॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
क्षेत्रस्थानां च यात्राया माहात्म्यं वद योगिप ।
के के मुख्या महाक्षेत्रे पूज्या लोकैर्निरन्तरम् ॥ १ ॥
भ्रूशुण्ड्युवाच ।
उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः ।
संस्थितस्तस्य वामाङ्गे सिद्धिः सेवार्थमास्थिता ॥ २ ॥
चामरैर्व्यजनैर्युक्ता नानासिद्धिसमन्विता ।
सेवते गणराजं सा सती भक्तिसमन्विता ॥ ३ ॥
दक्षिणाङ्गे तथा बुद्धिर्विद्याभिः संयुता स्वयम् ।
कलाभिश्च सरस्वत्याः समीपे सेवने स्थिता ॥ ४ ॥
सुगन्धिवस्तुभिर्युक्ता सती परमार्थवाचका ।
गणेशं भावसंयुक्ता भजते नित्यमादरात् ॥ ५ ॥
पुरतो लक्षलाभौ तु भक्तिनम्रात्मकन्धरौ ।
सेवेते तं गणाध्यक्षं नानोपचारसंयुतौ ॥ ६ ॥
पृष्ठभागे महादेव्यो भ्रामर्या धारका मदाः ।
नानाशक्तियुता देवं सेवन्ते भक्तिसंयुताः ॥ ७ ॥
समास्थितश्चासनाधो गणेशस्येक्षुसागरः ।
कमलं सागरोत्थं तु सहस्रदलराजितम् ॥ ८ ॥
तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा ।
तिष्ठन्तीमे हितं देवाः सेवन्ते रससंयुताः ॥ ९ ॥
एवं गणेश्वरः सर्वैः पूजनीयो विशेषतः ।
तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः ॥ १० ॥
मयूराखू तत्पुरश्च संस्थितौ करसम्पुटैः ।
तत्पुरः सिद्धयोगिन्यो नीराजयन्ति विघ्नपम् ॥ ११ ॥
पृष्ठभागे तथा तस्य प्रमोदाद्याश्च सायुधाः ।
संस्थिता भक्तिसंयुक्ताः पूजनीया नरेण ते ॥ १२ ॥
अथ पूर्वदिशायां तु धर्ममण्डप उच्यते ।
तत्र विष्णुः स्वयं साक्षात्तिष्ठति सेवनोत्सुकः ॥ १३ ॥
सर्वान् कथयते धर्मान् गाणेशान् तत्र संस्थितः ।
गाणपत्यप्रियत्वात् स पूजनीयो विशेषतः ॥ १४ ॥
[[४४]]
तथा दक्षिणगः शम्भुरर्थमण्डपमाश्रितः ।
स गाणेशान् कथयते शब्दार्थान् विविधान् परान् ॥ १५ ॥
गुह्यानर्थान् सदा देवः प्रकाशयति सर्वदा ।
गाणेशज्ञानकुशला भवन्ते तेन मानवाः ॥ १६ ॥
मण्डपः कामसञ्ज्ञस्तु दिशि देवाः समीपगाः ।
पश्चिमायां स्थिता तत्र महाशक्तिर्महेश्वरः ॥ १७ ॥
गणेशकामानायां सा कुरुते सर्वमानवान् ।
सौख्यमाद्यं कथयते गाणेशं परमाद्भुतम् ॥ १८ ॥
उत्तरे मण्डपो मुक्तेस्तत्र सूर्यः प्रतिष्ठते ।
गणेशभक्तियुक्तो बोधयते विविधान् नरान् ॥ १९ ॥
गाणेशीं मुक्तिमाद्यां तु पूर्णमोक्षप्रदायिनीम् ।
प्रकाशयति तत्रस्थो जनैः सम्पूजितो रविः ॥ २० ॥
गणेशसन्निधाने तु मुद्गलाद्या महेश्वराः ।
महाभक्ताः प्रतिष्ठन्ते भक्तिं सम्बोधयन्ति ते ॥ २१ ॥
दक्षिणाङ्गे पुरस्तस्य मुद्गलो भक्तनायकैः ।
अव्याहतगतिः सोऽपि गुह्यधारक उच्यते ॥ २२ ॥
वामाङ्गे गणराजस्य पुरो योगिसमन्वितः ।
शुको गाणेशयोगं बोधयते सकलान् परम् ॥ २३ ॥
पूजनीयौ प्रयत्नेन गणेशपुरतः स्थितौ ।
मुद्गलश्च शुको देवाः प्रियौ विघ्नेश्वरस्य तौ ॥ २४ ॥
मण्डपा देवमुख्यानां कथिताश्च ततः परम् ।
विनायकाः स्थिता अष्टौ वक्रतुण्डादयः पराः ॥ २५ ॥
ततोऽष्टमातरः प्रोक्तास्ततोऽष्टौ भैरवा मताः ।
दिशां भागेषु देवेशाः पूजनीयाः प्रयत्नतः ॥ २६ ॥
ततो गणेशवामाङ्गे चतुर्थी सङ्कटा स्थिता ।
दक्षिणाङ्गे तथा शुक्ला तिष्ठति सेवनोत्सुका ॥ २७ ॥
पृष्ठभागे शमी तद्वत् पुरो मन्दार एव च ।
दूर्वा पुरः स्थिता एते सेवन्ते गणनायकम् ॥ २८ ॥
नग्नभैरवदेवश्च पूर्वभागे समाश्रितः ।
भक्तियुक्तः स्वभावेन सेवते गणनायकम् ॥ २९ ॥
तथा दक्षिणगो देवा नीलकण्ठः प्रतापवान् ।
सेवते विघ्नराजं स समागत्य निरन्तरम् ॥ ३० ॥
पश्चिमे कृत्तिवासास्तु भीमेशश्चोत्तरे तथा ।
समागत्य गणेशानं सेवेते भक्तिसंयुतौ ॥ ३१ ॥
ततो दिक्पालरूपाश्च सेवन्ते द्विरदाननम् ।
समागत्य सशस्त्रास्ते नित्यं भक्तिसमन्विताः ॥ ३२ ॥
एते मुख्यात्मकाः प्रोक्ता गर्भागारनिवासिनः ।
केचिद्वासकरास्तत्र केचित् सेवार्थमागताः ॥ ३३ ॥
अतः परं प्रवक्ष्यामि सदा गर्भगृहस्थितान् ।
विनायकान् महाभागान् सर्वसिद्धिप्रदायकान् ॥ ३४ ॥
विदर्भाद्वक्रतुण्डश्च बल्लाळः यल्लिगः तथा ।
हेरम्बश्च महेशाना विद्यापुरसमाश्रितः ॥ ३५ ॥
विघ्नेशः पारिनेरस्थो भालचन्द्रस्तथैव च ।
गङ्गातटस्थो ज्ञानेशो दत्तात्रेयेण संयुतः ॥ ३६ ॥
चिन्तामणिः स्थावरस्थोऽमराः सिद्धिविनायकः ।
सिद्धिक्षेत्रस्थ एवं तु महागणपतिस्तथा ॥ ३७ ॥
मणिपूःस्थो विघ्नहरो विजयस्थो विनायकः ।
कश्यपालयसंस्थश्च एलास्थो लक्षविघ्नपः ॥ ३८ ॥
बङ्गालस्थो गणेशानो विघ्नराजो महेश्वराः ।
जीर्णपूःस्थस्तथाऽऽशापूरको ह्यमलक्षेत्रगः ॥ ३९ ॥
प्रवालस्थो गणेशश्च राजवेश्मस्थ एव च ।
इत्यादि बहवस्तत्र भवन्ति गणपाः स्थिताः ॥ ४० ॥
मयूरेशं समाश्रित्य गर्भागारनिवासिनः ।
भवन्ति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥ ४१ ॥
[[४५]]
गर्भागारं गणेशस्य मूर्तिरूपं महत्परम् ।
ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥ ४२ ॥
शतकोटिगणेशानाः संस्थिता देवसत्तमाः ।
गर्भागारं समाश्रित्य निश्चितं गणपेन च ॥ ४३ ॥
नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः ।
गर्भागारे च ते सर्वे बुधैस्तेभ्योऽधिका मताः ॥ ४४ ॥
गर्भागारे गणेशानं स्वनाम्नाङ्कितमादरात् ।
स्थापयेत्तेन देवेशा जगद्ब्रह्म च स्थापिते ॥ ४५ ॥
केनाऽपि पुण्यं वक्तुं न शक्यते देवसत्तमाः ।
मयूरे गणनाथस्य स्थापने सम्भवं परम् ॥ ४६ ॥
जीर्णोद्धारं तु यः कुर्यात् स सम्पूर्णफलं लभेत् ।
मूर्तिखण्डं नरो दृष्ट्वा साङ्गं कुर्यात्तथा फलम् ॥ ४७ ॥
देवेशा ऊचुः ।
आश्चर्यं भासते वाक्यं त्वदीयं गुरुसत्तम ।
एते गणेश्वरास्तत्र कथं तिष्ठन्ति तद्वद ॥ ४८ ॥
मानं वद महाभाग सर्वेषां च यथातथम् ।
तेन संशयहीनाश्च भविष्यामो वयं प्रभो ॥ ४९ ॥
भ्रूशुण्ड्युवाच ।
परमाणुस्वरूपेण केचित्तत्र गणेश्वराः ।
केचित्तु त्रसरेणुभिः समाने देहधारकाः ॥ ५० ॥
अङ्गुष्ठपर्वमात्रेण देहेन शम्भुमुख्यकाः ।
देवाश्च मुनयः सर्वे तिष्ठन्त्यत्र न संशयः ॥ ५१ ॥
चतुर्हस्तप्रमाणेन मयूरेशश्च तिष्ठति ।
पीठादिसंयुतो देवाः सिद्धिबुद्धी द्विहस्तगे ॥ ५२ ॥
हस्तमात्रेण सर्वे ते पूर्वस्मिन् कथिता मया ।
तिष्ठन्ति गणराजस्य सदा सेवार्थलालसाः ॥ ५३ ॥
चतुर्धनुः प्रमाणेन धर्ममण्डप एव यः ।
तस्माद् द्विगुणितः प्रोक्तः समन्तादर्थमण्डपः ॥ ५४ ॥
तस्माद् द्विगुणितः प्रोक्तः काममण्डप एव च ।
पादहीनस्तथा प्रोक्तस्तस्मान् मुक्तेश्च मण्डपः ॥ ५५ ॥
गणेशाद्वै दशधनुर्द्वारे धर्मस्य मण्डपः ।
पूर्ववद् द्वारगाः सर्वे मण्डपाः स्वस्वमानतः ॥ ५६ ॥
मण्डपात् पूर्वदिग्देशे वक्रतुण्डः स्थितो मतः ।
बुधैर्दशधनुर्दूरे ज्ञातव्यं मानतोऽमराः ॥ ५७ ॥
दश पञ्चधनुर्दूरे संस्थस्तत्रैकदन्तकः ।
एवं पञ्च प्रवृद्ध्या तु धनुषां दिक्षु विघ्नपाः ॥ ५८ ॥
अष्टभ्यो गणनाथेभ्यो दूरे पञ्चधनुष्कतः ।
मातृका संस्थिताश्चैव वृद्ध्या क्षेत्रं यथाऽभवत् ॥ ५९ ॥
तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता ।
वृद्धिन्यूनत्वमानेन क्षेत्रसामान्यभावतः ॥ ६० ॥
तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता ।
पूर्वभागे तथाऽन्याश्च वृद्धिन्यूनत्वमानतः ॥ ६१ ॥
ततः पञ्चधनुष्के तु दूरे पूर्वदिशि स्थितः ।
नग्नभैरवनामा चान्ये तद्वत् क्षेत्रमानतः ॥ ६२ ॥
तेभ्यः पञ्चधनुष्के तु दिक्पालाः संस्थिता मताः ।
वृद्धिन्यूनत्वमानेन यथा क्षेत्रं प्रकीर्तितम् ॥ ६३ ॥
पूर्वेशानदिशोर्मध्ये प्रजापतिः स्थितः स्वयम् ।
नैर्ऋती पश्चिमाऽऽशागः शेषस्तत्र महेश्वराः ॥ ६४ ॥
तेभ्यः पञ्चधनुष्के तु वज्रादीनि स्थितानि च ।
क्षेत्रमानप्रमाणेन वृद्धिन्यूनेन निश्चितम् ॥ ६५ ॥
[[४६]]
एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः ।
गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥ ६६ ॥
अन्ये नाना गणेशाना गाणेशाः संस्थिताः परे ।
सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥ ६७ ॥
इदं शृणोति पठति यश्चित्रं भक्तिसंयुतः ।
स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥ ६८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः ॥