॥ श्रीगणेशाय नमः ॥
?भ्रूशुण्ड्युवाच ।
विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना ।
यथा दण्डः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥ १ ॥
मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत् ।
गत्वा वनान्तरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥ २ ॥
कुटुम्बपोषणे सक्तः शिश्नोदरपरायणः ।
चकार विविधं पापं क्षेत्रे मायूरसञ्ज्ञिते ॥ ३ ॥
परस्त्रियं बलाद् गृह्यायभत्तां निरपत्रपः ।
जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥ ४ ॥
भगिनीमेकलां दृष्ट्वा कदा मद्येन विह्वलः ।
हठात् गृह्य महेशाना बुभुजे कामनायुतः ॥ ५ ॥
चौरादीनि चकारापि ब्रह्महत्यां तथा खलः ।
गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥ ६ ॥
गणेशं न पुपूजासौ कदाचिदमरान् परान् ।
यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥ ७ ॥
भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम् ।
निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥ ८ ॥
क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम् ।
हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥ ९ ॥
सावधानं ततः कृत्वा मायया नग्नभैरवः ।
मृतिमूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥ १० ॥
ततस्तं गृह्य दूतास्ते भैरवस्य महात्मनः ।
अग्निकुण्डेषु सङ्क्षिप्य दाहयामासुरञ्जसा ॥ ११ ॥
सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः ।
अग्निचक्रे समाक्षिप्य भ्रामयामासुरञ्जसा ॥ १२ ॥
हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः ।
न ममार न मूर्च्छां सोऽलभद्भैरवमायया ॥ १३ ॥
ततः सहस्रवर्षान्ते हैमकुण्डे समाक्षिपन् ।
भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥ १४ ॥
ततः सहस्रवर्षान्ते शिलायां स्थाप्य मुद्गरैः ।
चूर्णयामासुरुग्रैस्तं खलं कण्टकसंयुतैः ॥ १५ ॥
एवं गतानि वर्षाणि सहस्रं देवसत्तमाः ।
ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥ १६ ॥
रुरुर्जन्तुभिरादष्टो रौरवेऽभून्नराधमः ।
स सहस्रं वर्षकाणि महोग्रैर्वह्निसन्निभैः ॥ १७ ॥
ततस्तैलकटाहेषु सन्तप्तेषु च तं भटाः ।
चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥ १८ ॥
ततः सहस्त्रवर्षान्ते तप्तवालुभिरेव तम् ।
आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥ १९ ॥
सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम् ।
ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥ २० ॥
क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः ।
बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥ २१ ॥
तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम् ।
तदा दण्डादिभिः सर्वे ताडयामासुरोजसा ॥ २२ ॥
वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा ।
पपाल दुःखसंयुक्तो मन्त्रशस्त्रभयात् कदा ॥ २३ ॥
त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम् ।
भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥ २४ ॥
शुद्धस्तेन समानीतो गणेशस्यैव मन्दिरे ।
गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ २५ ॥
एवं पापप्रचारान् सन्दण्ड्य ब्रह्ममयं पुनः ।
चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते न वै ॥ २६ ॥
[[५९]]
अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् ।
कथयामि समासेन शृणुध्वं शिवमुख्यकाः ॥ २७ ॥
ब्राह्मणः काश्यपः कश्चित् मयूरे संस्थितोऽभवत् ।
चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥ २८ ॥
परस्त्रीलम्पटः सोऽपि शिश्नोदरपरोऽभवत् ।
ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥ २९ ॥
ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् ।
बद्ध्वा क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥ ३० ॥
ततो द्विजो विलप्यैव कृत्वा शपथमागतः ।
मयूरं तत्र लोकैः स द्वारयात्रा परोऽभवत् ॥ ३१ ॥
द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः ।
ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥ ३२ ॥
चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः ।
पञ्चम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥ ३३ ॥
मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् ।
सङ्गृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥ ३४ ॥
यातनागारकं देवो दर्शयामास भीतिदम् ।
तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः ॥ ३५ ॥
दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह ।
क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥ ३६ ॥
अन्यच्च शृणुत प्राज्ञा मयूरे चरितं भवम् ।
पुरा कल्पे समासेन कथयामि महेश्वराः ॥ ३७ ॥
दण्डकारण्यदेशे तु ब्राह्मणोऽत्रिकुलोद्भवः ।
बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥ ३८ ॥
नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह ।
चौर्यद्रव्यं जनानां सङ्गृह्य भोगान् बुभोज च ॥ ३९ ॥
कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् ।
चर्तुवर्णजनाः सोऽपि तेषां मध्ये जगाम ह ॥ ४० ॥
द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् ।
एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥ ४१ ॥
कृत्वा सप्तपुरीणां ते यात्रां पुनः समाययुः ।
स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥ ४२ ॥
ततः स्त्रीपुत्रकान् स्वस्य मण्डयामास भूषणैः ।
चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥ ४३ ॥
द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् ।
चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः ॥ ४४ ॥
ततो मयूरक्षेत्रस्य माहात्म्यं स्कान्दसम्भवम् ।
शुश्राव सुप्रतीकश्च जनैः सर्वैर्महेश्वराः ॥ ४५ ॥
मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः ।
द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥ ४६ ॥
स तु तत्र चकारापि विचारं मानसे परम् ।
अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥ ४७ ॥
विषादिना हता लोका ब्राह्मणाद्या मया बहु ।
तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥ ४८ ॥
काश्यां प्रदक्षिणायां तु पञ्चक्रोश्यां मया परम् ।
पापं कृतमपारं वै का गतिर्मे भविष्यति ॥ ४९ ॥
मद्विना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा ।
यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन कथ्यते ॥ ५० ॥
एकान्तगं ततः पौराणिकं गत्वा द्विजाधमः ।
उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥ ५१ ॥
सुप्रतीक उवाच ।
[[६०]]
सर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् ।
वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥ ५२ ॥
पौराणिक उवाच ।
सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् ।
तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥ ५३ ॥
चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके ।
धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥ ५४ ॥
पञ्चमं ब्रह्मभूताख्यं मयूरं नात्र संशयः ।
तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेत् ॥ ५५ ॥
एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ ।
गृहं दारादि सङ्गृह्य मयूरेशं जगाम ह ॥ ५६ ॥
यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् ।
द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥ ५७ ॥
देवागारं समाश्रित्याभजत्तं गणनायकम् ।
अन्ते पापविहीनः स ब्रह्मभूतो बभूव ह ॥ ५८ ॥
एवं नाना जनास्तत्र पतितानां महेश्वराः ।
पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥ ५९ ॥
अधुना कथयिष्यामि चरित्रं यत् पुरातनम् ।
श्रुत्वा संशयहीनास्तं मयूरेशं भजन्ति वै ॥ ६० ॥
वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह ।
विषेण पितरं सोऽपि मारयामास लोभतः ॥ ६१ ॥
नानाद्विजादिकान् सोऽपि वन्द्य पूज्यान् दुरात्मवान् ।
विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥ ६२ ॥
स कदाचिद्वणिग्भिश्च क्रयविक्रयकारणात् ।
जगाम दण्डकारण्ये जनैः सह महाखलः ॥ ६३ ॥
तत्र माघे महायात्रां जग्मुर्लोका विशेषतः ।
मयूरेशं ततः सोऽपि तैर्जगाम सुहर्षितः ॥ ६४ ॥
द्रव्यलोभार्थमानन्दात् पुरं मायूरमाययौ ।
तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः ॥ ६५ ॥
बहिः स्थितानि पश्यन्ति यदाऽसावागमिष्यति ।
तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥ ६६ ॥
तत्र दैवप्रसङ्गेन न पापानि चकार ह ।
यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥ ६७ ॥
पुनर्मानवसङ्घैः स निर्जगाम महेश्वरः ।
मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥ ६८ ॥
तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः ।
स्प्रष्टुं तान्यसमर्थानि बभूवुर्देवसत्तमाः ॥ ६९ ॥
ततः पापानि सर्वाणि विचारं चक्रुरादरात् ।
अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥ ७० ॥
तथाऽस्माभिर्मयूरेऽयं गत्वा पापं करिष्यति ।
ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥ ७१ ॥
अधुना शुद्धरूपोऽयं बहिः सदा समागतः ।
अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥ ७२ ॥
वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः ।
येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥ ७३ ॥
किञ्चित् पापयुतं वैश्यं प्रविश्यामो विशेषतः ।
ततो महाघसंयुक्तं करिष्यामो न संशयः ॥ ७४ ॥
एवं विचार्य पापानि पापिनां हृदयेषु च ।
प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥ ७५ ॥
अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् ।
तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥ ७६ ॥
ततः पापेषु दुर्बुद्धिश्चकार ह पुनर्मतिम् ।
एतस्मिन्नन्तरे तत्र ब्राह्मणं स ददर्श ह ॥ ७७ ॥
[[६१]]
तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् ।
श्रुत्वा तं पुनरप्याह ब्राह्मणः सर्वमार्गवित् ॥ ७८ ॥
त्वया कृतानि पापानि तानि त्वां पीडयन्ति वै ।
अतस्त्वं सत्वरो भूत्वा मयूरेशं समाश्रय ॥ ७९ ॥
स्वजनैः पुत्रदारादि समानाय्य महामते ।
तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥ ८० ॥
तच्छ्रुत्वा स प्रणम्यादौ तं मयूरेशकं द्विजम् ।
जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥ ८१ ॥
मयूरे वैश्यवृत्या च धर्मयुक्तः समास्थितः ।
धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥ ८२ ॥
पापानि भोगहीनानि बहिर्मम्रुः स्थितान्यपि ।
धर्मध्वजश्च देवेशा ब्रह्मैवान्ते बभूव ह ॥ ८३ ॥
क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन ।
पीडितेन महादोषैर्मतं तदपि तद्वरम् ॥ ८४ ॥
अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः ।
मयूरे नीचजातिस्था किञ्च तेन समो न हि ॥ ८५ ॥
आयासेन विहीनत्वाद्ब्रह्मभूतो भवेन्नरः ।
मयूरे तेन किं तुल्यं भवेद्ब्रह्माण्डमण्डले ॥ ८६ ॥
इदं यः शृणुयाद्देवा श्रावयेद्वा पठेन्नरः ।
पापहीनः स्वभावेन धर्मयुक्तो भविष्यति ॥ ८७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥