२८ नग्नभैरवप्रशंसा

॥ श्रीगणेशाय नमः ॥

देवेशा ऊचुः ।
एतेषु तीर्थमुख्येषु के के सिद्धिं समाययुः ।
तेषां समासतः स्वामिंश्चरित्रं वद सौख्यदम् ॥ १ ॥

भ्रूशुण्ड्युवाच ।
गच्छध्वं देवदेवेशा मयूरेशं मदाज्ञया ।
तत्र सिद्धा भविष्यन्तः सर्वं ज्ञास्यथ सिद्धिदम् ॥ २ ॥

स्कान्दे विस्तरतः सर्वं प्रोक्तं चैव न संशयः ।
समासतः समाख्यातं मया क्षेत्रचरित्रकम् ॥ ३ ॥

देवेशा ऊचुः ।
नित्ययात्रां वद स्वामिंस्तथा क्षेत्रप्रदक्षिणाम् ।
यात्रामन्यनराणां तु सर्वसिद्धिप्रदां वद ॥ ४ ॥

पापयुक्तः स्वभावेन मयूरे संस्थितोऽभवत् ।
चकार नगराद्बाह्यं कथं तं नग्नभैरवः ॥ ५ ॥

संस्कारेण समायुक्तं गाणपत्यं तथा प्रभुः ।
कथं स मानयत् क्षेत्रे तद्वदस्व समासतः ॥ ६ ॥

भ्रूशुण्ड्युवाच ।
बङ्गाले ब्राह्मणः कश्चिद्गाणपत्यपरायणः ।
विश्वामित्रकुले जातो नाम्ना शम्भुर्महायशाः ॥ ७ ॥

हृदि तस्य समाश्रित्य नग्नो भैरवनायकः ।
बुद्धिभेदं चकाराऽसौ तेन संव्यथितो द्विजः ॥ ८ ॥

मयूरेशं तु द्रक्ष्यामि कदाऽहं देहधारकः ।
क्षणभङ्गुरदेहस्थः किं करोमि त्वरायुतः ॥ ९ ॥

ततः सपुत्रदारादिसंयुक्तो निःसृतो गृहात् ।
भिक्षाशनश्च देवेशा द्रव्यहीनतयाऽभवत् ॥ १० ॥

द्वाभ्यां समागतः सोऽपि मासाभ्यां लङ्घ्य मार्गकम् ।
गणेशतीर्थगो विप्रो ननन्द हर्षयन् स्वकान् ॥ ११ ॥

मयूरेशं प्रपूज्यादौ यात्रां कृत्वा विधानवित् ।
क्षेत्रसन्न्यासभावेनाऽभजत्तं द्विरदाननम् ॥ १२ ॥

अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ।
हृदि प्रभुः समाश्रित्य नरमेवं समानयत् ॥ १३ ॥

अथ पापपरा ये च तेषां वदामि देवपाः ।
क्षेत्रत्यागभवं चित्रं चरित्रं शृणुत प्रियाः ॥ १४ ॥

मयूरे ब्राह्मणः कश्चिद्वासिष्ठे जनितोऽभवत् ।
जन्मारभ्य महापापी पापनिष्ठो बभूव ह ॥ १५ ॥

न वेदाध्ययनं चक्रे बाल्ये चौर्यपरोऽभवत् ।
यौवने मद्यमांसादि सिषेवे स परस्त्रियम् ॥ १६ ॥

तस्य बुद्धिविभेदं स चकार नग्नभैरवः ।
परस्त्रियं समागृह्य विदर्भे प्रययौ खलः ॥ १७ ॥

एवं नानाविधं देवो नग्नो भैरवनायकः ।
चकार चाधिपत्यं स मयूरे दण्डधारकः ॥ १८ ॥

[[८५]]

अन्यच्च कथयिष्यामि चरित्रं पापकारिणाम् ।
मयूरे ये मतिं कृत्वा न प्रापुस्तं मयूरकम् ॥ १९ ॥

द्राविडे वैश्यजातिस्था बभूवुः पापकारकाः ।
विषादिना जनान् जघ्नुर्द्रव्ययुक्तान्निरन्तरम् ॥ २० ॥

शम्भुश्च सोमकः कुब्जः कम्बलश्चैव मित्रकाः ।
चत्वारो मद्यमांसादिबभक्षुर्नित्यमादरात् ॥ २१ ॥

परस्त्रीलालसाः सर्वे शिश्नोदरपरायणाः ।
न चक्रुः पुण्यलेशं ते न स्वधर्मादिकं कदा ॥ २२ ॥

तत्रैव नगरे कश्चिद्वैश्यः श्यामलसञ्ज्ञितः ।
द्रव्ययुक्तो महापापी ममार दैवयोगतः ॥ २३ ॥

श्यालकस्तस्य तत्रस्थः स्वधर्मस्थो बभूव ह ।
नाम्ना शङ्कर आख्यातः पुण्यकर्मपरायणः ॥ २४ ॥

तेनास्थिसञ्चयस्तस्य कृत उद्धारकारणात् ।
गते मासे महापापा वैश्याश्चत्वार एव ये ॥ २५ ॥

दण्डकारण्यदेशे तु जग्मुर्विक्रयकारणात् ।
श्यामलास्थि ददौ तेभ्यः शङ्करो विनयान्वितः ॥ २६ ॥

जगाद तान् महाभागो मयूरेऽस्थि प्रगृह्य तु ।
त्यज्यतां गणनाथस्य तीर्थे ब्रह्मसुखप्रदे ॥ २७ ॥

तथेति गृह्य तस्यास्थि समाजग्मुर्मयूरकम् ।
तत्र विघ्नं चकाराऽसौ नग्नो भैरवनायकः ॥ २८ ॥

चौरैस्तेषां हृतं सर्वं गतस्तत्रास्थिसञ्चयः ।
ते पुनः स्वगृहं जग्मुः किञ्चिद् द्रव्ययुताः खलाः ॥ २९ ॥

मयूरेशस्य चक्रुर्न यात्रां पापपरायणाः ।
निश्चितामपि देवेशा बुद्धिभेदबलाश्रयात् ॥ ३० ॥

एवं महाबलः सोऽपि भैरवो हृदि संस्थितः ।
गणेशाज्ञावशो भूत्वा रक्षति क्षेत्रमुत्तमम् ॥ ३१ ॥

एतद्भैरवनाथस्य चरित्रं यः शृणोति चेत् ।
तस्य सर्वं मयूरे तु शुभरूपं भविष्यति ॥ ३२ ॥

देवेशा ऊचुः ।
एतादृशो महाभागो नग्नो भैरवनायकः ।
स्तोत्रं तस्य वद स्वामिन् संस्तुमस्तं निरन्तरम् ॥ ३३ ॥

बुद्धिभेदात् स नः क्रुद्धः करिष्यति विशेषतः ।
क्षेत्रप्रवेशहीनांश्चेदतस्तं सेवयामहे ॥ ३४ ॥

भ्रूशुण्ड्युवाच ।
सर्वमायाविहीनाय सर्वमायाप्रचालक ।
सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥ ३५ ॥

मयूरेशपरायैव मयूरपुरपालक ।
धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥ ३६ ॥

अधर्मनिरतांश्चैव बहिःकाराय देवप ।
सदा स्वानन्दनिष्ठाय नग्नभैरव ते नमः ॥ ३७ ॥

संस्कारयुक्तभावेन पापकर्मपरात्मनाम् ।
मयूरे दण्डकर्त्रे वै नग्नभैरव ते नमः ॥ ३८ ॥

महाबलधरायैव ब्रह्मादीनां प्रचालक ।
अमेयशक्तये देव नग्नभैरव ते नमः ॥ ३९ ॥

भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन ।
गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥ ४० ॥

प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक ।
शूलप्रोतमहाण्डाय नग्नभैरव ते नमः ॥ ४१ ॥

अट्टहासेन देवेन्द्रांस्तथा सन्त्रास्य चासुरान् ।
नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥ ४२ ॥

विश्वं ततं सर्वमिदं त्वयेश आद्यन्तमध्येषु महानुभाव ।
संरक्ष देवेश मयूरसंस्थानस्मान् कुरुष्व त्वमनन्यभावान् ॥ ४३ ॥

शूलिन्नमस्तेऽखिलकारणाय त्वद्भीतिभावेन जगत्प्रवृत्तिः ।
व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यं प्रकरोति चात्मन् ॥ ४४ ॥

[[८६]]

अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व ।
गणेशक्षेत्रं त्वदधीनगं तुं गणेशसंस्थं कुरु ते नमो वै ॥ ४५ ॥

इदं स्तोत्रं महेशाना नग्नभैरवकस्य च ।
यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥ ४६ ॥

धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् ।
लभेदनेन देवेशास्तुविध्वं नग्नभैरवम् ॥ ४७ ॥

मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् ।
स्तोत्रेण स्तुवतां नित्यं न किञ्चिद् दुर्लभं भवेत् ॥ ४८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः ॥