१७ मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

शिवाद्या ऊचुः ।
एतादृशा महाभागाः कथं कैलासमाययुः ।
अञ्जसा सेव्य योगीन्द्र गणेशं वद कारणम् ॥ १ ॥

भ्रूशुण्ड्युवाच ।
सकामा गणराजस्य भक्ता ये देवसत्तमाः ।
अन्तरे विषयेष्वेते संसक्ताः सम्भवन्ति च ॥ २ ॥

न तेषां गणराजस्य स्वानन्दे गतिरुच्यते ।
निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् ॥ ३ ॥

अतः कैलासगाः सर्वे गणेशं पूज्य योगिनः ।
बभूवुस्तत्र विघ्नेशमभजन्नान्यचेतसः ॥ ४ ॥

तदा कैलासनाथे ते स्वानन्दं देवसत्तमाः ।
गमिष्यन्ति न सन्देहः पुनरावृत्तिवर्जितम् ॥ ५ ॥

भुक्तिमुक्तिप्रिया ये वै कैलासात् सम्पतन्ति चेत् ।
ते पुनर्विघ्नराजं तं भजन्ते नान्यचेतसः ॥ ६ ॥

कैलासे गणपं गत्वा भोगयुक्ता भवन्ति ये ।
ते पुनर्मृत्युलोकेषु पतन्त्यत्र न संशयः ॥ ७ ॥

ब्रह्मभूता भवन्त्यन्ते स्वानन्दस्था महेश्वराः ।
गणेशेनैव रचितं क्रीडार्थं तत्तथाऽभवत् ॥ ८ ॥

अधुना क्षेत्रबाह्या वै देवभूमिः प्रकीर्तिता ।
तस्या माहात्म्यमुख्यं यत् कथयामि समासतः ॥ ९ ॥

दण्डकारण्यदेशस्थः शूद्रः कश्चिद्बभूव ह ।
दारिद्र्यदोषसंयुक्तो बभ्राम वसुधातले ॥ १० ॥

क्षुधया पीडितोऽत्यन्तं ज्वरयुक्तो बभूव ह ।
स पूर्वद्वारबाह्यायां देवभूम्यां ममार ह ॥ ११ ॥

सङ्गृह्य वैष्णवा देवा विमानेन गणा नरम् ।
विकुण्ठे स्थापयामासुः शूद्रं क्षेत्रप्रभावतः ॥ १२ ॥

पूर्वद्वारात् समारभ्य योजनं वैष्णवं मतम् ।
तत्र सिद्धिं ययुः केचिद्वक्तुं शक्यं न वै भवेत् ॥ १३ ॥

अन्यच्च देवदेवशाः शृणुध्वं दक्षिणे भवम् ।
चरित्रं शिवभावाख्यं द्वारात् सङ्क्षेपतः परम् ॥ १४ ॥

ब्राह्मणस्तत्र सम्भूतो जगाम वृत्तिकारणात् ।
तस्मात् समागतः सोऽपि श्रमयुक्तोऽभवत् परम् ॥ १५ ॥

ममाराह्नि द्वितीये स सद्यः कैलासगोऽभवत् ।
माहात्म्याद्देवभूम्यास्तु शैव्याः क्षेत्रान् महेश्वराः ॥ १६ ॥

अथ पश्चिमभागात्तु द्वाराच्छाक्तं मतं परम् ।
क्षेत्रं योजनमात्रं तु तस्य वक्ष्यामि चेष्टितम् ॥ १७ ॥

चाण्डालः कोऽपि देवेशा विदर्भादागतोऽभवत् ।
कार्यार्थं ज्वरयुक्तश्च बभूवाऽतीव पीडितः ॥ १८ ॥

ममार पञ्चमे देवा दिवसे दैवगौरवात् ।
शक्तिलोकं जगामाऽसौ माहात्म्याच्छाक्तसम्भवात् ॥ १९ ॥

अथोत्तरभवं चित्रं चरित्रं शृणुत प्रियाः ।
सौरलोकप्रदं पूर्णं क्षेत्रादुत्तरभागतः ॥ २० ॥

भिल्लः कश्चिन् महाभागाः कदा कार्यार्थमाययौ ।
दष्टः सर्पेण तत्रैव ममार भाग्यगौरवात् ॥ २१ ॥

सौरं लोकं समाश्रित्य मुमुदे सोऽपि देवपाः ।
मयूरक्षेत्रद्वारात्तूत्तरे सौरप्रभावतः ॥ २२ ॥

अनेकनार्य एवं च नरा वर्णाश्रमस्थिताः ।
भ्रष्टाश्चाऽपि महेशाना ययुः सिद्धिं विशेषतः ॥ २३ ॥

तेषां चरित्रकं कैस्तु वक्तुमत्र न शक्यते ।
सङ्क्षेपेण मया किञ्चित् कथितं पूर्वसम्भवम् ॥ २४ ॥

फलं मयूरक्षेत्रेऽपि मरणेनाऽधुना लभेत् ।
तस्य माहात्म्यमुख्यं यत् कथयामि समासतः ॥ २५ ॥

[[४२]]

चाण्डालः कोऽपि पापात्मा परस्त्रीलालसोऽभवत् ।
आन्ध्रे वनं समाश्रित्य जघ्ने लोकान् समागतान् ॥ २६ ॥

नानापापयुतो दुष्टो वर्णने न प्रशक्यते ।
ग्रन्थबाहुल्यभावाद्वै परदोषप्रकीर्तनात् ॥ २७ ॥

दुष्टो जगाम मायूरे सुहृज्जनयुतः कदा ।
भगिनीगृहसंस्थे स भागिनेयविवाहगः ॥ २८ ॥

पापानि तस्य दुष्टस्य बहिः क्षेत्रात् स्थितानि च ।
पुनः प्रतीक्षयन्ते तं क्रोधयुक्तानि देवपाः ॥ २९ ॥

नरं मयूरे पापानि यत्र कुत्र कृतानि वै ।
तं मुक्त्वा बहिरेवाऽपि प्रवेशात् संस्थितानि तु ॥ ३० ॥

पुनर्यदि समायातमनु तं पापकानि तु ।
गच्छन्ति शुद्धरूपस्थं यत्र सोऽपि गमिष्यति ॥ ३१ ॥

कदाचित्तेन किञ्चिद्वै यदि पापं कृतं भवेत् ।
ततः पुनः प्रविश्याऽपि भुञ्जते तानि तं नरम् ॥ ३२ ॥

अतो मयूरक्षेत्रं वै न त्याज्यं देहधारिणा ।
पापप्रवेशहीनत्वात् सदा सेव्यं महेश्वराः ॥ ३३ ॥

यदा नरः समुद्युक्तो भवति स्वगृहात् कदा ।
मयूरेशं गमिष्यामि यात्रार्थं नात्र संशयः ॥ ३४ ॥

तदा पापानि तस्यैव विचारं कुर्वते परम् ।
महाभयकरो विघ्नः प्राप्तश्चास्माकमुल्बणः ॥ ३५ ॥

मयूरे यदि देही तु गमिष्यति तदा वयम् ।
स्थास्यामः कुत्र पापानि चरितुं विघ्नमुत्तमम् ॥ ३६ ॥

ततः पापानि सर्वाणि तं नरं यत्नभावतः ।
पीडयामासुरत्यन्तं येन व्यग्रो नरो भवेत् ॥ ३७ ॥

द्रव्यहानिं तथा पुत्रं पुरं पशुगृहादिकम् ।
पापानि कुर्वते नाशसंयुक्तं देवसत्तमाः ॥ ३८ ॥

तेन सम्पीडितो धत्ते यात्रार्थं न मनोऽपि सः ।
अतः सर्वमनादृत्य मयूरेशं समाश्रयेत् ॥ ३९ ॥

कामं नानाविधान्येव पापानि कुरुतां सदा ।
अन्ते मयूरकं गच्छेत् किं करिष्यन्ति तानि तम् ॥ ४० ॥

येन केन विचारेण मयूरे देवसत्तमाः ।
वासः सदा प्रकर्तव्यो ब्रह्मभूयस्य कारणात् ॥ ४१ ॥

अन्यत्र विविधैर्युक्तो भोगै राज्यादिभिस्तथा ।
मयूरे श्रेष्ठकस्तस्माद्दारिद्र्यादियुतो भवेत् ॥ ४२ ॥

मयूरक्षेत्रे मरणे स्वानन्दं लभते नरः ।
अन्यत्र भोगयुक्तश्चेज्जन्ममृत्युयुतो भवेत् ॥ ४३ ॥

विषयासक्तचित्तश्चेन् मयूरेशं तथापि हि ।
समाश्रयेद् दुराचारो यातनां लभते पराम् ॥ ४४ ॥

अधुना शृणुत प्राज्ञा अन्त्यजस्य तु चेष्टितम् ।
प्रकृतं कथयिष्यामि बहुना किं विचक्षणाः ॥ ४५ ॥

चाण्डालो भगिनीगेहे मयूरे संस्थितोऽभवत् ।
ममार तत्र सर्पेण स दष्टो देवसत्तमाः ॥ ४६ ॥

गाणपत्या विमानं तु समानीय तदर्थतः ।
सङ्गृह्य ब्रह्मभूतं तं चक्रुः क्षेत्रमृतेः फलात् ॥ ४७ ॥

मयूरे न चकाराऽसौ चाण्डालः पापमल्पकम् ।
तेन सद्यो बभूवैव ब्रह्मस्थो नीचयोनिजः ॥ ४८ ॥

मरणे ब्रह्मभूतश्च भवत्यत्र न संशयः ।
मयूरे तस्य किं देवाः कथयामि चरित्रकम् ॥ ४९ ॥

एवं नाना जनाद्याश्च पशुपक्ष्यादि सम्भवाः ।
मयूरे ब्रह्मभूताश्च बभूवुर्मरणात् पुरा ॥ ५० ॥

अथो देवेशमुख्याश्च शृणुध्वं त्वेकचेतसः ।
चित्रं चरित्रकं वक्ष्ये मयूरे सम्भवं परम् ॥ ५१ ॥

[[४३]]

वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् ।
भारेण संयुतं चक्रुरन्नाद्यैस्तं महेश्वराः ॥ ५२ ॥

ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् ।
गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥ ५३ ॥

स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः ।
पशुजातिज एवं तु नराणां तत्र का कथा ॥ ५४ ॥

एवं क्षेत्रप्रभावेण जना नाना महेश्वराः ।
सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते ॥ ५५ ॥

इदं क्षेत्रभवं चित्रं चरितं शृणुयान्नरः ।
पठेद्यः श्रावयेद्वाऽपि सर्वार्थं प्रलभेत् सदा ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥