॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
मयूरे तीर्थमुख्यं किं वद योगीन्द्रनायक ।
तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥ १ ॥
भ्रूशुण्ड्युवाच ।
क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः ।
गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥ २ ॥
यथा पञ्चविधं सर्वं भासते विविधार्थतः ।
चतुर्विधं जगत् संस्थं पञ्चमं ब्रह्म उच्यते ॥ ३ ॥
गङ्गा च यमुनादेवी सरस्वती महानदी ।
त्रिगुणरूपसंयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥ ४ ॥
तुरीया सर्वतीर्थाख्या ब्रह्मकमण्डलूद्भवा ।
तासां संयोगभावे तु पञ्चमं ब्रह्म उच्यते ॥ ५ ॥
तदेव तीर्थरूपेण प्रकटं सम्बभूव ह ।
गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥ ६ ॥
भूस्वानन्दमयं क्षेत्रं गणेशेन प्रकाशितम् ।
मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥ ७ ॥
ततोऽङ्कुशेन पृथ्वीं स भेदयामास मायया ।
तीर्थं ब्रह्ममयं तत्र सेवार्थं तु समाययौ ॥ ८ ॥
ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः ।
अक्षयं जलसंयुक्तं कुण्डं तत्र बभूव ह ॥ ९ ॥
नाम तस्य चकाराऽसौ गणेशकुण्डमादरात् ।
तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥ १० ॥
जलस्पर्शादिसम्भूतं पुण्यं वक्तुं न शक्यते ।
साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥ ११ ॥
स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमण्डलूद्भवा ।
तुरीया सर्वतीर्थानां ज्ञातव्यं शास्त्रसम्मतम् ॥ १२ ॥
भागीरथी तृतीया च स्नानेन स्वर्गदायिनी ।
स्वर्णदी सा समाख्याता विशेषेण महेश्वराः ॥ १३ ॥
ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी ।
त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥ १४ ॥
यमुना च ततः ख्याता स्थूलरूपा महानदी ।
सप्तभिर्दिवसैः साक्षाज्जन्तूनां स्वर्गदा मता ॥ १५ ॥
[[६८]]
अन्या नानाविधास्ताभ्यः कथनं नैव शक्यते ।
अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं पञ्चसम्भवम् ॥ १६ ॥
अत्रेतिहासकं वक्ष्ये शृणुध्वं ह्येकचेतसः ।
गुर्जरे पापकर्मा तु राजा भद्रोऽभवत् पुरा ॥ १७ ॥
स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः ।
यथेच्छं वर्तयामास नानापापपरायणः ॥ १८ ॥
एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः ।
एकान्ते बुभुजे तां स हाहाकाररवाकुलाम् ॥ १९ ॥
इत्यादिविविधान्येव चकार देवसत्तमाः ।
पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्तते ॥ २० ॥
मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम् ।
बद्ध्वा सन्ताड्य तत्रैकं चित्रं पूर्णं बभूव ह ॥ २१ ॥
गच्छता तेन सन्दृष्टं विमानं सूर्यसन्निभम् ।
गणेशकुण्डतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥ २२ ॥
तस्याङ्गवायुना स्पृष्टो भद्रः पापपरः परः ।
पापहीनो बभूवाऽपि जगाम यममन्दिरम् ॥ २३ ॥
यमेन नरयोन्यां स सङ्क्षिप्तो वैश्ययोनिजः ।
बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥ २४ ॥
स्वर्गात् पतनकाले स सस्मार कुण्डमुत्तमम् ।
तेन संस्कारयोगेन मयूरेशं समाययौ ॥ २५ ॥
दृष्ट्वा गणेशकुण्डं स जातिस्मरो बभूव ह ।
ततः क्षेत्रं समाश्रित्य कुण्डपूजापरोऽभवत् ॥ २६ ॥
ममार कुण्डसान्निध्ये ब्रह्मभूतो बभूव ह ।
एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥ २७ ॥
देवेशा ऊचुः ।
गणेशकुण्डद्रष्टा स कथं जातो महामते ।
किं जातिर्यो वद स्वामिन्नाश्चर्यं भासते परम् ॥ २८ ॥
भ्रूशुण्ड्युवाच ।
चाण्डालः कोऽपि पापात्मा नित्यं पापपरोऽभवत् ।
कञ्चिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥ २९ ॥
स आगतो मयूरेशं कथयामास मानवान् ।
जघान द्रव्यलोभी च चाण्डालो मानवान् सदा ॥ ३० ॥
समाययौ मे सान्निध्यमधुनाऽत्र विशेषतः ।
मारणाय न सन्देहस्तच्छ्रुत्वा स पपाल ह ॥ ३१ ॥
लोका यात्रारताः सर्वे नैव मत्ताडने रताः ।
पलता तेन कुण्डं तु दृष्टं गाणेश्वरं महत् ॥ ३२ ॥
क्षेत्रं त्यक्त्वा गतं दूरे ममार विषयप्रियम् ।
भोगबुद्धियुतं दुष्टं निन्युरिन्द्रपुरेऽमराः ॥ ३३ ॥
गणेशकुण्डजेनैव दर्शनेन न संशयः ।
पापानि विलयं यान्ति भुक्तिर्मुक्तिस्ततो भवेत् ॥ ३४ ॥
अन्यच्छृणुत देवेशाश्चरितं कुण्डसम्भवम् ।
वैश्यः कश्चित् समायातो द्रव्यलोभी मयूरके ॥ ३५ ॥
प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरञ्जसा ।
स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥ ३६ ॥
तत्र यात्रापरा लोका अवदंस्ते परस्परम् ।
गणेशकुण्डमाहात्म्यं सोऽपि शुश्राव मन्दधीः ॥ ३७ ॥
विचारमकरोच्चित्ते दर्शनेनात्र लभ्यते ।
भुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥ ३८ ॥
अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः ।
तदा दर्शनमेवं मे कुण्डस्यात्र भविष्यति ॥ ३९ ॥
इति विचार्य खाद्यानि गृह्य कुण्डगतोऽभवत् ।
दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो ॥ ४० ॥
[[६९]]
पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् ।
तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥ ४१ ॥
ततो विमानमारुह्य शुक्लगत्या महेश्वराः ।
मोक्षं जगाम वैश्यः स गणेशकुण्डदर्शनात् ॥ ४२ ॥
अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् ।
शूद्रौ मेघमणीसञ्ज्ञौ मालवे सम्बभूवतुः ॥ ४३ ॥
सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ ।
स काश्यां प्रेमसंयुक्तो यात्रार्थं प्रजगाम ह ॥ ४४ ॥
तेन नीतौ स्वसेवार्थं सपुत्रौ शूद्रयोनिजौ ।
मेघो मार्गे ममारैव तस्य पुत्रो ददाह तम् ॥ ४५ ॥
तत्राऽऽवन्त्यो द्विजः कोऽपि चकारास्थिप्रसञ्चयम् ।
मणिः पप्रच्छ तं विप्रं कुत्रास्थि त्वं प्रणेष्यसि ॥ ४६ ॥
स उवाच गणेशस्य क्षेत्रे कुण्डं महाद्भुतम् ।
तत्रास्थित्यागमात्रेण पञ्चमं लभते पदम् ॥ ४७ ॥
अतो मेऽस्थि पितुस्तत्र शूद्र नेष्यामि निश्चितम् ।
तच्छ्रुत्वा सोऽपि शूद्रस्यास्थिसञ्चयं चकार ह ॥ ४८ ॥
काश्यां दुःखयुतो त्यक्त्वा ममार मणिरेव च ।
तस्यास्थिसञ्चयं चक्रे तस्य पुत्रो महेश्वराः ॥ ४९ ॥
तज्ज्ञात्वा क्षत्रियस्तं स निर्भर्त्स्य बहुधा जगौ ।
काशीं त्यक्त्वा मयूरे किमस्थित्यागं करिष्यसि ॥ ५० ॥
उवाच पितुराज्ञा स मया मान्या निरन्तरम् ।
एतस्मिन्नन्तरे तत्र ब्राह्मणः शास्त्रवित् ययौ ॥ ५१ ॥
तं प्रणम्य विशेषेण पप्रच्छ क्षत्रियोद्भवः ।
दुराग्रहं स्वशूद्रस्य दृष्ट्वा सर्वं विधानतः ॥ ५२ ॥
ज्ञात्वा वृत्तान्तमेतस्य तमुवाच जनार्दनः ।
ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजं वचः ॥ ५३ ॥
जनार्दन उवाच ।
चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय ।
पञ्चमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ॥ ५४ ॥
ब्रह्मणस्पतिनामाऽसौ गणेशो वेदवादतः ।
तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ ॥ ५५ ॥
काश्यां ये शास्त्रवादज्ञास्तेऽस्थि तत्र नयन्ति तु ।
अन्यक्षेत्रस्य गास्तद्वन्नयन्त्यस्थि मयूरके ॥ ५६ ॥
ततः संशयहीनः स सम्पूज्य प्रणनाम ह ।
जनार्दनं स्वगेहं स आययौ हर्षसंयुतः ॥ ५७ ॥
कृत्वा क्षत्रियजो यात्रां स्वगृहं प्रत्यपद्यत ।
शूद्रावस्थि समागृह्य मयूरेशं प्रजग्मतुः ॥ ५८ ॥
गणेशकुण्डं सम्पूज्य त्यक्त्वा तावस्थिसञ्चयम् ।
यथाशास्त्रं विधानेन यात्रां चक्रतुरादरात् ॥ ५९ ॥
स्वगृहं जग्मतुः शूद्रौ देवेशाः शृणुताऽपरम् ।
अस्थित्यागप्रभावेण मेघं नेतुं ययुर्गणाः ॥ ६० ॥
शङ्करलोकसंस्थं तं गृह्य स्वानन्दमाययुः ।
मणिं कैलासगं ते तु ब्रह्मभूतौ प्रचक्रिरे ॥ ६१ ॥
एवं नाना जनास्तत्र सिद्धिं प्राप्ता विशेषतः ।
तत्र किं कथयामीह वक्तुं केन प्रशक्यते ॥ ६२ ॥
एतद्गणेशकुण्डस्य माहात्म्यं शृणुयान्नरः ।
श्रावयेत् स लेभेद्देवा ईप्सितं फलमुत्तमम् ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॥
[[७०]]