१९ क्षेत्रवासिचरितवर्णनम्

॥ श्रीगणेशाय नमः ॥

देवेशा ऊचुः ।
अधुना वद माहात्म्यं देवागारस्य मानद ।
के के मुख्या जनैः पूज्याः संस्थिता गणपे रताः ॥ १ ॥

भ्रूशुण्ड्युवाच ।
द्वारकासहितो विष्णुर्देवागारे समाश्रितः ।
पूर्वभागे गणेशात्तु दिशि देवेन्द्रसत्तमाः ॥ २ ॥

यावन्ति वैष्णवान्येव क्षेत्राणि विविधानि च ।
मथुराद्यानि सर्वाणि पूर्वभागे स्थितानि वै ॥ ३ ॥

तत्र मध्ये महेशाना द्वारकाशतमञ्जसा ।
धनुषां तु प्रमाणेन गर्भागारात् प्रकीर्तिता ॥ ४ ॥

तत्र कृष्णश्च रामश्च प्रद्युम्नो ह्यनिरुद्धकः ।
समातस्थुर्गणेशस्य भक्त्यर्थं भक्तसत्तमाः ॥ ५ ॥

गणेशानं पुष्टिपतिं स्थापयित्वा जनार्दनः ।
सेवते तं महाभागा द्वारकावासिनस्तथा ॥ ६ ॥

गोमती कुण्डरूपेण स्वयं तत्रैव संस्थिता ।
स्नानमात्रेण जन्तूनां ब्रह्महत्यां विनश्यति ॥ ७ ॥

कृष्णपक्षे नरो नारी श्रावणे तु जनार्दनम् ।
मयूरे पूजयेत् क्षेत्रे वासकृत् सर्वदायकम् ॥ ८ ॥

तेषां पूजनमात्रेण सद्यः पापविवर्जितः ।
मनेप्सितं लभेद् देवाः शतयज्ञफलं तथा ॥ ९ ॥

मथुरावामभागे तु द्वारकायाः समास्थिता ।
तावन्मानेन देवेशाः सर्वार्थस्य प्रदायिनी ॥ १० ॥

बालरूपधरौ तत्र रामकृष्णौ समास्थितौ ।
पूजनीयौ नरेणैव सर्वकामफलप्रदौ ॥ ११ ॥

गौरीविनायकं तत्र स्थापयित्वा स्वहर्षतः ।
जनैः सह महाभक्तौ सेवेते तं जनार्दनौ ॥ १२ ॥

तत्रैव यमुना साक्षात् संस्थिता हृदरूपिणी ।
तस्यां स्नानेन देवेशाः सर्वपापक्षयो भवेत् ॥ १३ ॥

कृष्णाष्टम्यां विशेषेण तयोर्यात्रा प्रकीर्तिता ।
मासे मासे जनानां सा दहति ह्यशुभं महत् ॥ १४ ॥

अयोध्या दक्षिणाङ्गेऽस्यास्तावन्मानेन संस्थिता ।
द्वारकायाश्च तत्रैव शरयूकुण्डकं स्थितम् ॥ १५ ॥

तत्र स्नानेन जन्तूनां पापं नश्यति तत्क्षणात् ।
इहजन्मकृतं सर्वं स्वर्गदं कुण्डमञ्जसा ॥ १६ ॥

तत्र रामो लक्ष्मणश्च भरतः शत्रुसूदनः ।
स्थिताः संस्थाप्य हेरम्बं सेवायां तत्परा जनैः ॥ १७ ॥

[[४७]]

चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते ।
क्षेत्रवासिन आनन्दाद्वार्षि?कीं दुरितापहाम् ॥ १८ ॥

द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः ।
संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥ १९ ॥

तत्पुरो नृहरिश्चैव वामनस्तत्पुरोऽभवत् ।
मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥ २० ॥

नरनारायणौ देवौ तत्पुरः संस्थितौ किल ।
हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥ २१ ॥

तथा वामाङ्गभागे ये धनुषां दशके परे ।
तिष्ठन्ति विष्णुरूपाश्च मथुरायाः सुखप्रदाः ॥ २२ ॥

तान् शृणुध्वं महेशानाः कथयामि समासतः ।
कूर्मः परशुरामश्च कल्की पृश्निसुतस्तस्था ॥ २३ ॥

कपिलः सिद्धेशः शेषः सनकाद्याश्च योगिनः ।
भजन्ति स्वस्वनामाङ्कानास्थाप्य गणनायकान् ॥ २४ ॥

अयोध्यायाः पुरः सप्त संस्थिताश्च जनार्दनाः ।
तावन्मानेन देवेशास्तान् शृणुध्वं समासतः ॥ २५ ॥

नारदः कार्तवीर्यश्चात्रितो यज्ञस्तथा परः ।
ऋषभश्च पृथुर्वैन्यो मोहिनी या स्मृता बुधैः ॥ २६ ॥

स्वस्वेष्टनामकांस्तत्रास्थाप्य विघ्नेश्वरान् परान् ।
भजन्ते भावयुक्ताश्च सदा क्षेत्रनिवासनः ॥ २७ ॥

द्वादश्यां प्रतिमासेषु पूजनीयाः क्रमेण तु ।
चतुर्विंशतिदेवेश विष्णवः क्षेत्रवासिभिः ॥ २८ ॥

द्वारकास्थसमायुक्तास्तत्र विष्ण्वंशसम्भवाः ।
अवान्तरे स्थिताः सर्वे मयूरे हितकारकाः ॥ २९ ॥

स्वयं विष्णुस्ततस्तत्र तिष्ठति क्षेत्रगोऽमराः ।
विकुण्ठं तत् समाख्यातं धनुषां द्विशतात्मकम् ॥ ३० ॥

एकादश्यां जनाः साक्षात् पूजयन्ति निरन्तरम् ।
तेन सौभाग्यसंयुक्ता भविष्यन्न्ति मयूरके ॥ ३१ ॥

अन्ये नानाऽवताराश्च क्षेत्राणि विविधानि तु ।
संस्थितानि मयूरेऽस्मिन् गणेशे भक्तिकारणात् ॥ ३२ ॥

विकुण्ठवासी भगवान् सदा सिद्धिविनायकम् ।
स्थाप्य पूज्यं विधानेन भजतेऽनन्यभावतः ॥ ३३ ॥

अन्ये ये स्वस्वनाम्ना ते गणेशान् स्वेष्टरूपकान् ।
विष्णवः स्थापयित्वा तं भजन्तेऽनन्यभावतः ॥ ३४ ॥

गर्भागारस्य देवेशाः पूर्वाङ्गं वर्णितं मया ।
सङ्क्षेपेणाधुना तद्वत् दक्षिणाङ्गं तु वर्णये ॥ ३५ ॥

गर्भागारात् स्वयं काशी संस्थिता मध्यभागतः ।
धनुषां द्वे शते तस्या मानं क्षेत्रे प्रकीर्तितम् ॥ ३६ ॥

तत्र तिष्ठति विश्वेशो देवो भक्तिपरायणः ।
ढुण्ढिराजं समास्थाप्य भजतेऽनन्यचेतसा ॥ ३७ ॥

मणिकर्णी ह्रदस्तत्र वर्तते पापहारकः ।
स्नानेन मानवस्यैव ब्रह्मघ्नः पातकं व्रजेत् ॥ ३८ ॥

भागीरथी सरस्तत्र वर्तते देवनायकाः ।
सद्यः स्नानेन पापानि लयं गच्छन्ति निश्चितम् ॥ ३९ ॥

प्रदोषे पूजनं तस्य कुर्वन्ति क्षेत्रवासिनः ।
माघकृष्णचतुर्दश्यां यात्रां कुर्वन्ति मानवाः ॥ ४० ॥

वार्षि?कीं विश्वनाथस्य यात्रां क्षेत्रनिवासिनः ।
जनाः कुर्वन्ति ते सर्वे भवन्ति सुखभोगिनः ॥ ४१ ॥

तस्या वामाङ्गके देवास्तावन्मानेन संस्थिता ।
अवन्ती सर्वदा पुण्या महाकालश्च शङ्करः ॥ ४२ ॥

क्षिप्रानदीभवं कुण्डं वर्तते तत्र पापहृत् ।
महाकालस्य कुण्डं तु स्नानेन पापनाशनम् ॥ ४३ ॥

[[४८]]

सोमवारे प्रदोषे तमर्चयन्ति विशेषतः ।
ते सर्वे धनधान्यैश्च संयुक्ता निवसन्ति हि ॥ ४४ ॥

काश्या दक्षिभागे तु तावन्मानेन संयुता ।
मायापुरी महेशाना दक्षयज्ञच्छिदीश्वरः ॥ ४५ ॥

प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् ।
पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥ ४६ ॥

तत्र द्वारं च गङ्गाया: संस्थितं कुण्डरूपकम् ।
नरः स्नानेन सद्यश्च फलं प्राप्नोति वाञ्छितम् ॥ ४७ ॥

काश्याश्च पुरतो देवास्त्र्यम्बकः संस्थितो महान् ।
धनुषां शतकेनैव मानेन तस्य क्षेत्रकम् ॥ ४८ ॥

नदीस्वरूपेण गोदावरी तत्र महानदी ।
संस्थिता स्नानमात्रेण गोघ्नाद्यघं विनश्यति ॥ ४९ ॥

कपिलं गणनाथं स त्र्यम्बकः स्थाप्य नित्यदा ।
पुपूज भक्तिसंयुक्तो गाणपत्यप्रभाववित् ॥ ५० ॥

क्षेत्रगो वैद्यनाथस्तु तावन्मानेन तत्पुरः ।
स्थितः सर्वार्थदो देवो भक्तानां भवनाशकृत् ॥ ५१ ॥

भवरोगविनाशार्थं वैद्य एकः शिवः स्मृतः ।
ददाति गणनाथाख्यमौषधं योगमिच्छताम् ॥ ५२ ॥

उत्कटेशस्तत्पुरश्च तावन्माने संस्थितः ।
उत्कण्ठां भक्तिमिच्छन् सन् गणेशस्य महात्मनः ॥ ५३ ॥

त्र्यम्बकस्य तथा वामे रामेशः संस्थितः शिवः ।
तावन्मानेन तत् क्षेत्रे समुद्रः कुण्डरूपतः ॥ ५४ ॥

तत्पुरः सोमनाथस्तु तत्पुरो मल्लिकार्जुनः ।
तावन्मानेन संयुक्तौ स्वस्वतीर्थसमन्वितौ ॥ ५५ ॥

दक्षिणाङ्गे त्र्यम्बकस्य घुसृणेशः स्थितः प्रभुः ।
तथोङ्कारेश्वरो देवोऽप्यमलेश्वरसंयुतः ॥ ५६ ॥

सरःस्वरूपेण तत्र नर्मदा संस्थिता नदी ।
दर्शनेनेह यत् पापं जन्तूनां नाशयेत् सदा ॥ ५७ ॥

स्नानमात्रेण देवेशा दशजन्मकृतं महत् ।
पापं नश्यति जन्तोश्च निश्चितं मुनिभिः पुरा ॥ ५८ ॥

ततः केदारशम्भुश्च क्रमेण देवसत्तमाः ।
तावन्मानेन संयुक्ताः शिवा एते प्रकीर्तिताः ॥ ५९ ॥

स्वस्वनाम्नाङ्कितान् सर्वे सदाऽऽस्थाप्य गणेश्वरान् ।
सेवन्ते भक्तिसंयुक्ताः शिवा एते प्रकीर्तिताः ॥ ६० ॥

कृष्णपक्षे चतुर्दश्यां मासे मासे महेश्वराः ।
सेवनीयाः प्रयत्नेन क्षेत्रवासिभिरादरात् ॥ ६१ ॥

ततः पुरो महाक्षेत्रे कैलासे वासकारकः ।
शिवः साक्षात् स्थितस्तत्र धनुषां च चतुःशते ॥ ६२ ॥

क्षेत्रं कैलासनाथस्य तत्र भागीरथी नदी ।
स्वयं स्थिता विशेषेण स्नानमात्रेण सर्वदा ॥ ६३ ॥

महागणपतिं स्थाप्य पूजति नित्यमादरात् ।
भजते तं शिवः साक्षाद्गाणपत्याग्रणीर्महान् ॥ ६४ ॥

अन्यशङ्करक्षेत्राणि शिवा नानाविधा मताः ।
संस्थितानि स्थिताः सर्वे क्षेत्रसन्न्यासभक्तितः ॥ ६५ ॥

तेषां स्थानादिकथयितुं देवा न प्रशक्यते ।
स्वस्वनामयुतान् पूजन्त्यास्थाप्य गणनायकान् ॥ ६६ ॥

दक्षिणे कथितं शैवं परं देवालयं मया ।
सङ्क्षेपेण महाभागा अधुना पश्चिमं वदे ॥ ६७ ॥

शतेषु गर्भागाराच्च धनुषां पञ्चसु स्थिता ।
महालक्ष्मीः स्वयं साक्षाद्भक्तेभ्यः कामदायिनी ॥ ६८ ॥

लक्ष्मीकुण्डभवं तीर्थं संस्थितं तत्र पापहृत् ।
स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥ ६९ ॥

[[४९]]

तस्या वामाङ्गके शक्तिर्महाकाली समास्थिता ।
कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥ ७० ॥

महासरस्वती शक्तिर्दक्षिणाङ्गे स्थिता तथा ।
सारस्वतं महत् कुण्डं तत्र जाड्यविनाशनम् ॥ ७१ ॥

स्वानन्दवासमास्थाप्य भजते गणनायकम् ।
महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥ ७२ ॥

सिद्धीशं तु महाकाल्यास्थाप्य भक्तिपरायणा ।
भजते नित्यमानन्दाद्भूतायां पूज्यते तथा ॥ ७३ ॥

बुद्धीशं तु तृतीयायां महासरस्वती नरैः ।
शक्तियुक्ता स्थाप्य नित्यं भजते पूज्यते परा ॥ ७४ ॥

महालक्ष्म्याः पुरश्चैव विष्णुकाञ्ची स्थिता पुरी ।
लक्ष्म्या विष्णुः स्थितस्तत्र भजते स्थाप्य विघ्नपम् ॥ ७५ ॥

अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादरात् ।
पापनाशकरस्तेषां भवते सर्वदायकः ॥ ७६ ॥

तत्पुरो मातृकाणां च धनुषां द्विशतात्मकम् ।
क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतम् ॥ ७७ ॥

तत्पुरस्तावता मानेन युतं क्षेत्रमुत्तमम् ।
कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुता ॥ ७८ ॥

ततः क्षेत्रं समाख्यातं वाराह्याः सर्वदं परम् ।
तत्र शक्तिः स्थिता साक्षाद्वाराही दुरितापहा ॥ ७९ ॥

तत ऐन्द्र्या महाक्षेत्रं पूर्वमानेन कीर्तितम् ।
ऐन्द्री गणेश्वरं तत्र भजतेऽनन्यचेतसा ॥ ८० ॥

महाकाल्याः पुरश्चैव पूर्वमानेन संस्थिता ।
नारसिंही महाशक्तिर्दैत्येभ्यो भयदायिनी ॥ ८१ ॥

ततः शाकम्भरी शक्तिश्च ततो रक्तदन्तिका ।
ततो भीमा महेशानाः संस्थिता तीर्थसंयुता ॥ ८२ ॥

अथो महासरस्वत्यास्तावन्मानेन संस्थिता ।
पुरस्तु वैष्णवी देवी ततो ब्राह्मी स्थिता मता ॥ ८३ ॥

चामुण्डा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मता ।
समानमानभावेन संस्थिता शक्तयः पराः ॥ ८४ ॥

कुण्डरूपेण तीर्थानि स्वस्वक्षेत्रगतानि तु ।
कृत्वा ताः शक्तयः सर्वाः मयूरे संस्थिताः सदा ॥ ८५ ॥

स्वस्वनाम्नाङ्कितानास्थाप्य गणेशांश्च देवपाः ।
भजन्तेऽनन्यभावेन गाणपत्यस्वभावतः ॥ ८६ ॥

अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः ।
नरैस्तासां नवम्यां तु यात्रा कार्या सुखप्रदा ॥ ८७ ॥

तासां नामादिकं देवा मया वक्तुं न शक्यते ।
मुख्यास्तु नवकोट्यो वै ज्ञातव्यं विबुधैः सदा ॥ ८८ ॥

धनुः पञ्चशतं तस्माच्छक्तिर्लम्बोदरं परम् ।
आस्थाप्य भजते तस्या यात्राऽष्टम्यां प्रकीर्तिता ॥ ८९ ॥

अथोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् ।
समासेन महेशानाः शृणुत परमार्थदान् ॥ ९० ॥

गर्भागारात् समारभ्य चतुःशतं पितामहः ।
धनुषां क्षेत्रगः सोऽपि तिष्ठति वेदसंयुतः ॥ ९१ ॥

तावन्मानेन वामाङ्गे तस्याग्निः संस्थितो महान् ।
अग्निभिः सहितस्तत्र सेवते गणनायकम् ॥ ९२ ॥

दक्षिणाङ्गे स्वयं कर्म सह तिष्ठति कर्मभिः ।
सूर्यकलांशसम्भूतास्त्रयो मुख्या इति स्मृताः ॥ ९३ ॥

ब्रह्माणं च समाश्रित्य सरः सारस्वतं स्थितम् ।
सरस्वती नदीरूपा तत्र तिष्ठति नित्यदा ॥ ९४ ॥

[[५०]]

तत्र स्नानेन पापानि प्रणश्यन्ति महान्ति चेत् ।
जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥ ९५ ॥

सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः ।
सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥ ९६ ॥

तथाऽग्निश्च महात्मानं विनायकं निरन्तरम् ।
आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥ ९७ ॥

आग्नेयं तत्र कुण्डं तु सर्वाघशमनं स्थितम् ।
स्नानमात्रेण जन्तूनामग्निलोकप्रदं भवेत् ॥ ९८ ॥

कर्मनाशकरं कुण्डं समीपं कर्मणः स्थितम् ।
स्नानेन त्रिविधं तत्र कृतं कर्म विनश्यति ॥ ९९ ॥

ब्रह्मणः पुरतो देवा धनुषां द्विशतात्मकम् ।
क्षेत्रं वेदाङ्गनाम्नश्च परं सूर्यस्य संस्थितम् ॥ १०० ॥

भानुक्षेत्रं तत्पुरस्तावता मानेन संयुतम् ।
इन्द्रनाम्नस्तत्पुरस्तु क्षेत्रं सर्वप्रदायकम् ॥ १०१ ॥

अग्नेः पुरस्तथा क्षेत्रं रवेस्तावत्प्रमाणकम् ।
ततः क्षेत्रं गभस्तेश्च यमस्य च ततः परम् ॥ १०२ ॥

कर्मणश्च पुरोभागे तावन्मानयुतं महत् ।
सुवर्णरेतसः क्षेत्रं ततो दैवाकरं मतम् ॥ १०३ ॥

ततः क्षेत्रं तु मित्रस्य ततो विष्णोः प्रकीर्तितम् ।
वरुणस्य क्षेत्रमिन्द्रात् पुरः सर्वाघनाशनम् ॥ १०४ ॥

यमात् पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितम् ।
समानमानभावेन स्थिता द्वादश भानवः ॥ १०५ ॥

स्वस्वतीर्थैः समायुक्ताः कुण्डरूपैर्महेश्वराः ।
स्वस्वनाम्ना स्थाप्य सेवन्ते गणेशान्निरन्तरम् ॥ १०६ ॥

तत्पुरः शिवकाञ्ची तु तस्यां शक्त्या शिवः स्थितः ।
सोमयुक्तो प्रदोषे स जनैः पूज्यः सुखप्रदः ॥ १०७ ॥

भजते सर्वभावेनास्थाप्य हेरम्बमादरात् ।
तीर्थं तस्य स्थितं तत्र सर्वाघशमनं परम् ॥ १०८ ॥

जनैः पूज्यः प्रतिपदि क्षेत्रस्थोऽग्निः प्रतापवान् ।
सर्वपापनिहन्ता च द्रव्यलाभप्रदो भवेत् ॥ १०९ ॥

सप्तम्यां सर्वदा देवाः पूजनीयः पितामहः ।
जाड्यभावहरः सोऽपि भवत्यत्र न संशयः ॥ ११० ॥

भानुसप्तमिकायां तु कर्म सम्पूजयन्ति ये ।
सर्वदोषविहीनाश्च कर्मणां सम्भवन्ति ते ॥ १११ ॥

सङ्क्रमेषु सदा पूज्य भानून् द्वादश संस्थितान् ।
सर्वरोगादिनिर्मुक्ता भवन्ति क्षेत्रवासिनः ॥ ११२ ॥

तेषां पुरः स्वयं नित्यं तिष्ठति सौरलोकगः ।
चतुःशतं तु धनुषां क्षेत्रं तस्य महात्मनः ॥ ११३ ॥

रविवारे तु देवेशः पूजनीयो निरन्तरम् ।
नरः सर्वार्थसंसिद्धिं लभते मुक्तिमुत्तमाम् ॥ ११४ ॥

वरदं गणनाथं संस्थाप्य पूजापरायणः ।
भजते आदिदेवस्तं सूर्यः कालभृतां वरः ॥ ११५ ॥

तत्पुरश्चन्द्रमा देवाः संस्थितः शतमानतः ।
धनुषां क्षेत्रमेतत्तु तस्य सर्वान्नदायकम् ॥ ११६ ॥

ततः पुरो बुधः प्रोक्तस्तावता मानकेन च ।
तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः ॥ ११७ ॥

चन्द्रवामाङ्गसंस्थश्च भौमो देवपरायणः ।
तत्पुरो भार्गवः श्रेष्ठस्तत्पुरस्तु शनैश्चरः ॥ ११८ ॥

चन्द्रस्य दक्षिणे भागे राहुः सर्वारिमर्दनः ।
तत्पुरः केतुरेवं च नक्षत्राणि ततः पुरः ॥ ११९ ॥

आस्थाप्य स्वस्वनामाङ्कान् गणेशान् भक्तितत्परः ।
भानि ग्रहा भजन्ते तं क्षेत्रवासपरायणाः ॥ १२० ॥

[[५१]]

स्वस्वाङ्कितेषु वारेषु पूजनीया इमे नरैः ।
पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥ १२१ ॥

अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः स्थिताः किल ।
तेषां नामादि कथयितुं देवाः शक्यते न वै ॥ १२२ ॥

देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः ।
नाना भैरवसंयुक्ताः संस्थिता देवतत्पराः ॥ १२३ ॥

तत इन्द्रो हव्यवाहः पूर्वभागे समाश्रितौ ।
यमपो निर्ऋतिस्तद्वद्दक्षिणाङ्गे च तिष्ठतः ॥ १२४ ॥

पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ ।
धनपो निर्ऋतिस्तद्वदुत्तराङ्गे समास्थितौ ॥ १२५ ॥

अष्टम्यां भैरवाः पूज्या जनैः पैशाचनायकाः ।
भूतादीनां विशेषेण भवन्ति भयनाशकाः ॥ १२६ ॥

दशम्यां दश दिक्पालाः पूजनीयाः प्रयत्नतः ।
चौरादिजं भयं सर्वं नाशयिष्यन्ति सर्वदा ॥ १२७ ॥

स्वस्वनामाङ्कितानास्थाप्य दिगीशा गणेश्वरान् ।
पूजयन्ति भजन्ते तं भैरवाश्च महेश्वराः ॥ १२८ ॥

पूजनीयौ द्वितीयायामश्विनौ पूर्वदिक् स्थितौ ।
द्वारस्य सन्निधाने तु धनुषां शतमानतः ॥ १२९ ॥

देवागारे गणेशं संस्थाप्य नित्यं महाप्रभुम् ।
भजतस्तेन सर्वेषां रूपलावण्यदौ मतौ ॥ १३० ॥

दक्षिणे संस्थितौ तद्वद्गौरीस्कन्दौ परेश्वरम् ।
आस्थाप्य पूज्य विघ्नेशं भजतो नित्यमादरात् ॥ १३१ ॥

तयोः पूजनमात्रेण भवेत् सौभाग्यसंयुतः ।
स्वाचारनिष्ठभावेन चित्तं सुनियतं भवेत् ॥ १३२ ॥

षष्ठ्यां स्कन्दं भजेन्नित्यं तृतीयायां च पार्वतीम् ।
मयूरेशयुते देवास्ताभ्यां सौख्यं लभेन्नरः ॥ १३३ ॥

सर्वे वासुकिमुख्याः पश्चिमे नागा महाबलाः ।
संस्थिता द्वारसामीप्ये नागकुण्डं तथाऽमलम् ॥ १३४ ॥

पञ्चम्यां पूजनीयास्ते दारिद्र्यनाशकारकाः ।
सर्वव्याधिविहीनं तु कुर्वते मानवं सदा ॥ १३५ ॥

उत्तरे धननाथं तु पूजयेद्धननायकम् ।
एकादश्यां विशेषेण द्वारसामीप्यसंस्थितम् ॥ १३६ ॥

त्रयोदश्यां धर्मराजं पूजयेन्नात्र संशयः ।
धर्मप्रदं जनानां च सदा पुण्यविवर्धनम् ॥ १३७ ॥

अन्ये देवगणाः सर्वे स्थिता देवालये किल ।
पूर्णिमायां जनैः पूज्याः क्षेत्रवासिभिरादरात् ॥ १३८ ॥

यमस्य सन्निधाने तु पितरः क्षेत्रवासिनः ।
संस्थितास्ते नरैः पूज्या अमायां वंशवर्धनाः ॥ १३९ ॥

त्रयस्त्रिंशत् कोटिमिता देवाः सर्वत्र संस्थिताः ।
तेषां स्थानादि देवाः कथयितुं नैव शक्यते ॥ १४० ॥

देवागारस्य देवेशाः कथितं यात्रया युतम् ।
माहात्म्यं देवजातीनां सर्वकामफलप्रदम् ॥ १४१ ॥

मयूरस्यापि अधुना कथयामि चरित्रकम् ।
तत्स्थानां शृणुत प्राज्ञाः सर्वसिद्धिप्रदायकम् ॥ १४२ ॥

देवागाराच्छते द्वे तु धनुषां संस्थितो भृगुः ।
भृगुतीर्थं महत् क्षेत्रे कुण्डं पापप्रदाहकम् ॥ १४३ ॥

तत्र स्नानेन जन्तूनां वन्ध्यदोषो विनश्यति ।
तथा पूज्य प्रजानाथं भृगुं सर्वमवाप्नुयात् ॥ १४४ ॥

रोहिण्यां तस्य यात्रा वै कर्तव्या क्षेत्रवासिभिः ।
तेन तुष्टो महायोगी भृगुः सर्वार्थदो भवेत् ॥ १४५ ॥

स्वनामसंयुतं सोप्यास्थाप्य विघ्नेश्वरं परम् ।
पूजत्यनन्यभावेन गाणपत्यस्वभावतः ॥ १४६ ॥

[[५२]]

तस्य वामाङ्गगः साक्षात्तावन्मानेन संस्थितः ।
पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥ १४७ ॥

कुण्डं पुलहतीर्थाख्यं दोषहन्तृ स्थितं परम् ।
भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥ १४८ ॥

यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके ।
कर्तव्या क्षेत्रवासिभिर्महापुण्यप्रवर्द्धिनी ॥ १४९ ॥

दक्षिणाङ्गे क्रतुश्चैव कुण्डं कृत्वा स्वतीर्थजम् ।
गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥ १५० ॥

आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः ।
यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥ १५१ ॥

भृगोः पुरश्च धनुषां शतं तत्र स्थितो मतः ।
च्यवनश्च तथा धाता विधाता देवसत्तमौ ॥ १५२ ॥

क्रमेण भार्गवाः सर्वे मुनयस्तत्र संस्थिताः ।
शतानि पञ्च तत् क्षेत्रं धनुषां शौनकादयः ॥ १५३ ॥

पूजनीयाश्च पञ्चम्यामृषयः सर्वभावनाः ।
श्रवणे मानवैस्तत्स्थैः पुण्यदाः सम्भवन्ति च ॥ १५४ ॥

पुलहस्य पुरस्तद्वत् पौलहा मुनयः सदा ।
तिष्ठन्ति पूजनीयास्ते रेवत्यां सर्वदा मताः ॥ १५५ ॥

क्रतोरग्रे महेशानाः क्रतुवंशसमुद्भवाः ।
तिष्ठन्ति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः ॥ १५६ ॥

अश्विन्यां पूजनीयाश्च मताः सर्वार्थदायकाः ।
गणेशमास्थाप्य विप्राः सेवन्ते भक्तितत्पराः ॥ १५७ ॥

तत्पुरो देवगन्धर्वा विश्वावसुपुरोगमाः ।
धनुषां द्वे शते तेषां क्षेत्रं ख्यातं मयूरके ॥ १५८ ॥

उर्वशी चैव रम्भाद्यास्ततो ह्यप्सरसः पुरः ।
धनुषां शतकं क्षेत्रं तासां तत्र प्रकीर्तितम् ॥ १५९ ॥

पूजनीया नरैः पुष्पैर्गन्धर्वाः पुण्यवर्धनाः ।
पुर्नवसावप्सरसः पूजनीया विशेषतः ॥ १६० ॥

नानामुनिगणा अन्ये भवन्ते संस्थिताः पराः ।
विश्वामित्रो याज्ञवल्क्यस्तथा पाराशरोऽग्रणीः ॥ १६१ ॥

श्वेतकेतुर्वामदेवो परो रैभ्यो निदाघकः ।
इत्याद्याः बहवो देवाः कथयितुं न शक्यते ॥ १६२ ॥

स्वस्वनाम्नाङ्कितांस्ते संस्थाप्य लम्बोदरान् सदा ।
भजन्ते तीर्थसंयुक्ताः पूजनीयाः सुखप्रदाः ॥ १६३ ॥

पूर्वभागाश्रितं सर्वं कथितं वः समासतः ।
अधुना दक्षिणं वक्ष्ये मयूरं सर्वदायकम् ॥ १६४ ॥

देवालयाद्दक्षिणाच्चतुःशतं च प्रकीर्तितम् ।
धनुषां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः ॥ १६५ ॥

स्वनामाङ्कितमास्थाप्य गणेशं भजते सदा ।
तत्र कुण्डं तु वासिष्ठं स्नानेन पापनाशनम् ॥ १६६ ॥

भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेत् ।
यात्रा तस्य समाख्याता मयूरे सुखदायिका ॥ १६७ ॥

तस्य वामाङ्गभागे चात्रिः सर्वार्थप्रदायकः ।
गणेश्वरं स संस्थाप्य भजते स्वाभिधानकम् ॥ १६८ ॥

तीर्थं तत्र स्थितं तस्य स्नानमात्रेण मानदम् ।
कृत्तिकायां विशेषेण पूजनीयो नरैः सदा ॥ १६९ ॥

दक्षिणाङ्गे वसिष्ठस्य पुलस्त्यः संस्थितोऽभवत् ।
स्वनामाङ्कितमास्थाप्य ढुण्ढिं भजति देवपाः ॥ १७० ॥

कुण्डं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम् ।
आसुरभावसम्भूतं मलं दहति सेविनाम् ॥ १७१ ॥

पूजनीयो धनिष्ठायां विशेषेण महामुनिः ।
सर्वार्थदायको भावी यात्राकारिण एव च ॥ १७२ ॥

वसिष्ठाच्च पुरोभागे वासिष्ठा मुनयोऽपरे ।
द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता द्विजाः ॥ १७३ ॥

[[५३]]

अत्रेः पुरस्तथात्रेयास्तावन्मानेन संस्थिताः ।
पुलस्त्याग्रे च पौलस्त्या भवन्ति मुनयः स्थिताः ॥ १७४ ॥

स्वस्वतीर्थसमासक्ताः स्थाप्य विघ्नेश्वरांस्तथा ।
पूजयन्ति स्वनामस्थान् भक्तियुक्ता महर्षयः ॥ १७५ ॥

मघायां चैव वासिष्ठाश्चित्रायामत्रिसम्भवाः ।
हस्ते पौलस्त्यकाः पूज्याः क्षेत्रवासिभिरादरात् ॥ १७६ ॥

अन्ये मुनिगणा नाना सदा तत्रैव संस्थिताः ।
तेषु मुख्यान् प्रवक्ष्यामि शृणुध्वं देवसत्तमाः ॥ १७७ ॥

कण्वश्च जैमिनिश्चैको द्वितश्च त्रितरैवतौ ।
मेधातिथिर्भरद्वाजो जमदग्निश्च गौतमः ॥ १७८ ॥

इत्यादि बहवोऽन्ये स्थिताः संस्थाप्य गणेश्वरान् ।
पूजनीया नरेणैव सर्वधर्मविवर्धनाः ॥ १७९ ॥

कथितेषु महेशाना नक्षत्रेषु विशेषतः ।
यात्रा तेषां समाख्याता सर्वाघशमनी परा ॥ १८० ॥

ततः पुरः पिशाचेशा भूतेशाः सिद्धचारणाः ।
संस्थिताः पूजनीयास्ते भौमवारे विशेषतः ॥ १८१ ॥

अतः परं पश्चिमस्थं वदामि पापहारकम् ।
चित्रं मयूरे माहात्म्यं क्षेत्रवासिभवं परम् ॥ १८२ ॥

देवालयादष्टशतं धनुषां स्थानमुत्तमम् ।
दक्षस्य तत्र देवेशा दक्षतीर्थं सरः स्थितम् ॥ १८३ ॥

तत्र स्नानेन दुर्बुद्धिः परा नश्यति तत्क्षणात् ।
सुबुद्धिर्जायते सद्यो जनानां भावितात्मनाम् ॥ १८४ ॥

महायात्राऽ?यभिजिति तस्य प्रोक्ता सुखप्रदा ।
कर्तव्या क्षेत्रवासीभिः परा सद्बुद्धिदायिका ॥ १८५ ॥

दक्षस्य वामभागे तु मरीचिः संस्थितो महान् ।
तावन्मानेन संयुक्तः स्वतीर्थेन समन्वितः ॥ १८६ ॥

स्वातौ तस्य महायात्रा कर्तव्या वृद्धिदायिनी ।
क्षेत्रवासिभिरानन्दाद्योगीन्द्रस्य महात्मनः ॥ १८७ ॥

अङ्गिरास्तस्य दक्षस्य दक्षिणे योगिसत्तमः ।
पूजनीयो विशेषेण ज्ञानदाता भवेत् सदा ॥ १८८ ॥

तीर्थं तत्र समाख्यातं कुण्डरूपेण योगिनः ।
स्नानेन भक्तिसंयुक्तो लभेज्ज्ञानं च मानवः ॥ १८९ ॥

दक्षादयस्त्रयः प्रोक्ताः संस्थाप्य गणनायकम् ।
स्वस्वनामाङ्कितं देवाः पूजयन्ति निरन्तरम् ॥ १९० ॥

दक्षाग्रे दक्षसम्भूताश्चतुर्वर्णप्रकाशिकाः ।
पुत्र्यः षष्टीर्महाभागाः सेवन्ते गणनायकम् ॥ १९१ ॥

तासां क्षेत्रं समाख्यातं चतुः शतधनुर्मितम् ।
रविवारे पूजनीया वंशसौभाग्यवर्धनाः ॥ १९२ ॥

तासां पुरः प्रजाः सर्वा नरैस्ताभ्यः समुद्भवाः ।
संस्थिता पूजनीयास्ता धनिष्ठायां सुखप्रदाः ॥ १९३ ॥

द्वे शते धनुषां तासां क्षेत्रं चैव प्रकीर्तितम् ।
गणेशमास्थाप्य सर्वाः सेवन्ते नित्यमादरात् ॥ १९४ ॥

मरीचेस्तु पुरोभागे मारीचाः काश्यपादयः ।
संस्थितास्ते नरैः पूज्याः शततारे धनप्रदाः ॥ १९५ ॥

चतुःशतानि तत् क्षेत्रं धनुषां च प्रकीर्तितम् ।
स्थाप्य विघ्नेश्वरान् सर्वे पूजयन्ति निरन्तरम् ॥ १९६ ॥

पुरोभागे ह्यङ्गिरसः स्थिता आङ्गिरसाः सदा ।
तावन्मानेन संयुक्तास्तीर्थयुक्ता महर्षयः ॥ १९७ ॥

लम्बोदरां?स्त आस्थाप्य स्वस्वनामाङ्कितान् सदा ।

[[५४]]

पूजयन्ति विशेषेण भक्तिभावसमन्विताः ॥ १९८ ॥

आश्लेषायां महायात्रा तेषां कार्या नरैः परा ।
पुत्रपौत्रप्रवृद्ध्यर्थं क्षेत्रवासिभिरादरात् ॥ १९९ ॥

अन्ये मुनिवरास्तत्र संस्थिता गणपे रताः ।
तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगीन्द्रकांस्तथा ॥ २०० ॥

दुर्वासा गालवश्चैव त्रिशिरा नै वो मुनिः ।
अगस्त्यश्च मृकण्डस्तु मार्कण्डेयो दधीचिकः ॥ २०१ ॥

कथितेषु दिनेष्वेते पूजनीया महात्मभिः ।
सर्वसौख्यप्रदातारो भवन्ते योगिसत्तमाः ॥ २०२ ॥

तीर्थयुक्तां गणेशानास्थाप्य सम्पूजयन्ति ते ।
मुनयो भक्तिसंयुक्ता क्षेत्रवासपरायणाः ॥ २०३ ॥

अतश्च किन्नराः साध्याः पुरो विद्याधरास्तथा ।
सेवन्ते गणनाथं संस्थाप्य क्षेत्रनिवासिनः ॥ २०४ ॥

पूजनीया नरैः सर्वे सर्वकारिण आदरात् ।
एवं सङ्क्षेपतः प्रोक्तं माहात्म्यं पश्चिमाश्रितम् ॥ २०५ ॥

अथोत्तरभवं देवाः कथयामि समासतः ।
मयूरक्षेत्रसंस्थानां चरित्रं सुखदं भवेत् ॥ २०६ ॥

देवागारात्तु धनुषां देवपाः शतपञ्चके ।
वसवोऽष्टौ स्थिताश्चैवास्थाप्य गाणेश्वरं परम् ॥ २०७ ॥

स्वस्वतीर्थभवं कुण्डं कृत्वा भक्तिपरायणाः ।
भजन्ते पूर्णिमायां ते पूजनीया विशेषतः ॥ २०८ ॥

तेषां वामाङ्गभागे तु धेनवः कामदायिकाः ।
संस्थिता तावता मानेन युतास्तीर्थसंयुताः ॥ २०९ ॥

गणेश्वरं ताः संस्थाप्य स्वस्वनामयुतं पराः ।
पूजयन्ति विधानेन भक्तियुक्ता महौजसः ॥ २१० ॥

द्वादश्यां ता नरैः पूज्याः कामधेनुमुखाः सुराः ।
क्षेत्रवासिभिरानन्ददायिकाः कामपूरिकाः ॥ २११ ॥

दक्षिणाङ्गे सितश्चैव देवलश्च समास्थितौ ।
गणेश्वरं तौ संस्थाप्य पूजतो योगिसत्तमाः ॥ २१२ ॥

उत्तरायां विशेषेण पूजनीयौ नरैः सदा ।
एकनिष्ठाप्रदौ स्यातां नराणां पापहारकौ ॥ २१३ ॥

वसूनां च पुरोभागे क्षेत्रं शतधनुर्द्वयम् ।
गार्ग्याणां ते नरैर्विद्याप्रदाः पूज्या विशेषतः ॥ २१४ ॥

उत्तराषाढनक्षत्रे यात्रा तेषां प्रकीर्तिता ।
गर्गः स्वयं महायोगी भजते गणनायकम् ॥ २१५ ॥

गवां पुरो महेशाना मौद्गला गणपप्रियाः ।
सेवन्ते विघ्नराजं ते तावन्मानेन संस्थिताः ॥ २१६ ॥

देवा विप्राश्च माण्डूका देवलासितयोः पुरः ।
सेवन्ते गणनाथं ते सर्वे भक्तियुताः सदा ॥ २१७ ॥

उत्तराभाद्रनक्षत्रे मौद्गला मानवैः सदा ।
पूजनीया विशेषेण योगदाः सम्भवन्ति ते ॥ २१८ ॥

माण्डूकाः पूर्वफल्गुन्यां पूजनीया नरैः सदा ।
व्याधिदोषहरास्ते तु भवन्त्यत्र न संशयः ॥ २१९ ॥

असिताद्या इमे सर्वे स्वस्वनामाङ्कितं परम् ।
पूजयन्ति गणेशं संस्थाप्य तीर्थसमन्विताः ॥ २२० ॥

तेषां पुरो महात्मानो मुनयस्तत्र संस्थिताः ।
मुख्यांस्तेषु प्रवक्ष्यामि शृणुध्वं योगिसत्तमान् ॥ २२१ ॥

धौम्यश्च ?वाल्मीकिवाचक्नवी मङ्कणको मुनिः ।
कहोडश्च सुमन्तुर्वै वैशम्पायन एव च ॥ २२२ ॥

जाबालिः पर्वतः पैल ऋष्यशृङ्गः प्रतापवान् ।
लोमशश्च विभाण्डोऽन्यो बल्लवाद्या महर्षयः ॥ २२३ ॥

[[५५]]

स्वस्वतीर्थयुतास्ते संस्थाप्य विघ्नेश्वरान् सदा ।
पूजयन्ति महाभागाः स्वस्वनामसमन्वितान् ॥ २२४ ॥

उत्तराषाढनक्षत्रे पूजनीया नरैः सदा ।
सर्वपापहरास्ते वै भवन्ते योगिसत्तमाः ॥ २२५ ॥

तत्पुरो गुह्यकाश्चैव हनूमान् पवनात्मजः ।
यक्षा रक्षोगणाः सर्वे भजन्ते गणनायकम् ॥ २२६ ॥

स्थाप्य ढुण्ढिं स्वतीर्थैस्तु युता ध्यानपरायणाः ।
उत्तराभाद्रनक्षत्रे पूजनीयाः शुभप्रदाः ॥ २२७ ॥

मुक्तेरीशानभागे तु सरः प्रणवसञ्ज्ञितम् ।
प्रणवाकृति तत्रैव स्नाने मूर्ध्नि ध्वनिर्भवेत् ॥ २२८ ॥

तत्रोङ्कारगणेशश्च सरस्वत्या समन्वितः ।
चतुर्थ्यां पूजनीयोऽसौ सर्वसिद्धिप्रदायकः ॥ २२९ ॥

तत्पुरो भैरवस्यैव दूता नग्नस्य सर्वतः ।
रक्षार्थं संस्थिता देवा महाबलसमन्विताः ॥ २३० ॥

अन्ये नानाविधास्तत्र स्थितास्तेषां महात्मनाम् ।
नामादिकं बहुत्वात् कथयितुं नैव शक्यते ॥ २३१ ॥

इदमुत्तरगं प्रोक्तं मयूरस्य चरित्रकम् ।
सङ्क्षेपेण महादेवाः सर्वसिद्धिप्रदायकम् ॥ २३२ ॥

यात्रादिसंयुतं यस्तु शृणोति क्षेत्रवासिनाम् ।
मुख्यानां चरितं पुण्यं स सर्वं प्रलभेत् सुखम् ॥ २३३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः ॥