् वरदो ढुण्ढिवेषेणैव समाययौ ॥ ५ ॥

मयूरोपरिसंस्थं तं दृष्ट्वा विघ्नेश्वरं पुरः ।
देवर्षयः समुत्थाय प्रणेमुर्हर्षसंयुताः ॥ ६ ॥

प्रणम्य परया भक्त्या पुपूजुर्विघ्नपं पुनः ।
तुष्टुवुर्विष्णुमुख्यास्तं कृताञ्जलिपुटाऽमराः ॥ ७ ॥

देवर्षय ऊचुः ।
नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक ।
ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८ ॥

स्वानन्दवासिने तुभ्यं परात्परतराय च ।
ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९ ॥

अनादये च सर्वेषां पूज्याय परमात्मने ।
अनन्ताननधारायानन्तरूपाय ते नमः ॥ १० ॥

सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च ।
ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥ ११ ॥

त्रिनेत्राय चतुर्बाहुधराय कञ्जपाणये ।
महोदराय सर्पेशनाभये ते नमो नमः ॥ १२ ॥

मायाश्रयाय मायायाश्चालकाय विलासिने ।
ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥ १३ ॥

एकदन्ताय सर्वादिपूज्याय सर्वमूर्तये ।
शूर्पकर्णाय योगाय शान्तिदाय नमो नमः ॥ १४ ॥

पूर्वाङ्गे विष्णुरूपाय दक्षिणे शङ्करात्मने ।
पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥ १५ ॥

किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः ।
शान्तिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥ १६ ॥

चित्तं पञ्चविधं देव तत्र माया भ्रमात्मिका ।
चित्रा मयूरसञ्ज्ञा च नमस्तत् स्वामिने नमः ॥ १७ ॥

माया मयूरवाच्या तु तत्र खेलकरो भवान् ।
मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥ १८ ॥

जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् ।
तवाङ्घ्रिदर्शनान्नाथ कृतकृत्या भवामहे ॥ १९ ॥

एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः ।
सरोमाञ्चा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥ २० ॥

जगाद गणनाथश्च ततस्तान् भक्तिभावितः ।
वरान् वृणुत दास्यामि देवेशा भक्तियन्त्रितः ॥ २१ ॥

भवद्भिर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति सदा भक्तिदायकं पठते परम् ॥ २२ ॥

यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः ।
पठेद्वा शृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥ २३ ॥

देवेशाद्या ऊचुः ।
प्रसन्नोऽसि गणाध्यक्ष तदा भक्तिं त्वदीयिकाम् ।
देहि कामासुरं नाथ जहि सर्वभयङ्करम् ॥ २४ ॥

स्थानभ्रष्टाः सुरश्रेष्ठाः कर्मभ्रष्टा मुनीश्वराः ।
कृतास्तेनासुरेणैवातस्तं जहि गजानन ॥ २५ ॥

तथेति गणनाथस्तानुक्त्वाऽन्तर्धान?मकरोत् ।

[[९२]]

देवा हर्षयुताः सर्वे जग्मुर्गिरिगुहान्तरे ॥ २६ ॥

गणेशं भजमानास्ते मुनयो देवनायकाः ।
कालाकाङ्क्षिण आनन्दाद्बभूवुः शक्तिमुख्यकाः ॥ २७ ॥

अथ कामासुरः क्वापि सभायां संस्थितोऽभवत् ।
तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ २८ ॥

देवैः सम्प्रार्थितं ब्रह्म मयूरेश्वरसञ्ज्ञितम् ।
हत्वा त्वामखिलं विश्वं सुखयुक्तं करिष्यति ॥ २९ ॥

ततो मुमूर्च्छ तस्मात् स कामासुरो भयातुरः ।
श्रुत्वा वाचं महाक्रूरां दैत्येशास्तं समाययुः ॥ ३० ॥

महायत्नेन दैत्येशाः सावधानं महासुरम् ।
चक्रुः स तानुवाचेदं वचनं खसमुद्भवम् ॥ ३१ ॥

तच्छ्रुत्वा क्रोधसंयुक्ता दैत्येशास्तमथाऽब्रुवन् ।
देवाः शत्रव आद्याश्चास्माकं नित्यं श्रुतेर्मुखात् ॥ ३२ ॥

अस्माभिः कथितं स्वामिन् जहि देवान् महामते ।
मुक्तेस्त्वया सुरेशानैस्तैरिदं दारुणं कृतम् ॥ ३३ ॥

उत्पत्तिस्थितिसंहारकारकेभ्यो महाप्रभो ।
तद्भवेभ्यो भयं ते न किं करिष्यति देवपः ॥ ३४ ॥

आज्ञापय महाभागास्मान् देवहननाय वै ।
मृता देवा यदा नाथ निःसपत्ना वयं तदा ॥ ३५ ॥

ततः कामासुरस्तानाज्ञापयद्देवकदने ।
कुम्भकर्णादयो जग्मुर्गिरिकन्दरकानने ॥ ३६ ॥

ततो मेरुगुहासंस्थान् दृष्ट्वा देवर्षिसत्तमान् ।
शस्त्राणि दैत्यास्तान् हन्तुं तत्यजुर्दैत्यनायकाः ॥ ३७ ॥

शिवमुख्या मयूरेशं सस्मरुर्भयसङ्कुलाः ।
एहि नाथ दयासिन्धो रक्ष नो भयसंयुतान् ॥ ३८ ॥

स्मृतिमात्रेण हेरम्बस्तान् ययौ मूषकध्वजः ।
मयूरोपरिसंस्थश्च शस्त्रधारक आदरात् ॥ ३९ ॥

तेजोराशिमयं रूपं दृष्ट्वा देवा विसिस्मिरे ।
तुष्टुवुस्तं महेशाना नानास्तोत्रैर्गजाननम् ॥ ४० ॥

ततस्तेजोमयं रूपं तान् जगाद सुरर्षिकान् ।
विकटोऽहं महाभागास्तथा भजत मां चिरम् ॥ ४१ ॥

कामयुक्ता मया माया मयूरा विविधात्मिका ।
कामहीनोऽयमेवाहं भजध्वं कामहानतः ॥ ४२ ॥

मायासुखाच्च देवेशा विकटा भवत प्रियाः ।
तदा मे रूपकं द्रष्टुं भविष्यथ समर्थकाः ॥ ४३ ॥

तस्य तद्वचनं श्रुत्वा शोकयुक्ताः सुरर्षयः ।
बलेन चित्तमागृह्य नि:कामं चक्रुरादरात् ॥ ४४ ॥

ततो गणेश्वरं देवा मुनयो ददृशुश्च ते ।
तं प्रणम्य स्थिताः सर्वे दैत्यशस्त्रैः प्रपीडिताः ॥ ४५ ॥

ततोऽतिक्रोधसंयुक्तो विकटस्तानुवाच ह ।
भयहीना मदीयेन दर्शनेन भवेत वै ॥ ४६ ॥

अधुना शस्त्रसंयुक्ता युध्यध्वं मे ह्यनुग्रहात् ।
कामासुरं हनिष्यामि आगतं तं महेश्वराः ॥ ४७ ॥

ततस्ते क्रोधसंयुक्ता देवेन्द्राः शस्त्रपाणयः ।
युयुधुर्दैत्यमुख्यैश्च तेजोयुक्ता विशेषतः ॥ ४८ ॥

इन्द्रेण सहसाऽऽगत्य वज्रेण निहतोऽपतत् ।
कुम्भकर्णस्ततो दैत्या प्रपेलुर्भयसङ्कुलाः ॥ ४९ ॥

द्विमुहूर्ते गते देव्यो राक्षसेशः प्रतापवान् ।
सावधानो बभूवाऽपि पपाल भयसङ्कुलः ॥ ५० ॥

[[९३]]

जययुक्ता महेशानाः प्रणेमुर्विकटं ततः ।
जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः ॥