२४ ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनम्

॥ श्रीगणेशाय नमः ॥

?भ्रूशुण्ड्युवाच ।
एकदा गणनाथस्य दर्शनार्थं समाययौ ।
ब्रह्मा स्नात्वा महाकुण्डे स्तोतुं स्तोत्रं समारभत् ॥ १ ॥

ब्रह्मोवाच ।
नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च ।
अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ २ ॥

अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् ।
गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ ३ ॥

भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् ।
अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ ४ ॥

तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च ।
सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥ ५ ॥

स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः ।
नित्यं जले ते विनिमज्य शुद्धा आयान्ति स्वस्थानमघापहारि ॥ ६ ॥

प्रयागतीर्थे मरणेन जन्तुर्मनीषितं तीर्थवरे लभेद्वै ।
तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्चेत् ॥ ७ ॥

वाचः परं ते जलबिन्दुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् ।
साक्षाद्गणेशाङ्कुशघातजं तन्नमामि कुण्डं गणनायकस्य ॥ ८ ॥

धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन ।
तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥ ९ ॥

त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तत् ।
विना श्रमेणैव नरा लभन्ते शुकादिकानां पदमत्र चित्रम् ॥ १० ॥

त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः ।
किं वर्णयाम्येव गणेशकुण्ड स्वल्पज्ञभावात्तु नमो नमस्ते ॥ ११ ॥

भ्रूशुण्ड्युवाच ।
स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः ।
भुक्तिं मुक्तिं लभेत् सोपि श्रद्धया ब्रह्मभूयकम् ॥ १२ ॥

इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥ १३ ॥

ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः ।
पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरोऽभवत् ॥ १४ ॥

पादस्पर्शेन तस्यापि कमण्डलुजलैर्युतः ।
न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥ १५ ॥

ततः प्रणम्य विघ्नेशं योगमायासमन्वितः ।
सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमण्डलौ ॥ १६ ॥

जगाद गणराजश्च ततस्तं हर्षसंयुतः ।
मा गृह्णीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥ १७ ॥

मम सेवार्थमत्यन्तलालसा नित्यमाभजेत् ।
मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥ १८ ॥

ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः ।
जगाद तीर्थहीनोऽहं भविष्यमि गजानन ॥ १९ ॥

श्रीगजानन उवाच ।

योगमायाबलेनेमां मा कर्ष त्वं पितामह ।
कमण्डलुं तीर्थजलैरापूर्य स्थानगो भव ॥ २० ॥

श्रुत्वा ब्रह्मा तथा कृत्वा ययौ हर्षसमन्वितः ।
ब्रह्मकमण्डलुः साक्षान्नदी तत्र प्रतिष्ठिता ॥ २१ ॥

तया क्षेत्रं महेशानाः शुशुभेऽतीव विघ्नपम् ।
नद्याश्च महिमानं को वर्णयितुं क्षमो भवेत् ॥ २२ ॥

देवेशा ऊचुः ।
तुरीयं तीर्थमुख्यं यत् स्थितं ब्रह्मकमण्डलौ ।
कथं बभूव विप्रेश तद्वदस्व सुखप्रदम् ॥ २३ ॥

[[७१]]

भ्रूशुण्ड्युवाच ।
ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः ।
दृष्ट्वा कामं स्वयं तत्र विह्वलोऽभूत् पितामहः ॥ २४ ॥

दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः ।
तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥ २५ ॥

हाहाकाररवा देवी सस्मार गणनायकम् ।
ततः शान्तमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥ २६ ॥

मुक्त्वा तां गर्हयामास स्वात्मानं काममोहितम् ।
ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥ २७ ॥

मां प्रमोहयुतं कृत्वा क्रीडसि त्वं खलाऽधुना ।
काम शङ्करतो वह्नौ नष्टरूपो भविष्यसि ॥ २८ ॥

शप्त्वा कामं विधाताऽसौ ततः सस्मार देवपान् ।
मुनीन् श्रेष्ठांश्च ते सर्वे समाजग्मुः पितामहम् ॥ २९ ॥

श्रुत्वा वृत्तान्तमुग्रं ते शोकयुक्ताः बभूविरे ।
प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः ॥ ३० ॥

ततस्तीर्थानि सर्वे ते निर्ममुर्दैवतर्षयः ।
सार्धत्रिकोटिसञ्ज्ञानि स्वस्वतेजोयुतानि वै ॥ ३१ ॥

तेषु सम्मज्जितो ब्रह्मा पवित्रो न बभूव ह ।
तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महेतवे ॥ ३२ ॥

स वै प्रत्यक्षतां तत्र ययौ सर्वेच्छया परः ।
ब्रह्मा ममज्ज तत्रापि स्वयं शुद्धोऽभवन्न च ॥ ३३ ॥

ततः सूर्यः स्वदेहाद्वै यमुनां निर्ममे पराम् ।
तस्यां निमज्य धाताऽसौ पवित्रो न बभूव ह ॥ ३४ ॥

आदिमाया ततस्तत्र विनिर्ममे सरस्वतीम् ।
निमज्य तत्र वेधाः सोऽभवन्नैव यथा पुरा ॥ ३५ ॥

ततः शिवः स्वयं रेवां निर्ममे तीर्थरूपिणीम् ।
तथा निमज्य तस्यां स पवित्रो न बभूव ह ॥ ३६ ॥

ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च ।
गङ्गां तस्यां निमज्याऽसौ वेधाः शुद्धोऽभवन्न च ॥ ३७ ॥

ततः खेदसमायुक्तो देवेशा मुनिभिः सह ।
विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्टुवुः ॥ ३८ ॥

ततः प्रसन्नभावेन तुरीयं तत्र देवपाः ।
प्रकटं तेजसा युक्तं बभूव जलमञ्जसा ॥ ३९ ॥

प्रकाशमयतीर्थं तद् दृष्ट्वा देवर्षयोऽमराः ।
प्रणम्यापूज्य संहर्षादूचुः प्राञ्जलयोऽभवन् ॥ ४० ॥

सर्वतीर्थमिदं नाम भवतु त्रिजगत्सु ते ।
पवित्रं कुरु धातारं नमस्ते तीर्थतीर्थमु ॥ ४१ ॥

त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु ।
त्रिजगत्पावनान्येव भवन्ते शास्त्रसम्मते ॥ ४२ ॥

ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं द्रुतम् ।
न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् ॥ ४३ ॥

अतस्तुरीयतीर्थं चास्माभिः सम्प्रार्थितं परम् ।
त्रिगुणानां हितार्थाय पावनाय विशेषतः ॥ ४४ ॥

अतो हितं च सर्वेषां कुरु तीर्थात्मरूपकम् ।
एवमुक्त्वा प्रणेमुस्ते सर्वतीर्थं महेश्वराः ॥ ४५ ॥

ततः प्रसन्नतां यातं दर्शयामास रूपकम् ।
विधात्रे तेन निःपापो बभूव प्रपितामहः ॥ ४६ ॥

ततस्तीर्थं प्रणम्याऽसौ तुष्टाव सर्वसंयुतः ।
ततस्तं प्रत्युवाचेदं वचनं तीर्थमुत्तमम् ॥ ४७ ॥

सर्वतीर्थमुवाच ।
वरं वृणु महाभाग तुष्टं दास्यामि वाञ्छितम् ।
स्तोत्रेण सृष्टिकर्त?स्वं विधातर्मा विचारय ॥ ४८ ॥

ब्रह्मोवाच ।
वरं ददासि तीर्थ त्वं तदा मे संस्थितं भव ।
कमण्डलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥ ४९ ॥

[[७२]]

भ्रूशुण्ड्युवाच ।
तथेति तमथोक्त्वा तत्तीर्थं तस्य कमण्डलौ ।
जानीत वरदानेन संस्थितं देवनायकाः ॥ ५० ॥

तत्र स्थितं गणेशस्य ध्यानं चक्रे निरन्तरम् ।
सर्वतीर्थं हितार्थाय तस्य सेवार्थमादरात् ॥ ५१ ॥

उवाच विघ्नराजं सञ्चिन्त्य तीर्थं परं हृदि ।
दृश्यभावं समासाद्य न ते पादार्चनं कृतम् ॥ ५२ ॥

वरदानप्रभावेण ब्रह्मणः सदने प्रभो ।
स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥ ५३ ॥

पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रगम् ।
भविष्यामि तदर्थायाकरवं दृश्यभावकम् ॥ ५४ ॥

पराधीनतया स्वामिन् किं करोमि गणेश्वर ।
विघ्नहीनं कुरुष्व त्वं मां भक्तं भक्तवत्सल ॥ ५५ ॥

दृश्यभावं समासाद्य मयूरं नावलोकितम् ।
निरर्थकं जनुस्तस्यातस्त्वां सम्प्रार्थये प्रभो ॥ ५६ ॥

एवं नित्यं गणेशानं ध्यात्वा सम्प्रार्थयत् परम् ।
स्थापितं सर्वतीर्थं तद्गणेशानेन सन्निधौ ॥ ५७ ॥

देवेशा ऊचुः ।
तीर्थराजः प्रयागो यस्तत्र ब्रह्मा बभूव न ।
पवित्रश्च ततः श्रेष्ठं कथं तीर्थं भवेन् मुने ॥ ५८ ॥

कथं राजेति सञ्ज्ञा च तस्य शास्त्रे प्रकीर्तिता ।
एतत् संशयकं छिन्धि योगीन्द्रोऽसि पुरातनः ॥ ५९ ॥

भ्रूशुण्ड्युवाच ।
यथा देवसमूहानां राजेन्द्रः परिकीर्तितः ।
इन्द्रान्नैवापरः श्रेष्ठो देवो भवति कुत्रचित् ॥ ६० ॥

ब्रह्मादयो न देवाश्च गुणाधाराः प्रकीर्तिताः ।
पूज्यत्वाद्देवसञ्ज्ञास्था भवन्ते चैकदेशतः ॥ ६१ ॥

सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः ।
प्रयागान्न परं तीर्थं श्रेष्ठं कुत्राऽपि वर्तते ॥ ६२ ॥

गङ्गाद्याः सरितस्तद्वद् गुणाधाराः प्रकीर्तिताः ।
तीर्थसञ्ज्ञा तथा तासामेकलक्षणतो मता ॥ ६३ ॥

प्रार्थिते तीर्थराजेन तत्रैकभवकारणात् ।
गङ्गायमुनयोर्योगस्तेन सम्मिलितोऽभवत् ॥ ६४ ॥

गङ्गायमुनयोर्योगे स्नानजं यत् फलं लभेत् ।
तदेव महिमा तत्र तयोरेव न संशयः ॥ ६५ ॥

नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः ।
गुणरूपा न सा प्रोक्ता जानीत शास्त्रसम्मते ॥ ६६ ॥

अधुना शृणुत प्राज्ञा प्रकृतं यत् कथानकम् ।
कमण्डलुस्थितत्वात्तन्नाम्ना ब्रह्मकमण्डलुः ॥ ६७ ॥

गां गता तेन गङ्गा सा कमण्डलूद्भवा मता ।
पूर्वगा सा समाख्याता ब्रह्मादीनां सुदुर्लभा ॥ ६८ ॥

तस्या मूलस्थितः साक्षाद्ब्रह्मा लोकपितामहः ।
तस्यां स्नात्वा गणेशानं भजतेऽनन्यचेतसा ॥ ६९ ॥

पूर्वं पितामहं तत्र नरः स्नात्वा समर्चयेत् ।
विद्यायुक्तो भवेत् सद्योऽन्ते परां मुक्तिमाप्नुयात् ॥ ७० ॥

मध्ये शिवस्तथा तस्या मयूरे संस्थितस्ततः ।
मध्यमेश्वरनामा स भजते गणनायकम् ॥ ७१ ॥

मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेत् ।
स सामर्थ्यं परं प्राप्यापूज्येशं मुक्तिमाप्नुयात् ॥ ७२ ॥

अन्ते विष्णुः स्थितस्तस्या हृषीकेश इति श्रुतः ।
स्नात्वा नित्यं गणेशानं भजतेऽनन्यमानसः ॥ ७३ ॥

[[७३]]

तत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्चयेत् ।
यशः स विपुलं प्राप्याऽन्ते परं मोक्षमाप्नुयात् ॥ ७४ ॥

यस्यास्तीरे च तीर्थानि देवास्तिष्ठन्त्यनेकशः ।
उभयत्र महेशाना मया वक्तुं न शक्यते ॥ ७५ ॥

कमण्डलूद्भवायास्तु दर्शनेनाघनाशनम् ।
प्रभवेत् सर्वजन्तूनां निश्चितं चेहजन्मजम् ॥ ७६ ॥

सञ्चितं जलबिन्दोश्च स्पर्शेनैव विनश्यति ।
पापं ह्यनेकजन्मस्थं नराणां सर्वदेहिनाम् ॥ ७७ ॥

जलपानेन तस्यास्तु शक्रलोकं लभेत् स्वयम् ।
स्नानेन मुक्तिमाप्नोति यत्र तत्र महेश्वराः ॥ ७८ ॥

मयूरे ये नरास्तस्यां स्नानं कुर्वन्ति देवपाः ।
सकृच्चेदीप्सितं सद्यो लभन्ते ते समोक्षकम् ॥ ७९ ॥

एतादृशी महाभागा नदी तत्र व्यवस्थिता ।
दशयोजनविस्तारस्तस्याः प्रोक्तो मनीषिभिः ॥ ८० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥