२५ ब्रह्मकमण्डलुतीर्थचरितम्

॥ श्रीगणेशाय नमः ॥

देवेशा ऊचुः ।
कथं देवैश्च मुनिभिः स्तुता विप्र महानदी ।
ब्रह्मणोऽर्थं तदेवापि स्तोत्रं वद सुखप्रदम् ॥ १ ॥

भ्रूशुण्ड्युवाच ।
नानातीर्थबलेनैव ब्रह्माणं ते सुरर्षयः ।
शुद्धं कर्तुं समर्था न बभूवुश्च यदा पुरा ॥ २ ॥

ततः सर्वे विचार्यैव तुरीयं तीर्थमुत्तमम् ।
स्तोतुं करपुटा भूत्वा समारेभुः सुस्तोत्रकम् ॥ ३ ॥

देवर्षय ऊचुः ।
सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् ।
तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥ ४ ॥

गङ्गादिनद्यः प्रभवा यतश्च सर्वान्तरस्थं स्थितमात्मरूपम् ।
नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥ ५ ॥

पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् ।
अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥ ६ ॥

नाथो विधाता च भवेन्महात्मन् पापेन युक्तश्च तथा स्थितश्चेत् ।
विश्वं परं नाशमुपैष्यति त्वं प्रत्यक्षतामेहि दयाकरातः ॥ ७ ॥

गङ्गास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूपधराय तुभ्यम् ।
तुभ्यं प्रयागाय च नार्मदाय कालिन्दिकास्थाय नमो नमो वै ॥ ८ ॥

कृष्णास्वरूपाय ककुद्मतीस्थ यद्देवनद्यै च पयोष्णिकायै ।
वेणीस्वरूपाय च पुष्कराय तापीप्रभासाय च सर्वतीर्थ ॥ ९ ॥

गोदावरीरूपधराय तुभ्यं क्षिप्रास्थसिन्धुस्थ महीस्वरूप ।
कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेऽस्तु कमण्डलुस्थम् ॥ १० ॥

सार्धत्रिकोटीप्रवरस्थकाय तीर्थेश्वरायैव नमो नमस्ते ।
अनन्ततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥ ११ ॥

[[७४]]

वाराम्पतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते ।
यद्यज्जलं भानुघनस्थरूपं तत्रस्थकायैव नमो नमस्ते ॥ १२ ॥

त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश ।
कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व सन्दर्शय ते स्वरूपम् ॥ १३ ॥

भ्रूशुण्ड्युवाच ।
एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम् ।
प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥ १४ ॥

तानुवाच महातीर्थं हर्षयुक्तेन चेतसा ।
वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥ १५ ॥

भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ १६ ॥

पठते शृण्वते नित्यं मयि स्नानफलप्रदम् ।
सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥ १७ ॥

सर्वतीर्थवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुः प्रणम्य देवेशाः प्रबद्धकरसम्पुटाः ॥ १८ ॥

देवर्षय ऊचुः ।
प्रसन्नं चेन् महातीर्थ तदा पितामहं परम् ।
शुद्धं कुरु तथा तस्य कमण्डलौ स्थितिं स्थिराम् ॥ १९ ॥

सर्वतीर्थं च ते नाम तथा ब्रह्मकमण्डलुः ।
भवतु त्वत्प्रसादेन वर एव वृतः परः ॥ २० ॥

तथेति तानुवाचैव याचितं तीर्थमुत्तमम् ।
चकार देवविप्रैर्यत्तत् सर्वं कथितं मया ॥ २१ ॥

देवेशा ऊचुः ।
श्रुतं सर्वं विशेषेण सर्वसंशयनाशनम् ।
तथापि न च तृप्यामः परं पीत्वा कथामृतम् ॥ २२ ॥

माहात्म्यं कथितं विप्र तत्र सिद्धिं महाद्भुताम् ।
अलभन् के पुरा योगिन् वद तेषां चरित्रकम् ॥ २३ ॥

भ्रूशुण्ड्युवाच ।
पुरा कल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः ।
मूर्खो बभूव देवेशा विद्यासन्ध्यादिवर्जितः ॥ २४ ॥

तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमण्डलौ ।
ब्रह्माणं ययुतः प्रीत्या नदीमूलविराजितम् ॥ २५ ॥

स्नात्वा नदीजले तत्र पूजयामासुरादरात् ।
विधिं कमण्डलुस्थाने बभूवुर्भक्तिसंयुताः ॥ २६ ॥

पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव तत्क्षणात् ।
वेदादीन् कण्ठगान् देवा अवदत् प्रेमसंयुतः ॥ २७ ॥

ततो हर्षयुतौ तस्य पितरौ गृह्य तं सुतम् ।
स्वस्थानं जग्मतुः प्रीत्या मुक्तिमन्ते प्रलेभिरे ॥ २८ ॥

एवं नाना जनास्तत्र ज्ञानतोऽज्ञानतोऽपि वा ।
स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् ॥ २९ ॥

अथान्यत् कथयिष्यामि क्षत्रियो रविवंशजः ।
सुरथो मालवे राजा बभूव परवीरहा ॥ ३० ॥

स्वराज्यं धर्मसंयुक्तश्चकार सचिवैर्युतः ।
बहुकाले गते तत्र विदर्भाधिपतिर्ययौ ॥ ३१ ॥

दिग्जयार्थं ततस्तेन युयुधे बलसंयुतः ।
पराजितो विदर्भस्य राज्ञा राजा पपाल ह ॥ ३२ ॥

ततो यत्नं समास्थाय ह्यन्यराजसमन्वितः ।
सङ्ग्राममकरोद्घोरं पुनः पराजितोऽभवत् ॥ ३३ ॥

भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागतोऽभवत् ।
मध्यमेश्वरतीर्थे स स्नात्वा शिवं पुपूज ह ॥ ३४ ॥

तं नमस्कृत्य सेनाभिः संयुतो युयुधे पुनः ।
भूपः सञ्जित्य वैदर्भं स्वराज्यं प्राप तत्क्षणात् ॥ ३५ ॥

अन्ते मुक्तिं जगामैव स्नानमाहात्म्यकारणात् ।
एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥ ३६ ॥

[[७५]]

अन्यच्च शृणुत प्राज्ञाश्चरितं पुण्यदं परम् ।
द्विजो गौतमवंशेऽभूत् स्वधर्माचारसंयुतः ॥ ३७ ॥

विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा ।
दीक्षादिषु प्रयत्नेनाभवत् कर्मसु तत्परः ॥ ३८ ॥

ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् ।
दोषयुक्तं विशेषेण ददृशुः पापगौरवात् ॥ ३९ ॥

ततोऽतिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् ।
अन्ते विचार्य तस्यां स स्नानं चकार भक्तितः ॥ ४० ॥

हृषीकेशं प्रपूज्यैव नमस्कृत्य गृहं ययौ ।
ततः कर्म कृतं तेन ददृशुः सविधि द्विजाः ॥ ४१ ॥

यद्यत्तेन कृतं देवा यशोयुक्तं बभूव ह ।
अन्ते मुक्तिं ययौ सोऽपि तीर्थसेवनपुण्यतः ॥ ४२ ॥

ज्ञानतोऽज्ञानतस्तत्र ययुः सिद्धिं विशेषतः ।
मया वक्तुं न शक्येत केनापि देवसत्तमाः ॥ ४३ ॥

अर्थान्यच्चरितं देवाः शृणुध्वं भावसंयुताः ।
दण्डकारण्यदेशैकश्चाण्डालः पापकारकः ॥ ४४ ॥

वने गत्वा द्विजादींश्च मारयामास नित्यदा ।
परस्त्रियं स एकान्तेऽयभत् दृष्ट्वा हठेन च ॥ ४५ ॥

एवं नानाविधं पापं चकार विषयप्रियः ।
एकदा धनसंयुक्तं वणिजं स दर्दश ह ॥ ४६ ॥

तमनु प्रययौ दुष्टः शस्त्रपाणिर्जिघांसया ।
तत्र मार्गे महेशाना ब्रह्मकमण्डलूद्भवाम् ॥ ४७ ॥

महानदीं स चाण्डालो ददर्श सन्निधौ गतः ।
जलस्पर्शादिकं तत्र न चकार सुदुर्मतिः ॥ ४८ ॥

ततो योजनमात्रेण जघान वणिजं खलः ।
द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमत् ॥ ४९ ॥

एवं कृत्वा ततः काले ममार नीचयोनिजः ।
यामास्तं गृह्य सन्ताड्य ययुः संयमिनीं पुरीम् ॥ ५० ॥

यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणम् ।
महापापी भटा नूनमयं तदपि मुच्यताम् ॥ ५१ ॥

सर्वतीर्थस्य दूतेशा दर्शनं त्वभवत् पुरा ।
वणिजं हन्तुकामस्य पापनाशकरं महत् ॥ ५२ ॥

त्यज्यतां मानुषे देहेषु नरेनं विचक्षणाः ।
शुभाशुभं तत्र कृत्वा गमिष्यति पुनः पुरम् ॥ ५३ ॥

स कैवर्तोऽभवत्तत्र बङ्गाले देवसत्तमाः ।
एवं दर्शनमात्रेणेह कृतं दुरितं गतम् ॥ ५४ ॥

अन्यद्यज्जलबिन्दोश्च स्पर्शजं कथयाम्यहम् ।
चरितं तस्य सर्वज्ञाः शृणुध्वं सिद्धिदं परम् ॥ ५५ ॥

व्याधः कश्चिद्वने संस्थो बभूवे तत्र देशजः ।
ब्रह्महत्यादिकं पापं चकार नित्यमादरात् ॥ ५६ ॥

ददर्श द्रव्यसंयुक्तं दुष्टधीरेकदा नरम् ।
खड्गमुद्यम्य निःकोशं तं हन्तुं धावितोऽभवत् ॥ ५७ ॥

पपाल मानवो भीतः पृष्ठे व्याधस्तथा गमत् ।
कमण्डलूद्भवा गङ्गा प्राप्ता दैववशेन ह ॥ ५८ ॥

तामुल्लङ्घ्य पपालाऽसौ सोऽपि खड्गयुतस्तथा ।
व्याधः पपात दैवेनोल्लङ्घ्य तीरे दुरात्मवान् ॥ ५९ ॥

स तत्र जलबिन्दूनां स्पशर्युक्तो बभूव ह ।
नरो दूरं गतः सोऽपि निःश्वस्य स्वगृहं ययौ ॥ ६० ॥

एवं पापसमाचारं मृतं काले सुदुर्मतिम् ।
व्याधं तं गृह्य देवेशा यमदूता यमं ययुः ॥ ६१ ॥

तं दृष्ट्वा धर्मराजस्तानुवाच प्रेमसंयुतः ।
अयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥ ६२ ॥

[[७६]]

कमण्डलूद्भवातीरे पपात धावनाकुलः ।
तत्र तस्या जलस्पर्शो बभूवे चास्य दर्शनम् ॥ ६३ ॥

दर्शनेनेहजं पापं गतं सर्वं लयं किल ।
अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥ ६४ ॥

ततः परं कृतं पापं यातनादं मतं यमाः ।
तथापि नैव योग्योऽयं यातनायां विशेषतः ॥ ६५ ॥

ब्रह्मकमण्डलोर्यस्य दर्शनादिकमञ्जसा ।
भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥ ६६ ॥

काश्मीरे स बभूवापि ब्राह्मणो वेदपारगः ।
एवं नाना जनास्तस्यां पापहीना बभूविरे ॥ ६७ ॥

अथेतिहासकं वक्ष्ये पुराकल्पभवं परम् ।
शूद्रः कश्चिद्बभूवाऽपि बङ्गदेशे महेश्वराः ॥ ६८ ॥

श्यामो नाम महापापी शिश्नोदरपरायणः ।
चौर्यकर्मपरो नित्यं नगरेषु वनेषु च ॥ ६९ ॥

बभ्राम शस्त्रसंयुक्तो मारयामास नित्यदा ।
जनान्नानाविधांश्चैव मद्यमांसपरोऽभवत् ॥ ७० ॥

स कदाचिद्वने संस्थो ददर्श वणिगुत्तमान् ।
द्रव्ययुक्तांस्ततो दुष्टो मार्गसंस्थो बभूव तैः ॥ ७१ ॥

ते ययुर्दण्डकारण्ये सोऽपि चौर्यार्थमाययौ ।
तत्रोष्णकामयोगेन जलहीनाश्च बभ्रमुः ॥ ७२ ॥

तृषायुक्ताः समायातास्तटे ब्रह्मकमण्डलोः ।
तस्यां जलं पपुः सर्वे पुनर्ग्रामं समाययुः ॥ ७३ ॥

निशि सुप्ताश्च चौरेण हता मृत्युं ययुस्ततः ।
देवेन्द्रनगरे सर्वे ययुः पुण्यप्रभावतः ॥ ७४ ॥

जलपानेन देवेशाः किल ब्रह्मकमण्डलोः ।
इन्द्रपुर्यां निवासं ते चक्रिरे वणिगुत्तमाः ॥ ७५ ॥

ततः काले मृतं चौरं गृहीतुं तं यमस्य च ।
दूता ययुर्यमं गृह्य दृष्ट्वा देवोऽब्रवीद्यमः ॥ ७६ ॥

धर्म उवाच ।

अयं शूद्रो महापापी तथाऽपि पुण्यवानभूत् ।
सर्वतीर्थमयीं दृष्ट्वा दुष्टकार्यवशात् किल ॥ ७७ ॥

जलपानं कृतं तस्यास्तत्र स्पर्शो जलस्य च ।
बभूव त्रिविधं पुण्यं तेषां वक्ष्यामि कारणम् ॥ ७८ ॥

इह जन्मकृतं पापं दर्शनेन लयं गतम् ।
कमण्डलूद्भवायास्तु स्पर्शेनानेकजन्मजम् ॥ ७९ ॥

पानेनेन्द्रपदप्राप्तिसमं पुण्यं बभूव ह ।
बाह्यान्तः पापहीनश्च पुण्ययुक्तोऽयमुच्यते ॥ ८० ॥

अत एनं प्रगृह्य त्वं महेन्द्रं दूतसत्तम ।
प्रापय तत्पुरे संस्थो भोगान् भोक्ष्यति निश्चितम् ॥ ८१ ॥

पुनः पतिष्यति प्राज्ञः पृथिव्यां नात्र संशयः ।
दूतस्तथा चकारैव प्रणनाम यमं पुनः ॥ ८२ ॥

एवं नाना नरा देवा ययुः सिद्धिं विशेषतः ।
तन्न शक्यं कथयितुं न भवति शतवर्षतः ॥ ८३ ॥

अन्यद्वः कथयिष्यामि चेतिहासं पुरा भवम् ।
सङ्क्षेपेण महाभागा स्नानसिद्धिप्रकाशकम् ॥ ८४ ॥

धनप्रिय इति ख्यातो बङ्गाले कारुकोऽभवत् ।
पापनिष्ठः सदा पापं चकार दुर्मतिर्मुदा ॥ ८५ ॥

द्रव्यार्थं विषदानेन हतौ मातापिता स्वकौ ।
प्रणम्य ब्राह्मणादींश्च जघान विषयोगतः ॥ ८६ ॥

साधुभावप्रदर्शी स बा?ह्येन्तस्तु दुरात्मवान् ।
तेन मोहयुताः सर्वे तदधीना बभूविरे ॥ ८७ ॥

ततो बहौ गते काले राज्ञा ज्ञातं दुरात्मनः ।
कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥ ८८ ॥

[[७७]]

स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः ।
पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥ ८९ ॥

ततोऽयं दण्डकारण्ये पुत्रदारैर्जगाम ह ।
तत्रैव रोचयामास वासार्थं ग्राममुत्तमम् ॥ ९० ॥

तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह ।
एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥ ९१ ॥

अनु तं विषसंयुक्तो जगाम दुष्टधीः खलः ।
साधुलक्षणसंयुक्तो लोभनाय वणिक्सुतम् ॥ ९२ ॥

मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा ।
तस्यां स्नानं चकाराऽसौ वणिजेन समन्वितः ॥ ९३ ॥

प्रगच्छन्तं ततो मार्गे द्वितीये दिवसे खलः ।
विषेणामोह्य वणिजं मारयामास तत्क्षणात् ॥ ९४ ॥

वणिक्स स्नानपुण्येन शुक्लगत्या महेश्वराः ।
कमण्डलोर्महामोक्षं लेभे क्रमेण निश्चितम् ॥ ९५ ॥

धनप्रियो ममारैव कालेन स्वगृहे स्थितः ।
सोऽपि मोक्षं महादेवा लेभे स्नानप्रभावतः ॥ ९६ ॥

अधुनाऽन्यत् प्रवक्ष्यामि चरित्रं च कमण्डलोः ।
स्मरणेन महेशाना महासिद्धिप्रदायकम् ॥ ९७ ॥

गुर्जरे वैश्यजः कश्चिद् बभूवे धर्मनामकः ।
स्वधर्मनिरतो नित्यं चकार कर्म चादरात् ॥ ९८ ॥

तेन स्कान्दभवं तत्र माहात्म्यं संश्रुतं परम् ।
कमण्डलुप्रभावेण युक्तं स्वयं सुविस्मितः ॥ ९९ ॥

मनसा धारयामास धन्येयं सरितांवरा ।
मया लभ्या यदा देवी तदा मे सफलं जनुः ॥ १०० ॥

धर्मो नित्यं महेशानास्तां सस्मार महानदीम् ।
तत्र कोऽपि समायातः क्षत्रियो मार्गगः कदा ॥ १०१ ॥

तेनाऽपि संश्रुतं नाम ब्रह्मकमण्डलूद्भवम् ।
प्रातरुत्थाय स्वस्थानं जगाम क्षत्रियः खलः ॥ १०२ ॥

ततो बहौ गते काले धर्मसञ्ज्ञो ममार ह ।
स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् ॥ १०३ ॥

पुनश्च ब्राह्मणः सोऽपि बभूवात्रिकुलोद्भवः ।
शिवदत्त इति ख्यातः सर्वतीर्थनदीतटे ॥ १०४ ॥

स्वधर्मनिरतो विप्रो न मुमोच नदीतटम् ।
तत्र स्नानादिकं सर्वं जलकार्यं चकार ह ॥ १०५ ॥

पूर्वपुण्यबलेनैवोत्तमतीर्थस्य सेवनात् ।
योगी बभूव तत्राऽसौ ममार तु तटे स्थितः ॥ १०६ ॥

ब्रह्मणि ब्रह्मभूतः स बभूवे देवसत्तमाः ।
एवं दूरस्थितस्याऽपि स्मरणेन गतिप्रदा ॥ १०७ ॥

येन श्रुतं महन्नाम सर्वतीर्थस्य देवपाः ।
क्षत्रियः पापकर्मा स चकार पापमुल्बणम् ॥ १०८ ॥

मृतं तं यमदूताः सङ्गृह्य सन्ताड्य भानुजम् ।
प्रणम्य नरके दुष्टं चिक्षिपुश्च तदाज्ञया ॥ १०९ ॥

पुनः श्वानो बभूवाऽपि क्षत्रियः पापकारकः ।
बभ्राम दण्डकारण्य आजगाम महानदीम् ॥ ११० ॥

तत्र कीटादिभिः श्वानो मक्षिकाभिः प्रपीडितः ।
स्नानं चक्रे महानद्यां पूर्वसंस्कारयोगतः ॥ १११ ॥

ममार तेन पुण्येन मोक्षं लेभे न संशयः ।
सकृन्नाम्नः श्रुतस्यैव पुण्येनेदं कृतं महत् ॥ ११२ ॥

धन्यास्ता वीरुधो वल्ल्यस्तृणानि वृक्षकादयः ।
ब्रह्मकमण्डलोस्तीरे नान्यत्र राज्यसंयुतः ॥ ११३ ॥

[[७८]]

यस्यास्तीरे मृतो जन्तुः शुक्लगत्या गमिष्यति ।
ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥ ११४ ॥

एवं सर्वत्र देवेशा ब्रह्मकमण्डलूद्भवा ।
शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥ ११५ ॥

चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा ।
सर्वत्र दुर्लभा देवादीनां त्रिषु कमण्डलुः ॥ ११६ ॥

कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा ।
अन्ते कोटिश्च सर्वत्र तीरे कोट्यर्धमञ्जसा ॥ ११७ ॥

सङ्क्षेपेण मया तस्याश्चरितं कथितं परम् ।
श्रवणात् पठनाद्देवाः सर्वपापहरं भवेत् ॥ ११८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः ॥