२२ क्षेत्रसन्न्यासादिवर्णनम्

॥ श्रीगणेशाय नमः ॥

भ्रूशुण्ड्युवाच ।
अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् ।
पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम् ॥ १ ॥

कुत्र आङ्गिरसे जातो देवप्रिय इति श्रुतः ।
पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥ २ ॥

गणेशे प्रीतिसंयुक्तो गाणपत्यप्रियोऽभवत् ।
मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥ ३ ॥

ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव ह ।
तया सम्प्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥ ४ ॥

शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः ।
क्षेत्राणि तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥ ५ ॥

ततः स्वगृहमागत्य दारापत्यैः समन्वितः ।
गणेशमभजन्नित्यं भक्तियुक्तेन चेतसा ॥ ६ ॥

ततश्च मानसे सोऽपि विचारमकरोत् परम् ।
अहो मयूरपक्षेत्रं सेवनीयं निरन्तरम् ॥ ७ ॥

ज्ञात्वा द्विजं समुद्युक्तं दारापत्यैः समन्वितम् ।
माया तं पीडयामास मयूरे वासभञ्जनात् ॥ ८ ॥

यात्रार्थं तेन यत्किञ्चित् गृहे द्रव्यादि सञ्चितम् ।
तदेव चौरमार्गेण नष्टं मायाप्रभावतः ॥ ९ ॥

[[६२]]

ततोऽतिविस्मितो भूत्वा खेदयुक्तो बभूव ह ।
पापयुक्तोऽहमत्यन्तं तेन विघ्नयुतः कृतः ॥ १० ॥

शुक्लवृत्त्या गमिष्यामि मयूरेशं न संशयः ।
ततो ज्वरसमायुक्तो बभूव ब्राह्मणोत्तमः ॥ ११ ॥

निर्जगाम ततः सोऽपि स्वगृहे ज्वरसंयुतः ।
शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना ॥ १२ ॥

तृतीये दिवसे तत्र विघ्नेशो विघ्नहारकः ।
बभूव स द्विजस्याऽपि परं शृणुत चेष्टितम् ॥ १३ ॥

गणेशकृपया विप्रो ज्वरहीनो बभूव ह ।
ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ ॥ १४ ॥

तस्य पुत्रं समाहूय द्रव्यं दत्वा सुपुष्कलम् ।
अन्तर्धानं चकाराऽसौ पुत्रस्तातं जगाद तु ॥ १५ ॥

ज्ञात्वा देवं विचार्यैव स्वस्थचित्तो बभूव ह ।
देवप्रियो मयूरेशमाजगाम द्विजोत्तमः ॥ १६ ॥

यात्रादिकं चकाराऽसौ गर्भागारे समाश्रितः ।
अभजद्गणराजं तमन्ते तल्लीनतां ययौ ॥ १७ ॥

यानि क्षेत्राणि तीर्थानि ब्रह्माण्डे सेवितानि चेत् ।
तदा नरेण मायूरक्षेत्रं लभ्यं महेश्वराः ॥ १८ ॥

देवेशा ऊचुः ।
चोरादयः समाख्यातास्त्वया ब्रह्मर्षिसत्तम ।
किं चक्रुर्येन पुण्येन मयूरेशे लयं ययुः ॥ १९ ॥

भ्रूशुण्ड्युवाच ।
पूर्वजन्मनि माहात्म्यं संश्रुतं किञ्चिदप्यहो ।
क्षेत्रस्य पापकर्मस्था अन्ते तत् सस्मरुर्यदि ॥ २० ॥

अन्ते स्मरणयोगेन पापिनोऽन्यभवे कदा ।
ययुः क्षेत्रे मरणतो लयं देवा गणेश्वरे ॥ २१ ॥

गाणेशस्य च मार्गस्य श्रवणं पापचेतसाम् ।
भवेन्नानाविधस्याऽपि किञ्चिद्देवेन्द्रसत्तमाः ॥ २२ ॥

यदि मरणकाले तु तस्य संस्मरणं भवेत् ।
पुरो जन्मनि चाज्ञानात्तस्य संसेवनं भवेत् ॥ २३ ॥

अथवा ज्ञानयुक्तः स नरस्तत् सकृदाचरेत् ।
यद्वा तद्वाऽऽचरेद्वापि ब्रह्मभूतः स जायते ॥ २४ ॥

अथासंस्कारयुक्तस्य गाणेशेनाधिकारतः ।
प्रवेशो न भवेत्तस्य चरित्रं शृणुत प्रियाः ॥ २५ ॥

क्षत्रियः सुलभो नामा बभूव पृथिवीपतिः ।
अङ्गदेशस्य राज्यं स चकार धर्मसंयुतः ॥ २६ ॥

मयूरेशस्य स श्रुत्वा माहात्म्यं क्षेत्रसम्भवम् ।
पुत्रे राज्यं परित्यज्य वासार्थं तु मनो दधे ॥ २७ ॥

यथाशास्त्रं विधानेन मयूरेशं समाययौ ।
चकार विधिना यात्रां स्वयं द्वारादिचिह्निताम् ॥ २८ ॥

ततस्तत्र स्थितो राजा वार्षिकीं विविधां पुनः ।
चकार यात्रां क्षत्रस्थो देवादीनां विधानतः ॥ २९ ॥

ततो मनसि सन्धार्य क्षेत्रसन्न्यासकारणात् ।
सर्वानाज्ञापयामास सस्त्रीकः स उवास ह ॥ ३० ॥

ततः स भैरवेणैव बुद्धिभेदयुतः कृतः ।
विचारमकरोच्चित्ते किमिदं क्षेत्रमुत्तमम् ॥ ३१ ॥

न काशीतुल्यतां याति क्षेत्रं ब्रह्माण्डमण्डले ।
अयं शिवसुतः प्रोक्तो मयूरेशो न संशयः ॥ ३२ ॥

ब्रह्म सर्वत्र योगेन तिष्ठति तेन वर्ण्यते ।
वेदादिषु गणेशानो ब्रह्मरूपी न मुख्यतः ॥ ३३ ॥

अतोऽहं भ्रमितो नूनं वाण्या पुराणसंस्थया ।
गमिष्यामि न सन्देहः क्षेत्रं काशीसमाश्रितम् ॥ ३४ ॥

[[६३]]

एवं विचार्य भूपालो मयूरं त्यज्य देवपाः ।
काशीं जगाम मार्गे स ममार रोगसंयुतः ॥ ३५ ॥

पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् ।
धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥ ३६ ॥

मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् ।
गणेशैकाक्षरं मन्त्रं ददौ तारकनामकम् ॥ ३७ ॥

शौनक उवाच ।

कथां विचित्रां वदसि सूत त्वं हर्षदायिनीम् ।
तत्र संशयकं छिन्धि वदिष्यामि त्वदग्रतः ॥ ३८ ॥

रामनामभवं मन्त्रमवदत्तारकं परम् ।
पुराणं कुत्रचित् देवं शिवपञ्चाक्षरं पुनः ॥ ३९ ॥

कुत्रौङ्कारं च कुत्रापि शक्तिसूर्यात्मकं परम् ।
गणेशैकाक्षरं कुत्र निश्चयो नैव जायते ॥ ४० ॥

अतः संशयनाशार्थं वद सर्वज्ञसत्तम ।
त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥ ४१ ॥

सूत उवाच ।

बिम्बरूपं महद्ब्रह्म स एव चतुराननः ।
गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥ ४२ ॥

तस्य पालकभावेन विष्णुः सर्वप्रवर्तकः ।
अकाराक्षरसंस्थश्च मन्त्रराजे महामुने ॥ ४३ ॥

तयोः संहारकर्ता त्वनुस्वारः शङ्करः स्मृतः ।
वरदानाद् गणेशस्य मन्त्रे जानीहि निश्चितम् ॥ ४४ ॥

तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ ।
सानुनासिकरूपेण मन्त्रे सोऽपि प्रतिष्ठितः ॥ ४५ ॥

चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता ।
सर्वत्र संस्थिता विप्र मन्त्रे दृश्यस्वभावतः ॥ ४६ ॥

एभिः सृष्टं जगत्सर्वमोङ्काराकृतिलक्षणम् ।
तत्र क्रीडन्ति तेनैव मन्त्र ओङ्कारसंयुतः ॥ ४७ ॥

एतेषामर्थभावेन गणेशश्च प्रकीर्तितः ।
स एव देवता प्रोक्ता वेदेषु वेदवादिभिः ॥ ४८ ॥

गणेशमन्त्रगाः सर्वे देवेशाः शङ्करादयः ।
जगन्नानाविधं ब्रह्म तथा तत्र स्थितं मतम् ॥ ४९ ॥

यथा देवाश्च विप्रेश कलया गणपस्य वै ।
गणेशाकाररूपास्ते तथा मन्त्राः प्रकीर्तिताः ॥ ५० ॥

अन्यच्च शृणु भावेन काश्यां नानाविधा जनाः ।
तिष्ठन्ति विविधान् देवान् भजन्ते भक्तिसंयुताः ॥ ५१ ॥

तेषु स्वधर्मनिष्ठा ये काशीवासं यथाविधि ।
कुर्वन्ति तारकं तेभ्यो ददाति शङ्करः स्वयम् ॥ ५२ ॥

तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् ।
तारकं कथयामास शङ्करः करुणानिधिः ॥ ५३ ॥

सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् ।
वैष्णवं विष्णुभक्तेभ्यस्तारकं ह्यवदच्छिवः ॥ ५४ ॥

स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः ।
कर्माङ्गदेवप्रीत्यर्थमोङ्कारं तेभ्य आदिशत् ॥ ५५ ॥

गाणेशा ये स्थितास्तेभ्यः पूर्णतारकरूपकम् ।
गणेशैकाक्षरं मन्त्रं ददाति हर्षसंयुतः ॥ ५६ ॥

ते सर्वे तारकं प्राप्य कैलासे शिवसन्निभाः ।
अतिष्ठन् योगमास्थाय मन्त्रध्यानपरायणाः ॥ ५७ ॥

साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मन्त्रगं परम् ।
तत्र तल्लीनभावेन योगिनो बभ्रमुस्ततः ॥ ५८ ॥

महालये महेशस्य शरीरे लीनतां ययुः ।
पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥ ५९ ॥

[[६४]]

मन्त्रं मन्त्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः ।
स्वस्वेष्टब्रह्मगा अन्ते भवंस्ते मुनिसत्तम ॥ ६० ॥

ये पापकारिणः काश्यां वसन्ति यदि ते मृताः ।
तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥ ६१ ॥

भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः ।
लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥ ६२ ॥

शौनक उवाच ।

वदन्ति वै पुराणेषु मुनयो ब्रह्मवादिनः ।
क्षेत्रेषु नानाभावेषु मृता मुक्तिमवाप्नुयुः ॥ ६३ ॥

तीर्थानि स्नानमात्रेण मुक्तिदानि वदन्ति च ।
व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥ ६४ ॥

सकामानि च कर्माणि कथितानि मुनीश्वरैः ।
नानाविधानि वै तेषु संस्मृतानि फलानि च ॥ ६५ ॥

तेषां कर्तार एवं ये फलानि प्राप्नुवन्ति ते ।
इहैव किञ्चित् केचित्तु परत्र द्विजसत्तम ॥ ६६ ॥

केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः ।
किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥ ६७ ॥

काश्यां मुक्तिं विशेषेण प्राप्नुवन्ति नरादयः ।
तत्रैव मरणे सूत कथं ते जन्मिनोऽभवन् ॥ ६८ ॥

सूत उवाच ।

शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः ।
सर्वेषां विविधानां तु शिष्याणां नात्र संशयः ॥ ६९ ॥

शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा ।
अधमा अधमेषु चाधमा मुनीन्द्रसत्तम ॥ ७० ॥

विषयासक्तचित्ता ये पापकर्मपरायणाः ।
दुःखयुक्ता यदाऽत्यन्तं तदर्थं कर्मसेविनः ॥ ७१ ॥

अधमाधमरूपाश्च कथितास्ते महर्षिभिः ।
स्वल्पं फलं प्राप्नुवन्तीह परत्र सुनिश्चितम् ॥ ७२ ॥

यदि कर्मफलं स्वल्पं ददाति कथितं सदा ।
तेषां तत्र रुचिर्नैवोत्पद्यते मूर्खभावतः ॥ ७३ ॥

तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि ।
फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥ ७४ ॥

परेषां लज्जया ये तु भयाद्वा कर्म कारिणः ।
अधमास्ते समाख्याताः प्राप्नुवन्त्यधिकं फलम् ॥ ७५ ॥

सकामा ये स्वधर्मस्थाः कर्म कुर्वन्ति नित्यशः ।
मध्यमास्ते फलं सर्वं भुञ्जन्ति कालमानतः ॥ ७६ ॥

निःकामाः कर्मकर्तार उत्तमास्ते फलं मुने ।
अक्षयं कल्पपर्यन्तं भुञ्जन्त्यत्र न संशयः ॥ ७७ ॥

तत्रैव युगमानं ते कथयामि समासतः ।
कृते कर्म कृतं सद्यः फलदं जायते मुने ॥ ७८ ॥

त्रेतायां च कृतं कर्मान्यकर्माबाधभावतः ।
कालेन फलसंयुक्तं भवति प्राणिनां किल ॥ ७९ ॥

द्वापरे परलोके वाऽन्यकर्माबाधभावतः ।
इह ते वापि भुञ्जन्ति धर्महीनप्रभावतः ॥ ८० ॥

कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः ।
सम्भोक्ष्यन्ति कृतं कर्म कालमानप्रभावतः ॥ ८१ ॥

आसुरेणैव भावेन नराः सत्तादिवर्जिताः ।
अतो जानीहि रुच्यर्थं फलं चित्रं भवत्यहो ॥ ८२ ॥

यथाविधि कृतं कर्म तदा फलप्रदं भवेत् ।
अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥ ८३ ॥

कृते कर्म कृतं येन सकृत्तस्य फलं लभेत् ।
त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥ ८४ ॥

फलं ददाति त्रिगुणं द्वापरे कर्म निश्चितम् ।
कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥ ८५ ॥

[[६५]]

सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः ।
अथवा युगधर्मेण चतुर्गुणं फलं लभेत् ॥ ८६ ॥

अन्यत् काश्यादि माहात्म्यसम्भवं विपरीतगम् ।
मन्यसे तत्र वक्ष्यामि शृणु संशयनाशनम् ॥ ८७ ॥

आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै ।
इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥ ८८ ॥

यथा देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः ।
ब्रह्मणो दिवसान्ते ते मृत्युयुक्ता भवन्त्युत ॥ ८९ ॥

नराणां तत्र जन्मानि सङ्ख्याहीनानि शौनक ।
भवन्ति तेन देवाश्चामराः सङ्कीर्तिता बुधैः ॥ ९० ॥

तथापि पञ्च देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः ।
विघ्नयुक्ता अनीशास्ते भवन्ति पश्य मानद ॥ ९१ ॥

महालये मरिष्यन्ति त्रिगुणैः संयुताः किल ।
पञ्च देवा न सन्देहो ब्रह्माद्याः शास्त्रमार्गतः ॥ ९२ ॥

तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी ।
मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥ ९३ ॥

इन्द्रादीनां विनाशे ते समर्था मृत्युहीनकाः ।
तेषां जन्ममृती जन्तुर्न पश्यति कदाचन ॥ ९४ ॥

ईश्वरत्वमतः शास्त्रे कथितं रुचिकारणात् ।
जन्ममृत्युविहीनाऽपि मुक्तिः सङ्कथिता बुधैः ॥ ९५ ॥

वेदशास्त्रपुराणेषु स्वानन्दो लयवर्जितः ।
सदा ब्रह्ममयत्वाद्वै तत्र मुक्तिर्विशिष्यते ॥ ९६ ॥

स्वानन्देनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् ।
पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥ ९७ ॥

अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसम्मतैः ।
वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥ ९८ ॥

मृतः षट्सु नरस्तासु काश्यां धर्मयुतो भवेत् ।
मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥ ९९ ॥

पुनर्जन्मनि योगी स भवत्यत्र न संशयः ।
स्वेष्ठं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥ १०० ॥

योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः ।
मरणे संस्मरेद्योगं स मयूरे भविष्यति ॥ १०१ ॥

यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् ।
मरिष्यति न सन्देहो महापापयुतोऽपि चेत् ॥ १०२ ॥

अथवा क्षेत्रमाहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् ।
यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥ १०३ ॥

मयूरस्याथ वा यात्रामेव कृत्वा नरोत्तमः ।
यत्र कुत्र मृतः सोऽन्ते संस्मरेत् स तथा भवेत् ॥ १०४ ॥

अथवा सङ्गयोगेन गणेशे रुचिमालभेत् ।
नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परम् ॥ १०५ ॥

शिवविष्ण्वादिलोकेषु संस्थितस्तत्र सङ्गतः ।
गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥ १०६ ॥

अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः ।
क्षेत्रसन्न्यासभावेन मरणं तत्र चालभेत् ॥ १०७ ॥

योगिनः शान्तिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे ।
लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥ १०८ ॥

योगिनां मरणे विप्र यादृशं स्मरणं भवेत् ।
तादृशीं न गतिं सोऽपि लभते ब्रह्मणि रतः ॥ १०९ ॥

तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते ।
अन्ते मतिर्यथा विप्र गतिः सर्वत्र पठ्यते ॥ ११० ॥

इदं सर्वं समाख्यातं शृणु प्रकृतमुत्तमम् ।
कथानकं महीपस्य यथा मुद्गलभाषितम् ॥ १११ ॥

भ्रूशुण्ड्युवाच ।
मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः ।
काश्यां तस्य मृतौ क्षेत्रं मयूरं स्मृतिगं बभौ ॥ ११२ ॥

तेन गणेश्वरस्यैव ददौ मन्त्रं महेश्वरः ।
सस्त्रीकः शिवरूपः कैलासे वासं चकार सः ॥ ११३ ॥

महालये शिवे लीनः पुनः सृष्टौ मयूरके ।
ब्राह्मणः स बभूवाऽपि सस्त्रीको भक्तिसंयुतः ॥ ११४ ॥

तत्र स्वल्पेन कालेन योगयुक्तो बभूव ह ।
ब्रह्मभूतः स जीवन् वै मरणे तत्र का कथा ॥ ११५ ॥

एवं संस्कारयोगेन मयूरे निवसन्ति ते ।
यत्र कुत्र स्थिताश्चेद्वै गमिष्यन्ति मयूरकम् ॥ ११६ ॥

क्षेत्रसन्न्यासिनां देवा वदामि मार्गमुत्तमम् ।
आदौ द्वारयुतां यात्रां कुर्यात् सन्न्यासकारणात् ॥ ११७ ॥

पश्चात् क्षेत्रं समाश्रित्य तिष्ठेन्नियमसंयुतः ।
न गच्छेत् क्षेत्रबाह्यं सन्न्यासभङ्गभयाकुलः ॥ ११८ ॥

नानादुःखयुतश्चेत् त्यागं मयूरस्य वै न सः ।
कुर्यात्तेन गणेशेन तुल्यः सर्वत्र सम्मतः ॥ ११९ ॥

देवागारस्य यात्रां स कुर्याद् द्वारसमन्विताम् ।
अन्त्यां नैव समाख्यातां क्षेत्रबाह्यप्रवेशनात् ॥ १२० ॥

क्षेत्रसीमास्थदेवाद्यास्तेषां कुर्यान्निरन्तरम् ।
यात्रां यात्राविचारज्ञः स योगी योगिनां गुरुः ॥ १२१ ॥

अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् ।
क्षेत्रसन्न्यासिना युक्तं क्षेत्रं नैव भवेत् कदा ॥ १२२ ॥

जामदग्न्यो द्विजः कश्चित् सोमदत्त इति श्रुतः ।
बाल्यात् प्रारभ्य विघ्नेशभक्तियुक्तो बभूव ह ॥ १२३ ॥

स्वाश्रमात् सोऽपि सस्त्रीको मयूरेशं समाययौ ।
यात्रां कृत्वा विधानेन स्थितो द्वारादिचिह्निताम् ॥ १२४ ॥

ततः क्षेत्रे स वासार्थं मनो दध्रे महामतिः ।
क्षेत्रसन्न्यासकं कृत्वा मयूरे संस्थितः पुरा ॥ १२५ ॥

तत्र रक्षोबलं प्राप्तं खरस्य दारुणं महत् ।
राक्षसं पपलुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः ॥ १२६ ॥

दृढाऽऽग्रहं सोऽपि कृत्वा सोमदत्तो महामुनिः ।
मयूरे संस्थितो देवा मयूरेशपरायणः ॥ १२७ ॥

राक्षसास्तं महाभागं धृत्वा क्रोधसमन्विताः ।
ताडयामासुरत्यन्तं कर्मखण्डनकारणात् ॥ १२८ ॥

मुमोचाऽसौ तदापि न स्वधर्मं सोमदत्तकः ।
मद्यमांसादिकं गृह्य छलितो राक्षसैर्बहु ॥ १२९ ॥

तथापि धैर्यमालम्ब्य स्मृत्वा विघ्नेश्वरं द्विजः ।
मयूरेशं समभ्यर्च्य संस्थितो भयसङ्कुलः ॥ १३० ॥

ततस्तं राक्षसा बद्ध्वा खरं निन्युर्महोल्बणम् ।
तेन कारागृहे क्षिप्तो मयूरेशपरायणः ॥ १३१ ॥

उपोषणपरः पूजां मानसीं स चकार ह ।
अतिशोकसमायुक्तो हृदि ध्यात्वा गजाननम् ॥ १३२ ॥

ततो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणात् ।
चकार राक्षसेशं स सविघ्नं विघ्नदायकः ॥ १३३ ॥

समायाता शूर्पनखा तं जगाद खरं वचः ।
छिन्ननासिकरूपं स्ववृत्तान्तं तु न्यवेदयत् ॥ १३४ ॥

तच्छ्रुत्वा क्रोधसंयुक्तः खरो रामं जगाम ह ।
रामेण राक्षसैः सार्द्धं हतो मृत्युमवाप ह ॥ १३५ ॥

ततः क्षेत्रनिवासस्था आययुस्ते महेश्वराः ।
बन्धाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥ १३६ ॥

[[६७]]

एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः ।
तथापि क्षेत्रसन्त्यागं न चकार कदाचन ॥ १३७ ॥

ततो गणेश्वरो देवो ययौ भक्त्या नियन्त्रितः ।
स्तुतः सम्पूजितस्तेन तमीप्सितवरं ददौ ॥ १३८ ॥

स ययाचे गणेशानं तव सान्निध्यगं कुरु ।
तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥ १३९ ॥

तथेति तं चकारासौ मयूरेशो महामुनिम् ।
स बभूव महेशाना योगप्रिय इति श्रुतः ॥ १४० ॥

एवं नानाविधास्तत्र क्षेत्रसन्न्यासमाश्रिताः ।
सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥ १४१ ॥

इति सर्वं समाख्यातं सङ्क्षेपेण मया परम् ।
श्रवणात् पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥ १४२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते क्षेत्रसन्न्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥