२९ भ्रूशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

भ्रूशुण्ड्युवाच ।
द्वारयात्रा समाख्याता सैव क्षेत्रप्रदक्षिणा ।
ज्ञातव्या देवदेवेशाः कुरुध्वं यत्नसंयुताः ॥ १ ॥

पुण्यकर्म नरः कुर्यात्तदा पापानि मानवम् ।
छलयन्ति विशेषेण तस्माद्यत्नपरो भवेत् ॥ २ ॥

नित्ययात्रां प्रवक्ष्यामि मयूरक्षेत्रवासिनाम् ।
अन्येषां सर्वदां पूर्णां शृणुध्वं सुसमाहिताः ॥ ३ ॥

मयूरेशं समभ्यर्च्य परिवारसमन्वितम् ।
ततोऽष्टगणपान् क्षेत्रं कुण्डं नदीं प्रपूजयेत् ॥ ४ ॥

शमीं मन्दारकं दूर्वां चतुर्थीं च ततः परम् ।
मुद्गलं शुकयोगीशं ततो मण्डपगो भवेत् ॥ ५ ॥

चतुर्देवांश्च पूर्वादिक्रमतः संस्थितो नरः ।
तत्र धर्मादिकान् श्रुत्वा यथावकाशमानतः ॥ ६ ॥

पुनर्गणेश्वरं नत्वा गच्छेत् स्वगृहकं ततः ।
एवं कुर्यान्नित्ययात्रां स गणेशप्रियो भवेत् ॥ ७ ॥

नित्ययात्रां नरो यस्तु न कुर्याद्यदि देवपाः ।
क्षेत्रवासफलं तस्य न भवेत् पूर्णमञ्जसा ॥ ८ ॥

यातनां स लभेदन्ते सम्पूर्णां भैरवीं पराम् ।
अतो यात्रां समाकुर्यात् क्षेत्रस्थो नियमेन तु ॥ ९ ॥

अधुना गणपप्रीत्यै यात्रामन्यां वदाम्यहम् ।
सम्पूर्णभक्तिदात्रीं च गाणेशीं गणपप्रियाः ॥ १० ॥

गर्भागारे चतुर्दिक्षु स्थिता विघ्नेश्वराः पराः ।
षट्पञ्चाशच्च ते तेषु मुख्याः पूज्या विशेषतः ॥ ११ ॥

दिक्पालानां महास्त्राणि तेभ्यः पञ्च धनुः पुरः ।
सर्वत्र संस्थिताः सर्वे गणेशा गणपे रताः ॥ १२ ॥

चतुर्दशप्रमाणेन प्रत्येकं दिक्षु संस्थितान् ।
गणपान् पूजयेद्यस्तु गाणपत्यो भवेन्नरः ॥ १३ ॥

बल्लाळः कपिलो ढुण्ढिर्वक्रतुण्डो महोदरः ।
हेरम्बो गणनाथस्तु विघ्नेशो विघ्नहारकः ॥ १४ ॥

भालचन्द्रः शूपकर्णो ज्येष्ठराजो गजाननः ।
महोत्कटश्च देवेशा अभवन् पूर्वदिक् स्थिताः ॥ १५ ॥

एकैकस्मात् क्रमेणैव धनुषां पञ्चविंशतिम् ।
दूरे संस्था गणेशाना ज्ञातव्या भक्तिकारिभिः ॥ १६ ॥

[[८७]]

तस्माद् द्विगुणमानेन दक्षिणे संस्थिताः पराः ।
तस्माच्चतुर्गुणेनैव पश्चिमे गणपा बभुः ॥ १७ ॥

तस्मात् पादविहीनेन गणपा उत्तरे भवन् ।
एवं क्रमेण पूज्यास्ते सर्वसिद्धिप्रदायकाः ॥ १८ ॥

अथ दक्षिणसंस्थांस्तु कथयामि गणेश्वरान् ।
ज्ञानेशः कर्मपश्चैव योगेशः सिद्धिविघ्नपः ॥ १९ ॥

चिन्तामणिश्च बुद्धीशो महागणपतिस्तथा ।
पूर्णानन्दश्च लक्ष्येशः सहजेशैकदन्तकौ ॥ २० ॥

लम्बोदरो धूम्रवर्णस्तथा क्षिप्रप्रसादनः ।
एते दक्षिणगाः प्रोक्ता गर्भागारे महेश्वराः ॥ २१ ॥

विनायकश्च विकट आशापूरक सञ्ज्ञितः ।
धूम्रकेतुः प्रमोदश्च मोदः सुमुखदुर्मुखौ ॥ २२ ॥

पाशपाणिः परेशश्च लाभेशो धरणीधरः ।
मङ्गलेशश्च मूषकध्वज एते प्रकीर्तिताः ॥ २३ ॥

पश्चिमे देवदेवेशाः पूजनीया विधानतः ।
अथोत्तरगतान् वक्ष्ये गणेशान् भक्तपालकान् ॥ २४ ॥

मयूरध्वजसञ्ज्ञश्च राजेशो विद्रुमेश्वरः ।
ओङ्कारेशो गुणेशश्च वरदः सिद्धिबुद्धिपः ॥ २५ ॥

गणेशश्च चतुर्बाहुस्त्रिनेत्रो गजमस्तकः ।
निधिपो गजकर्णश्च चिन्तामणिविभूषणः ॥ २६ ॥

एते गणेश्वराः प्रोक्ताः पूजनीया महेश्वराः ।
यात्राकारिण एवैते ददति स्वेप्सितं फलम् ॥ २७ ॥

अथ देवालये देवाः स्थितां यात्रां वदाम्यहम् ।
मुख्यां सर्वार्थदां पूर्णां यात्राकारिजनस्य च ॥ २८ ॥

अयोध्या मथुरा चैव द्वारका पूर्वमन्दिरे ।
महाविष्णुस्ततो देवाः पूजनीयो विशेषतः ॥ २९ ॥

काशी माया ह्यवन्ती च शिवः कैलासगस्ततः ।
गौरी स्कन्दो जनैः पूज्या दक्षिणे मुख्यभावतः ॥ ३० ॥

महाकाली महालक्ष्मीर्महासरस्वती परा ।
आदिशक्तिर्जनैः पूज्या पश्चिमे विष्णुकाञ्चिका ॥ ३१ ॥

विधाताग्निः कर्मजडभरतोऽथ दिवाकरः ।
शिवकाञ्ची जनैः पूज्या उत्तरे देवमन्दिरे ॥ ३२ ॥

देवागारस्य देवेशा रहस्यं सम्प्रकाशितम् ।
यात्रां कुर्यान्नरस्तेषां सर्वसिद्धिप्रदा भवेत् ॥ ३३ ॥

अथो मयूरसंस्थानां रहस्यं कथयाम्यहम् ।
पुलहं च भृगुं देवाः क्रतुं सम्पूजेयन्नरः ॥ ३४ ॥

पूर्वभागे तथा याम्ये वसिष्ठात्री पुलस्त्यकम् ।
पश्चिमे दक्षमेवं तु मरीचाङ्गिरसौ तथा ॥ ३५ ॥

उत्तरे वसवोऽष्टौ च कामधेनुश्च देवलः ।
असितः पूजनीयास्ते जनैः सर्वार्थसिद्धये ॥ ३६ ॥

एतद्यात्राविधानं तु सङ्क्षेपेण निरूपितम् ।
सर्वसिद्धिप्रदं देवा जनेभ्यो यात्रया भवेत् ॥ ३७ ॥

गच्छध्वं तत्र देवेशा मयूरे भक्तिसंयुताः ।
भजिष्यथ गणेशानं ततः सर्वमवाप्स्यथ ॥ ३८ ॥

आदिशक्तिरुवाच ।
एवमुक्त्वा महायोगी भ्रूशुण्डी विरराम ह ।
तस्मादेकाक्षरं गृह्य विधियुक्तं महामनुम् ॥ ३९ ॥

प्रणम्यापूज्य योगीशं ततः कृत्वा प्रदक्षिणम् ।
ययुर्हर्षयुताः सर्वे देवेन्द्राः पञ्च मुख्यकाः ॥ ४० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते भ्रूशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥

[[८८]]