॥ श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच ।
अधुना यानि मायूरे कमण्डलुतटेऽमराः ।
तीर्थानि तेषु मुख्यानि कथयामि समासतः ॥ १ ॥
मुख्यं गणेशकुण्डाख्यं तीर्थमेकं प्रकीर्तितम् ।
सङ्क्षेपतश्चरित्रं तु कथितं तस्य देवपाः ॥ २ ॥
अतः परं पञ्चतीर्थानि शृणुध्वं समासतः ।
गाणेशं मध्यभागे यद्धनुषां द्विशतात्मकम् ॥ ३ ॥
तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः ।
स्नानं कुर्वन्ति सर्वेऽन्ये नित्यमेकं प्रयत्नतः ॥ ४ ॥
उभयोस्तीरगं प्रोक्तं परं ब्रह्म कमण्डलोः ।
तत्र स्नानेन गाणेशा भवन्ति जन्तवः सदा ॥ ५ ॥
ततः परं महातीर्थं कापिलं तादृशं मतम् ।
कमलासुरनाशाय गणेशः कपिलोऽभवन् ॥ ६ ॥
हत्वाऽसुरं महावीर्यमजेयं शङ्करादिभिः ।
तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवत् ॥ ७ ॥
तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः ।
कपिलाय गणेशस्य सूक्तैर्हर्षसमन्वितः ॥ ८ ॥
तत्र पञ्चामृतं नाम बभूव किल पूजनात् ।
नद्यास्तेषां च योगेन तत्तीर्थं परमं मतम् ॥ ९ ॥
स्नानेन कापिलं तत्र ज्ञानं साङ्ख्यात्मकं लभेत् ।
कपिलो विष्णुराख्यातोऽभवत्तत्रैव संस्थितः ॥ १० ॥
ततः परं व्यासतीर्थं सर्वाज्ञानविनाशनम् ।
तावता मानयोगेन ज्ञातव्यं विबुधैः परम् ॥ ११ ॥
व्यासेन तत्र देवेशास्तपस्तप्तं सुदारुणम् ।
शतवर्षे गते चाढ्यं ददौ वरं गणेश्वरः ॥ १२ ॥
तेन भारतकं धर्माऽधर्मयुक्तं चकार ह ।
शास्त्रं ब्रह्मपदं तच्च तयोरैक्ये महेश्वराः ॥ १३ ॥
तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः ।
धर्माऽधर्मव्यवस्थां स ज्ञात्वा बोधयुतो भवेत् ॥ १४ ॥
गणेशतीर्थादथ तु पूर्वभागे समास्थितम् ।
भीमकुण्डं महेशाना भीमेशेन विनिर्मितम् ॥ १५ ॥
तत्र स्थित्वा तपश्चक्रे भीमेशो गणपस्य च ।
वरदानप्रभावेण भीमासुरं जघान सः ॥ १६ ॥
[[७९]]
भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् ।
तत्र स्नानेनैव सद्यस्तावन्मानयुतं बभौ ॥ १७ ॥
कदाचिदुष्णकाले तज्जलहीनं बभूव ह ।
तीर्थं तत्रागतो भीमः पाण्डुपुत्रः प्रतापवान् ॥ १८ ॥
गदा प्रहारेण तेन खातं तीर्थमनुत्तमम् ।
जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥ १९ ॥
बलात्मकं तेन तत्रैश्वर्यं प्राप्तं महाद्भुतम् ।
धृतराष्ट्रसुतान् सर्वान् जघानैश्वर्यसंयुतः ॥ २० ॥
ततः परमृषीणां च तीर्थं स्वधर्मदायकम् ।
तावन्मानेन तत्रैव तपः सामर्थ्यदायकम् ॥ २१ ॥
अष्टाशीति सहस्राणि मुनयो ब्रह्म तत्पराः ।
प्राप्त्यर्थं ब्राह्मणत्वस्य तपश्चेरुश्च तत्र ते ॥ २२ ॥
ब्रह्मभूता बभूवुस्ते स्थितास्तत्र विशेषतः ।
जीवन्मुक्तस्वभावेनाभजल्लम्बोदरं परम् ॥ २३ ॥
पञ्चतीर्थी समाख्याताऽमराः क्षेत्रे मयूरके ।
पञ्चसु स्नानमात्रेण ब्रह्मभूतो नरो भवेत् ॥ २४ ॥
आदौ स्नायात् स गाणेशे भैमे चार्षे ततः परम् ।
व्यासतीर्थे कापिले च गाणेशेऽन्ते क्रमं चरेत् ॥ २५ ॥
गणेशतीर्थात् पूर्वस्मात् क्षेत्रान्ते तीर्थमुत्तमम् ।
षट्त्रिंशत्तु शतान्येव धनुषां पापनाशनम् ॥ २६ ॥
दक्षिणतीरगस्तत्र शिवः शक्तिसमन्वितः ।
संस्थितस्तीर्थमाश्रित्य सर्वार्थानां प्रवर्तकः ॥ २७ ॥
उत्तरं तीरमाश्रित्य रमया केशवः स्थितः ।
सर्वधर्मप्रदाता तु क्षेत्रान्ते क्षेत्रधारकः ॥ २८ ॥
सर्वाघघ्नमिति ख्यातं तीर्थं स्नानेन देवपाः ।
षष्ठं सर्वत्र विख्यातं दुःखनाशकरं भवेत् ॥ २९ ॥
गणेशतीर्थकाद्देवाः प्रतीच्यां तीर्थमुत्तमम् ।
क्षेत्रान्ते संस्थितं नाम्ना सर्वपुण्यप्रदायकम् ॥ ३० ॥
तीर्थस्योत्तरतीरस्थो भानुः सञ्ज्ञासमन्वितः ।
दक्षिणतीरसंस्थौ च परौ प्रकृतिपूरुषौ ॥ ३१ ॥
तत्र स्नानेनैव सद्यः पुण्यराशिर्भवेन्नरः ।
यद्यदिच्छेच्छुभं तत्तत् स लभेन्नात्र संशयः ॥ ३२ ॥
सप्तमं तीर्थमुख्यं तु पूर्वे दूरे चतुर्गुणम् ।
सप्ततीर्थेषु यः स्नायात् स वै सर्वं लभेच्छुभम् ॥ ३३ ॥
आदौ गाणेशके स्नायाद्भैमे चार्षे ह्यघघ्नके ।
पुण्यदेव्या स तीर्थे स कापिले गाणपे पुनः ॥ ३४ ॥
एवं मुख्यानि सप्तैव कथितानि समासतः ।
श्रवणात् पापनाशं तु कुर्वन्ति पठनान्नृणाम् ॥ ३५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः ॥
[[८०]]