॥ श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच ।
गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् ।
वामे सिद्धेः समाख्यातं तीर्थं स्नानेन सिद्धिदम् ॥ १ ॥
दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् ।
लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥ २ ॥
बुद्धेर्लाभस्थतीर्थं तु समीपे लाभदं परम् ।
लाभस्य सन्निधाने तु मयूरस्य प्रकीर्तितम् ॥ ३ ॥
स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् ।
लक्षस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥ ४ ॥
अहम्भावहरं प्रोक्तं नराणां देवसत्तमाः ।
ततश्च मौद्गलं तीर्थं ततो गार्त्समदं स्मृतम् ॥ ५ ॥
ततश्च शुकतीर्थं तु दत्तात्रेयस्य तत्परम् ।
अन्यानि गाणपत्यानां तीर्थानि विविधानि तु ॥ ६ ॥
तत्र मानं प्रवक्ष्यामि समासेन विचक्षणाः ।
धनुर्दशकमानं तु गाणेशं परिकीर्तितम् ॥ ७ ॥
तदर्धं सिद्धिबुद्ध्योश्चान्येषां धनुः प्रमाणकम् ।
तेषां शिष्यादिकानां तु यवमात्रं प्रकीर्तितम् ॥ ८ ॥
मयूराखुपुरोभागे तीर्थं ब्रह्मप्रियस्य च ।
प्रमोदस्य तथा मोदस्य योगप्रियकस्य च ॥ ९ ॥
गणानां तीर्थमुख्यानि तत्रैवं संस्थितान्यपि ।
एतद्गणेशतीर्थस्थतीर्थानि कथितानि तु ॥ १० ॥
दक्षिणोत्तरगान्येव तीर्थानि द्विधनूंषि च ।
वक्रतुण्डादिकानां चाष्टानां देवेन्द्रसत्तमाः ॥ ११ ॥
अन्ये नानाऽवताराश्च गणेशस्य महात्मनः ।
तेषां तत्रैव तीर्थानि गाणपत्यप्रदानि तु ॥ १२ ॥
तत्र क्रमं प्रवक्ष्यामि पूर्वभागे गणेश्वराः ।
संस्थितास्तीर्थगास्तान् वै शृणुध्वं देवसत्तमाः ॥ १३ ॥
वक्रतुण्डश्चैकदन्तो महोदरो गजाननः ।
बल्लाळश्चैव हेरम्बो विघ्नेशो भालचन्द्रकः ॥ १४ ॥
ज्ञानेशः शूर्पकर्णश्च चिन्तामणिर्विनायकः ।
एते द्वादश मुख्याश्च कथितास्तेषु विघ्नपाः ॥ १५ ॥
संस्थांस्तु पश्चिमे भागे कथयामि समासतः ।
लम्बोदरोऽथ विकटो विघ्नेशो धूम्रवर्णकः ॥ १६ ॥
महागणपतिश्चैव तथा सिद्धिविनायकः ।
विघ्नहारश्च ढुण्ढीशो लक्ष्य आशाप्रपूरकः ॥ १७ ॥
वरदो देवदेवेशा मदोत्कट इति श्रुतः ।
एते द्वादश विघ्नेशाः संस्थितास्तीर्थगाः पराः ॥ १८ ॥
अन्ये नानावताराश्चाङ्गुष्ठपर्वसमाश्रिताः ।
तीर्थं मया समाख्यातं गाणेशं गणपप्रियम् ॥ १९ ॥
एतादृशानि चान्यानि कथयितुं न शक्यते ।
तथापि प्रब्रवीम्येव भवतां भक्तियन्त्रितः ॥ २० ॥
ऋषितीर्थाच्चतुर्थ्याश्च तीर्थं कार्ष्णं च शौक्लकम् ।
चतुर्थ्यां स्नानमात्रेण चतुर्विधफलं भवेत् ॥ २१ ॥
ततः शम्याश्च मन्दारस्य ततस्तीर्थमुत्तमम् ।
दूर्वाया धनुषां पञ्च प्रमाणेन व्यवस्थितम् ॥ २२ ॥
तेषु स्नानेन देवेशा ईप्सितं सर्वमाप्नुयात् ।
संस्थमुत्तरत्तीरे यत्तीर्थं तद्भैरवप्रियम् ॥ २३ ॥
नग्नभैरवदेवेशः स्थितस्तत्र बभूव ह ।
नग्नभैरवतीर्थे तु यः स्नायाद्भावसंयुतः ॥ २४ ॥
यातनासम्भवं दुःखं प्राप्नुयान्न नरोत्तमः ।
तत्पुरो द्वारकातीर्थं तत्र स्नानेन मोक्षदम् ॥ २५ ॥
ततोऽयोध्याश्रितं तीर्थं मथुरासंश्रितं ततः ।
स्नानेन मुक्तिदं तत्र नराणामीप्सितं भवेत् ॥ २६ ॥
[[८१]]
संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् ।
तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥ २७ ॥
ततः पुष्करतीर्थं च स्नानतः पापनाशकम् ।
ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥ २८ ॥
चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् ।
तीर्थानि पापसङ्घानां दाहकानि स्थितान्यपि ॥ २९ ॥
तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः ।
एतेषु स्नानमात्रेण स लभेद्वैष्णवं पदम् ॥ ३० ॥
भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् ।
ततः क्रतोः समाख्यातं तीर्थं पापहरं परम् ॥ ३१ ॥
ततो मुनिगणानां च तीर्थानि संस्थितान्यपि ।
तत्र मानं प्रवक्ष्यामि शृणुध्वं ह्येकचेतसः ॥ ३२ ॥
वैष्णवानि च तीर्थानि स्नानतो देवसत्तमाः ।
विष्णुलोकप्रदान्येव ज्ञातव्यानि विशेषतः ॥ ३३ ॥
येषां देवोऽपदेवानामृषीनां तीर्थकानि तु ।
तत्तल्लोकप्रदान्येव स्नानेन स्नानकारिणाम् ॥ ३४ ॥
शुक्लगत्या लये तेषां मुक्तिं गच्छन्ति मानवाः ।
मयूरक्षेत्रमाहात्म्यात् स्नानेनैव कमण्डलोः ॥ ३५ ॥
एकैकं धनुराख्यातं मानं मुख्यात्मनां परम् ।
तीर्थं सर्वत्र माहात्म्ये मयूरे कथितं मया ॥ ३६ ॥
अन्यमुनिगणादीनां तीर्थानि कथितानि च ।
अङ्गुष्ठपर्वमात्राणि ज्ञातव्यानि विशेषतः ॥ ३७ ॥
आदौ सृष्टिसमारम्भे स्रष्टा देवालयः किल ।
मुनयः क्षेत्रतीर्थानि तपस्तेपुः स्वसिद्धये ॥ ३८ ॥
मयूरे तपसा सिद्धाः स्वस्थाने सङ्गता बभुः ।
कलया मुख्यभावेन मयूरेशं समाययुः ॥ ३९ ॥
अतो वक्तुमशक्तं तत्तेषां स्थानादिकं परम् ।
मानं तीर्थं च तद्वच्च ज्ञातव्यं सूक्ष्मचक्षुषा ॥ ४० ॥
अवन्तीतीर्थमाख्यातं दक्षिणे च तटे स्थितम् ।
शुक्रतीर्थमगस्त्यस्य तीर्थं सोमेश्वरस्य च ॥ ४१ ॥
पिशाचानां तथा तीर्थं तीर्थमेव यमस्य च ।
नैर्ऋतस्य तथा तीर्थं हंसतीर्थं ततः परम् ॥ ४२ ॥
भैरवाणां महातीर्थं रुद्राणां तीर्थकानि तु ।
रामेश्वरस्य तीर्थं तु मल्लिकार्जुनकस्य च ॥ ४३ ॥
अधुनोत्तरतीर्थस्य सीमां वः कथयाम्यहम् ।
विष्ण्ववतारतीर्थेभ्योऽप्सरस्तीर्थं प्रकीर्तितम् ॥ ४४ ॥
देवतीर्थं ततः पश्चात्ततो गन्धर्वतीर्थकम् ।
इन्द्रस्याग्नेस्ततस्तीर्थे विष्णुतीर्थं तदन्तगम् ॥ ४५ ॥
दक्षिणतीरगं तीर्थमत्रेः पापहरं परम् ।
एकद्वितत्रितादीनां तीर्थानि गणपात्मनाम् ॥ ४६ ॥
ततः शम्भोर्महातीर्थं सीमासंस्थं महेश्वराः ।
गाणेशात्पूर्वभागे च तीर्थानि कथितानि वै ॥ ४७ ॥
अथ पश्चिमदिग्भागे तीर्थानि कथयाम्यहम् ।
सङ्क्षेपेण सुरश्रेष्ठाः शृणुध्वं विधिपूर्वकम् ॥ ४८ ॥
व्यासतीर्थात् परं तीर्थं काश्याश्चैव ततः परम् ।
मायापुर्याः समाख्यातं ततो विरजकं मतम् ॥ ४९ ॥
कृत्तिवस्त्रत्र्यम्बकेशशिवानां च ततः परम् ।
वैद्यनाथादिकानां च तीर्थानि संस्थितानि च ॥ ५० ॥
ततः कैलासनाथस्य तीर्थं पापहरं परम् ।
ततो द्वादश मासानां तीर्थानि संस्थितानि च ॥ ५१ ॥
मलमासस्य तीर्थं तु गाणेशं नात्र संशयः ।
देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥ ५२ ॥
[[८२]]
मलमासे गणेशस्य पूजनं सेवनं मतम् ।
सर्वार्थसाधकं तच्च भविष्यति महेश्वराः ॥ ५३ ॥
ततः शिवस्य शैवानि तीर्थानि संस्थितानि च ।
लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥ ५४ ॥
विष्णुकाञ्च्यास्ततस्तीर्थं कौमार्याश्च ततः परम् ।
वाराह्यास्तीर्थमुख्यं तु तत ऐन्द्र्याः प्रकीर्तितम् ॥ ५५ ॥
वैष्णव्याश्च ततस्तीर्थं माहेश्वर्यास्ततः परम् ।
ब्राह्म्यास्तीर्थं ततो रक्तदन्तायाश्च प्रकीर्तितम् ॥ ५६ ॥
ततो वसिष्ठतीर्थं तु पौलस्त्यं तीर्थमुत्तमम् ।
ततश्चाङ्गिरसस्तीर्थं कण्वतीर्थं ततः परम् ॥ ५७ ॥
जैमिनेस्तीर्थमुख्यं च ततो मेधातिथेः स्मृतम् ।
कार्तवीर्यस्य तीर्थं तु मान्धातुश्च ततः परम् ॥ ५८ ॥
ययातेर्नहुषस्यैव ध्रुवस्य च ततः परम् ।
भरद्वाजस्य तीर्थं तु जमदग्नेस्ततः परम् ॥ ५९ ॥
गौतमस्य ततस्तीर्थं पाण्डवैश्च ततः कृतम् ।
ततो वरुणतीर्थं तु मरुतश्च ततः परम् ॥ ६० ॥
पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततः परम् ।
तत्रैव संस्थिता देवी गयागदाधरादिभिः ॥ ६१ ॥
उभयोस्तीरयोः सेवि नराणां ब्रह्मदायिनी ।
तत्र पिण्डप्रदानेन ब्रह्मभूताः पितामहाः ॥ ६२ ॥
पितरश्च तथाऽन्ये वै भवन्ति क्षेत्रकारणात् ।
ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततः परम् ॥ ६३ ॥
ततः परं मुनीनां तु तीर्थानि विविधानि च ।
कथयितुं न शक्यानि मया केनापि निश्चितम् ॥ ६४ ॥
भैरवाणां ततस्तीर्थं स्कन्दस्य च ततः परम् ।
नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परम् ॥ ६५ ॥
वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च ।
पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च ॥ ६६ ॥
साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च तीर्थकम् ।
सीमाभूतं महेशानास्तटे दक्षिणगे परम् ॥ ६७ ॥
अधुनोत्तरगे तीरे व्यासतीर्थान् महेश्वराः ।
तीर्थानि संस्थितान्येव तान्यहं प्रवदामि तु ॥ ६८ ॥
व्यासतीर्थात् स्वयं ब्रह्मा प्रयागसंयुतः स्थितः ।
तस्य तीर्थं महत्तत्र सर्वपापप्रणाशनम् ॥ ६९ ॥
कर्मतीर्थं ततः पश्चात्ततोऽग्नेस्तीर्थमुत्तमम् ।
द्वादशादित्यकानां च तीर्थानि च ततः परम् ॥ ७० ॥
शिवकाञ्च्यास्ततस्तीर्थं ततः सूर्यस्य तीर्थकम् ।
पूर्णस्य पूर्णभावाख्यं सर्वरोगनिकृन्तनम् ॥ ७१ ॥
ततो ग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः ।
तेषां तीर्थानि देवेशा देवानां यक्षरक्षसाम् ॥ ७२ ॥
महाकाल्यास्ततस्तीर्थं नारसिंह्यास्ततः परम् ।
शाकम्भर्यास्ततः प्रोक्तं चामुण्डायास्ततः परम् ॥ ७३ ॥
त्रिपुरायास्ततस्तीर्थं ततस्तीर्थानि देवपाः ।
महामायायुतानां वै शक्तीनां विविधानि च ॥ ७४ ॥
चतुःषष्टिमितानां च योगिनीनां मतानि वै ।
तीर्थानि योगदान्येव परदेहजकानि च ॥ ७५ ॥
ततश्च नैध्रुवं तीर्थं देवलस्य ततः परम् ।
मार्कण्डेयस्य तीर्थं तु भैरवाणां ततः परम् ॥ ७६ ॥
कालभैरवतीर्थं तु ततः क्रतुमुखाः परम् ।
तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ॥ ७७ ॥
ततो रैवतकं तीर्थं ततो योगमयं परम् ।
जडभरततीर्थं च योगसिद्धिप्रदायकम् ॥ ७८ ॥
[[८३]]
ओङ्कारगणनाथस्य ततस्तीर्थं प्रकीर्तितम् ।
विद्याधराणां तीर्थं च ततः पैशाचमोचनम् ॥ ७९ ॥
ततो धर्मस्य तीर्थं त्वश्विनोस्तीर्थं ततः परम् ।
नागानां शेषकादीनां ततस्तीर्थशतानि च ॥ ८० ॥
ततो गवां महातीर्थं सनकादेस्ततः परम् ।
चतुर्दश मनूनां च तीर्थानि च ततः परम् ॥ ८१ ॥
महाशक्तेस्ततस्तीर्थमसितस्य ततः परम् ।
दक्षादीनां च तीर्थानि ततो मातृगणाः स्मृताः ॥ ८२ ॥
तेषां तीर्थानि देवेशाः षष्टिर्दक्षस्य कन्यकाः ।
तासां तीर्थानि तत्पश्चाद्गन्धर्वाणां ततः परम् ॥ ८३ ॥
गुह्यकानां तु तीर्थानि ततो विभीषणस्य च ।
रावणस्य ततस्तीर्थं श्वेतकेतोस्ततः परम् ॥ ८४ ॥
उद्दालकस्य तीर्थं तु रक्षसां च ततः स्मृतम् ।
अष्टावक्रस्य तीर्थं तु वैश्वदेवं ततः परम् ॥ ८५ ॥
तीर्थानि चैव तेषां तु ततो दक्षस्य धीमतः ।
पुत्री सन्तानकादीनां तीर्थानि विविधानि च ॥ ८६ ॥
मारीचमौद्गलादीनां विप्राणां च ततः परम् ।
तीर्थानि पाण्डवेशस्य तीर्थं दुर्वाससः परम् ॥ ८७ ॥
दत्तस्य तीर्थकं प्रोक्तं निदाघस्य ततः परम् ।
हनूमतस्ततस्तीर्थं सुग्रीवस्य ततः परम् ॥ ८८ ॥
तीर्थं जाम्बवतः प्रोक्तं बलेस्तीर्थं ततः परम् ।
ततश्च वालखिल्यानां गालवस्य ततः परम् ॥ ८९ ॥
विश्वामित्रस्य तीर्थं तु तीर्थं त्रिशिरसस्ततः ।
मृकण्डस्य ततस्तीर्थं दधीचेश्च ततः परम् ॥ ९० ॥
किन्नराणां ततस्तीर्थं साध्यानां च ततः परम् ।
कामधेनुमुखीनां च गवां तीर्थं ततः परम् ॥ ९१ ॥
असितस्य ततस्तीर्थमिक्ष्वाकोश्च ततः परम् ।
गार्ग्याणां च ततस्तीर्थं माण्डूकानां ततः परम् ॥ ९२ ॥
धौम्यस्य चैव वाल्मीकेस्ततस्तीर्थं च जैमिनेः ।
वाचक्नवेस्ततस्तीर्थं ततो मङ्कणकस्य च ॥ ९३ ॥
प्रह्लादस्य ततस्तीर्थं दधीचेश्च ततः परम् ।
उपमन्योस्ततस्तीर्थं वैशम्पायनकस्य च ॥ ९४ ॥
जाजलेः पर्वतस्यैव पैलस्य च ततः परम् ।
लोमशस्य विभाण्डस्य ऋष्यशृङ्गस्य तत्परम् ॥ ९५ ॥
ततो मुनिगणानां च तीर्थानि विविधानि तु ।
अश्वत्थाम्नस्ततस्तीर्थं कृपस्य च ततः परम् ॥ ९६ ॥
ततो वराहतीर्थं तु भूम्यास्तीर्थं ततः परम् ।
प्रकृतेः पुरुषस्यैका महामाया प्रकीर्तिता ॥ ९७ ॥
तस्यास्तीर्थं समाख्यातं सीमासंस्थं महेश्वराः ।
एतानि तीर्थमुख्यानि कथितानि समासतः ॥ ९८ ॥
स्वस्वमुख्यदिनेष्वेव सेवनीयानि मानवैः ।
मयूरवासिभिः स्वस्वसिद्धिदानि भवन्ति हि ॥ ९९ ॥
मयूरेऽपारतीर्थानि तेषां मानं वदाम्यहम् ।
अङ्गुष्ठपर्वमात्राणि तीर्थानि तीर्थसेविनाम् ॥ १०० ॥
यवमात्रस्वरूपेण संस्थितास्तीर्थसेविनः ।
त्रैलोक्ये यानि तीर्थानि नानाभेदधरणि च ॥ १०१ ॥
मयूरे तानि सर्वाणि संस्थितानि विशेषतः ।
अणुमात्रस्वरूपैस्तु ज्ञातव्यानि मनीषिभिः ॥ १०२ ॥
मयूरे यानि तीर्थानि न गच्छन्ति तु कुत्रचित् ।
स्वस्वस्थानं समाश्रित्य सेवन्ते द्विरदाननम् ॥ १०३ ॥
[[८४]]
गाणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः ।
संस्थितास्ते तु गच्छन्ति मयूरे दर्शनार्थिनः ॥ १०४ ॥
एतत् सङ्क्षेपतः प्रोक्तं तीर्थानां तु चरित्रकम् ।
श्रवणात् पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेत् ॥ १०५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥