॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
ततो भ्रान्ता महेशाना ददृशुर्न मयूरकम् ।
स्वानन्दरूपगं ब्रह्म सस्मरुर्गणनायकम् ॥ १ ॥
भ्रूशुण्डिनं हृदि ध्यात्वा पुपूजुर्गणपप्रियम् ।
ततो गणेश्वरं पूज्य प्रार्थयामासुरादरात् ॥ २ ॥
देवेशा ऊचुः ।
मयूरं दर्शयस्वाद्य न जानीमो वयं परम् ।
अज्ञानावरणैर्युक्तान् रक्ष नस्ते पदार्थिनः ॥ ३ ॥
अकस्माद् वेदमुख्याश्च बभुः साङ्गाः समागताः ।
गणेशश्वाससम्भूता देवेशान् ज्ञानदायिनः ॥ ४ ॥
तान् दृष्ट्वा तेजसा पुञ्जयुक्तांस्ते देवसत्तमाः ।
प्रणम्य वेदान् पप्रच्छुः के यूयं वदत प्रियाः ॥ ५ ॥
अज्ञानावरणैर्युक्ता गणेशस्मरणे रताः ।
वयं तत्र भवन्तोऽपि प्रेषिता गणपेन किम् ॥ ६ ॥
वेदा ऊचुः ।
वेदा वयं महेशानाः साङ्गा अत्र समागताः ।
किमर्थं दुःखसंयुक्ता भवन्तो वदत प्रियाः ॥ ७ ॥
ततः सर्वं जगुर्देवा वृत्तान्तं पूर्वसम्भवम् ।
तच्छ्रुत्वा वेदमुख्यास्तान् मयूरं तददर्शयन् ॥ ८ ॥
ततो ब्रह्ममयं क्षेत्रं दृष्ट्वा ज्योतिर्मयं परम् ।
प्रणेमुस्ते ततः सर्वे प्रवेशं चक्रुरादरात् ॥ ९ ॥
विधियुक्तं प्रचक्रुस्ते देवेशा वेदसंयुताः ।
ततो वेदाज्ञया हृष्टाः स्थापयन्ति स्म मूर्तिकाम् ॥ १० ॥
सम्पूज्य ध्याननिष्ठास्ते जेपुर्मन्त्रं विधानतः ।
निराहारेण विघ्नेशं तोषयन्ति स्म देवपाः ॥ ११ ॥
यस्मिन् काले च देवेशैः स्थापिता मूर्तिरुत्तमा ।
भाद्रशुक्लचतुर्थी सा तदा माध्याह्नगाऽभवत् ॥ १२ ॥
सोमवासरसंयोगः स्वातीनक्षत्रकं महत् ।
दैवयोगेन कालश्च सम्प्राप्तः शक्तयः परः ॥ १३ ॥
शक्तय ऊचुः ।
सृष्टिहीनं तदा देवि कथं मासादिकं बभौ ।
एतत् कुतूहलं ब्रूहि संशयच्छेदनाय नः ॥ १४ ॥
आदिशक्तिरुवाच ।
दृश्यभावात्मकः कालो नश्यति स्म युगे युगे ।
सदैव ब्रह्मणि सर्वं ब्रह्माकारं प्रवर्तते ॥ १५ ॥
कालमानेन विघ्नेशो योगनिद्रापरोऽभवत् ।
तथा निद्राविहीनः स चकार सृष्टिमुत्तमाम् ॥ १६ ॥
ब्रह्मणि ब्रह्मरूपः स कालस्तत्र समास्थितः ।
अज्ञानेन जनानां चेत्तस्य संसेवनं भवेत् ॥ १७ ॥
तेन सिद्धियुताः सर्वे भवन्ति स्म न संशयः ।
ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् ॥ १८ ॥
माघे शुक्लचतुर्थ्यां स गणेशो वरदोऽभवत् ।
अङ्गारकयुतायां तु मूर्तिमध्याद्विनिर्ययौ ॥ १९ ॥
दृष्ट्वा चतुर्भुजं ढुण्ढिं मयूरोपरि संस्थितम् ।
सिद्धिबुद्धिसमायुक्तं भालचन्द्रं महोदरम् ॥ २० ॥
त्रिनेत्रं शेषनाभिं च चिन्तामणिधरं परम् ।
शूर्पकर्णं गजास्यं च एकदन्तविराजितम् ॥ २१ ॥
पाशाङ्कुशरदैर्युक्तमभयं दधतं प्रभुम् ।
भूषणैर्भूषितं वस्त्रै राजितं ददृशुः परम् ॥ २२ ॥
तत उत्थाय देवेशा मया युक्ताः प्रणम्य तम् ।
पुपूजुस्तुष्टुवुश्चैव प्रहृष्टमनसोऽभवन् ॥ २३ ॥
ब्रह्माद्या ऊचुः ।
अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् ।
मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४ ॥
अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् ।
चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५ ॥
[[८९]]
जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् ।
विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६ ॥
तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् ।
अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २७ ॥
प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् ।
चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ २८ ॥
महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् ।
परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ २९ ॥
नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च ।
विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ ३० ॥
अनाथानां प्रणाथाय शक्तये मोहधारिणे ।
कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ ३१ ॥
मयूरेशाय देवाय मयूरध्वजधारिणे ।
विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ ३२ ॥
किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् ।
यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ ३३ ॥
अतो नमामहे नाथ तेन तुष्टो भवस्व च ।
भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ ३४ ॥
एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः ।
साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ ३५ ॥
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ ३६ ॥
वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् ।
तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ ३७ ॥
देवेशा ऊचुः ।
यदि विघ्नेश सन्तुष्टो वरं दास्यसि वाञ्छितम् ।
तदा ते पादपद्मे नो भक्तिरस्तु निरन्तरम् ॥ ३८ ॥
अन्यच्चास्माभिरानन्दात् करणीयं किमप्यहो ।
कार्यं ब्रूहि गणाधीश करिष्यामो जवान्विताः ॥ ३९ ॥
श्रीगणेश उवाच ।
चतुर्मुख रजोयुक्तः सृष्टिं कुरु मदाज्ञया ।
ब्रह्मा नाम्ना भवस्व त्वं मां स्मृत्वाऽहंविवर्जितः ॥ ४० ॥
विष्णुश्चतुर्भुजः सत्वयुक्तोऽसि कुरु पालनम् ।
नानावतारभृन्नित्यं मां स्मृत्वा सिद्धिमेष्यसि ॥ ४१ ॥
तमोयुक्तः पञ्चमुख तेन त्वं संहरस्व च ।
मां स्मृत्वा बन्धहीनश्च भविष्यसि हरो भव ॥ ४२ ॥
चतुर्भुजे क्रियायुक्ता त्वं ततो मोहयस्व च ।
नानाभेदविभागेन मां स्मृत्वा सिद्धिमेष्यसि ॥ ४३ ॥
नाम्ना शक्तिर्भवस्व त्वं सर्वशक्तियुतेऽनघे ।
सहस्रकरसूर्यस्त्वं भव नाम्ना महामते ॥ ४४ ॥
कर्माधारस्वरूपेण धारयस्व चराचरम् ।
मां स्मृत्वा बन्धहीनोऽपि भविष्यसि न संशयः ॥ ४५ ॥
एवमुक्त्वा गणाधीशो ददौ तेभ्यो विशेषतः ।
सङ्कल्पसिद्धिजं देव्यः सामर्थ्यं विविधं तथा ॥ ४६ ॥
शक्तयो नगराण्येवायुधानि वहनादिकम् ।
निर्मायाऽन्तर्दधे सद्यो मूर्तिसंस्थो बभूव ह ॥ ४७ ॥
देवाः स्वस्वपदे गत्वा चक्रुः सर्वं जगत्ततः ।
चराचरं यथाभागमाश्रित्य किल रेमिरे ॥ ४८ ॥
तत्र ये मुख्यरूपाश्च प्रजापतिमुखोद्भवाः ।
अप्रेषयन् महेशास्तान् मयूरेशहिताय च ॥ ४९ ॥
[[९०]]
ते गणेशं समाराध्य मयूरे वरसंयुताः ।
स्वस्वव्यापारसंयुक्ता बभूवुः स्वपदे रताः ॥ ५० ॥
एवं क्रमेण सर्वे तु चराचरमया मुखाः ।
मयूरेशं समाराध्य सत्तायुक्ता बभूविरे ॥ ५१ ॥
ततः सर्वांशभावेन मयूरेशं सिषेविरे ।
क्षेत्रवासपरा देव्यः कथितं सर्वमञ्जसा ॥ ५२ ॥
शङ्करेण तपस्तप्तं पुनस्तत्र मयूरके ।
गणेशवरदानेन महादेवो बभूव ह ॥ ५३ ॥
इदं मयूरक्षेत्रस्य माहात्म्यं कथितं मया ।
सङ्क्षेपेण महादेव्यः सर्वसिद्धिप्रदायकम् ॥ ५४ ॥
शृणुयाद्यो नरो भक्त्या श्रावयेद्यः पठेत्तथा ।
धर्मार्थकाममोक्षांश्च भुक्त्वा ब्रह्ममयो भवेत् ॥ ५५ ॥
नानेन सदृशं किञ्चित् पावनं त्रिषु वर्तते ।
वेदशास्त्रपुराणेषु सारात् सारतमं मतम् ॥ ५६ ॥
पुत्रपौत्रयुतश्चात्र धनधान्यसमन्वितः ।
सुहृद्भिः संयुतः सोऽपि मोदते सुखदायकः ॥ ५७ ॥
अन्ते स्वानन्दवासी तु भूत्वा ब्रह्ममयो भवेत् ।
अस्य श्रवणमात्रेण नरः सर्वमवाप्नुयात् ॥ ५८ ॥
अपुत्रो यो लभेत् पुत्रान् गुणयुक्तांस्तु शक्तयः ।
मयूरस्यैव श्रवणात् दुर्लभं न भविष्यति ॥ ५९ ॥
व्रतानि सर्वभावेन यः करोति नरोत्तमः ।
तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६० ॥
तीर्थानि क्षेत्रमुख्यानि सेवन्ते धर्मसंयुताः ।
तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६१ ॥
दानानि सर्वयज्ञांश्च यः करोति विधानतः ।
तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६२ ॥
वेदशास्त्रपुराणानि श्रुत्वा यत् प्राप्नुयात् फलम् ।
तस्माच्छताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६३ ॥
बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् ।
किञ्चित् साधनकं प्रोक्तं सत्यं सत्यं वदाम्यहम् ॥ ६४ ॥
यत्र ब्रह्मपतिः साक्षात् क्षेत्रं स्वानन्दवाचकम् ।
कमण्डलुर्नदी तस्य साम्यं किं भवतीत्यहो ॥ ६५ ॥
ब्रह्मभूयकरं प्रोक्तं वेदादिषु इदं किल ।
तेन किं शक्तयः कुत्र समतां लभते परम् ॥ ६६ ॥
नित्यं भक्तियुतो जन्तुर्माहात्म्यं यः पठिष्यति ।
स गणेशो न सन्देहो दर्शनाद् दुःखहारकः ॥ ६७ ॥
अथवा शुक्लकृष्णायां चतुर्थ्यां नियतः पठेत् ।
सोऽपि दर्शनमात्रेण पवित्रान् कुरुते नरान् ॥ ६८ ॥
संस्कारहीनभावेन नरो नेदं कदाचन ।
शृणुयाच्च पठेद्वाऽपि सदा पापैः स वञ्चितः ॥ ६९ ॥
नहि श्रावयितव्यं तद् भक्तिहीनाय विद्विषे ।
शठाय पापयुक्ताय पाखण्डनिरताय च ॥ ७० ॥
यदि विघ्नेश्वरं सर्वे भावयुक्ता भजन्ति चेत् ।
तदा जन्मधराः के वै भवन्ते विघ्नसंयुताः ॥ ७१ ॥
अतः पात्रं प्रदृश्य श्रावयितव्यं विशेषतः ।
भक्तियुक्तः स निन्दां तु न करिष्यति सेवितुम् ॥ ७२ ॥
सर्वसारं मया प्रोक्तं देव्यः सर्वपदं परम् ।
तत्र गत्वा गणेशानं सेवध्वं भक्तिसंयुताः ॥ ७३ ॥
देहधारणकस्यैव सार्थकं वस्तदा भवेत् ।
नो चेत् पतिततुल्यश्च देहो वश्च न संशयः ॥ ७४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥
[[९१]]