॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
मयूरं कीदृशं देवालयं विप्र किमात्मकम् ।
गर्भागारं तथा योगिन् वद गाणेशरूपकम् ॥ १ ॥
भ्रूशुण्ड्युवाच ।
चित्रं नानाविधं सर्वं मायारूपं मयूरकम् ।
तदेव गणनाथस्य रूपं ज्ञातव्यमुत्तमम् ॥ २ ॥
दिवुः क्रीडात्मको धातुर्मायाक्रीडाकरः स्वयम् ।
गणेशस्तस्य रूपं यद्देवागारं प्रकीर्तितम् ॥ ३ ॥
यथा गर्भश्च देवेन्द्राः शुक्रशोणितसम्भवः ।
द्वाभ्यामेकत्वमापन्नो जायते द्वन्द्वधारकः ॥ ४ ॥
मायामायिकयोर्योगे तथा स्वानन्द उच्यते ।
गर्भागारं तदेवाऽपि ज्ञातव्यं योगिभिः परम् ॥ ५ ॥
स्वानन्दे वसतिस्तस्य गणेशस्य महात्मनः ।
स एव मूर्तिमास्थाय सन्तस्थावुत्तरामुखः ॥ ६ ॥
एतत् सर्वं रहस्यं यत् कथितं सर्वमञ्जसा ।
तं सेवध्वं महेशानास्तेन सर्वमवाप्स्यथ ॥ ७ ॥
देवेन्द्रा ऊचुः ।
क्षेत्रं गणपतेर्योगिन् सर्वं गाणेशरूपकम् ।
तत्र स्थिता विशेषेण देवविप्रादयः प्रभो ॥ ८ ॥
तेषां पुरीषमूत्रादिव्यवहारः कथं भवेत् ।
स्त्रीसङ्गपुत्रपौत्राद्यं सर्वं तद्दुर्घटं भवेत् ॥ ९ ॥
भ्रूशुण्ड्युवाच ।
[[५६]]
साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः ।
न तस्य बाधते किञ्चिन् मृतरूपमिदं कदा ॥ १० ॥
लोकानामुपकाराय जलपृथ्व्यादिकं तथा ।
रचितं सर्वसामान्यं तत्र वासेन लभ्यते ॥ ११ ॥
गणेशः सर्वयोगानामधिपो नात्र संशयः ।
न गणेशस्वरूपस्य विक्रिया जायते ततः ॥ १२ ॥
योगरूपे नरास्तत्र निश्चये न मृताः किल ।
गाणेशे सम्भविष्यन्ति तदाकारा न संशयः ॥ १३ ॥
तथा नरादयश्चान्ये वसन्ति क्षेत्रवासिनः ।
कुर्वन्ति मलमूत्रादि देवादीनां न बाधते ॥ १४ ॥
देवविप्रादयस्तत्र संस्थिता व्याप्य देवपाः ।
अङ्गुष्ठपर्वमात्रेण रूपेण क्षेत्रवासिनः ॥ १५ ॥
मयूरं तन्मयं क्षेत्रं ज्ञातव्यं दिव्यचक्षुषा ।
मृन्मयं मानवानां तु तद्दोषस्तत्र नो भवेत् ॥ १६ ॥
तथापि मृन्मये क्षेत्रे गर्भागारं विशेषतः ।
मलमूत्रादिदोषैश्च संयुतं नैव कारयेत् ॥ १७ ॥
तेन सर्वं शुभं सर्वैर्लभ्यते मानवैः परम् ।
यथा धर्मयुतैर्नित्यं सेवनीयं मयूरकम् ॥ १८ ॥
भवेद्विपथभावेन मयूरे संस्थितो यदि ।
स यातनां लभेच्चोग्रां नग्नभैरवकारिताम् ॥ १९ ॥
देवेशा ऊचुः ।
गर्भागारे मलस्यैव नरस्त्यागं समाचरेत् ।
तस्मै भैरवदत्तां तां यातनां कीदृशीं वद ॥ २० ॥
मयूरे पापकर्माणि यः करोति तु मानवः ।
स भुङ्क्ते यातनां विप्र कीदृशीं तां वदस्व नः ॥ २१ ॥
मयूरं केन पुण्येन लभ्यते तद्वदस्व च ।
क्षेत्रसन्न्यासिनां चैव द्वारयात्रां किमात्मिकाम् ॥ २२ ॥
भ्रूशुण्ड्युवाच ।
इतिहासं प्रवक्ष्यामि पुराकल्पसमुद्भवम् ।
तेन संशयहीनाश्च भविष्यथ सुरोत्तमाः ॥ २३ ॥
देवागारे द्विजः कश्चिद्देवानीकेति नामतः ।
अत्रिगोत्रोद्भवः सुज्ञः संस्थितोऽभूत् सुकर्मवान् ॥ २४ ॥
स्वधर्मसंयुतो नित्यं सिषेवे गणनायकम् ।
देवविप्रातिथिप्रेप्सुः क्षेत्रयात्रापरायणः ॥ २५ ॥
एवं बहौ गते काले वृद्धस्तत्र बभूव ह ।
तथापि नित्ययात्रायां रतोऽभूद् धर्मधारकः ॥ २६ ॥
एकदा ज्वरयुक्तश्चाजीर्णान्नेन प्रपीडितः ।
जगाम स मयूरेशं पूजनाय महायशाः ॥ २७ ॥
पूजयित्वा गणेशानं नित्ययात्रां चकार ह ।
तत्रापानभवो वायुः पीडयन्नतिदूषितः ॥ २८ ॥
हठात् सङ्गृह्य विप्रस्तं त्यक्त्वा यात्रां महामतिः ।
स्वगृहं प्रजगामाऽसौ त्वरायुक्तोऽतिदुःखितः ॥ २९ ॥
गच्छतोऽजीर्णदोषेणातिसारेण महात्मनः ।
मलः शिथिलभावेन निःसृतो गर्भमन्दिरे ॥ ३० ॥
ततोऽतिदुःखसंयुक्तः स्नानं चक्रे स वाडवः ।
शनैः स्वगृहमागम्य शोकयुक्तो बभूव ह ॥ ३१ ॥
अहो मयाऽतिमूर्खेण गर्भागारे कृतं परम् ।
मलत्यागभवं पापं का गतिर्मे भविष्यति ॥ ३२ ॥
ततस्तत्र ममारैव स्वल्पकालेन विप्रपः ।
रोगेण पीडितोऽत्यन्तं देवानीको महायशाः ॥ ३३ ॥
ततस्तं भैरवस्यापि दूता नेतुं समागताः ।
बद्ध्वा सन्ताड्य विप्रं सङ्गृह्य ते भैरवं ययुः ॥ ३४ ॥
दृष्ट्वा स भैरवो देवस्तमुवाच द्विजाधमम् ।
किमर्थं रोगयुक्तस्त्वं गर्भागारं गतो वद ॥ ३५ ॥
[[५७]]
अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् ।
भुङ्क्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥ ३६ ॥
साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् ।
तस्य मस्तकमध्ये तु पपात किल ते मलः ॥ ३७ ॥
अस्माभिश्च सुवासेन जलेन क्षालितं तदा ।
मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥ ३८ ॥
इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः ।
देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥ ३९ ॥
ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम् ।
चकार दूतवर्यैश्च नग्नभैरव एव च ॥ ४० ॥
अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह ।
बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥ ४१ ॥
भैरवाणां महावह्निर्मतः कोटिगुणाधिकः ।
यमस्याग्नेश्च जन्तूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥ ४२ ॥
शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः ।
बभ्राम दाहसंयुक्तो न ममार स मायया ॥ ४३ ॥
भैरवेण निबद्धः स दुःखमेव सुदारुणम् ।
बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥ ४४ ॥
ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः ।
शतवर्षाणि तत्रैवाभवच्छैत्येन पीडितः ॥ ४५ ॥
ततः स रौरवे तेन निक्षिप्तो जन्तुभिस्तथा ।
दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥ ४६ ॥
शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् ।
ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥ ४७ ॥
शतवर्षाणि तत्रैव यातनां बुभुजे पराम् ।
ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥ ४८ ॥
अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः ।
अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥ ४९ ॥
तत्रैव शास्त्रमन्त्रेण वैदिकेन द्विजोत्तमैः ।
ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥ ५० ॥
एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम् ।
आनाय्य भैरवो देवो जगाद वचनं हितम् ॥ ५१ ॥
देवानीक त्वया भक्त्या यात्रार्थं गर्भमन्दिरम् ।
अशक्तेन कृतं चैव मलयुक्तं महामते ॥ ५२ ॥
तेन त्वं पञ्चशतकं वर्षाणां यातनाभवम् ।
दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥ ५३ ॥
इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह ।
एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥ ५४ ॥
यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् ।
त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥ ५५ ॥
इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा ।
तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥ ५६ ॥
तं निर्भर्त्स्य महाक्रूरा भैरवा यातनाभवम् ।
दर्शयित्वा महद् दुःखं ब्रह्मभूतं तु चक्रिरे ॥ ५७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥
[[५८]]