१६ गर्भागारयात्रामाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

भ्रूशुण्ड्युवाच ।
गर्भालयस्य यात्राया माहात्म्यं कथयाम्यहम् ।
शृणुध्वं भाग्यसंयुक्ता देवेशास्तत् समासतः ॥ १ ॥

मूर्खः कोऽपि पुरा विप्रो ?बङ्गदेशे बभूव ह ।
विष्णुदत्त इति ख्यातः पशुतुल्यः स्वभावतः ॥ २ ॥

तं दृष्ट्वा पितरौ तस्य काश्यपौ दुःखसंयुतौ ।
कश्यपं जग्मतुस्तेन श्रुतो वृत्तान्त उल्बणः ॥ ३ ॥

गर्भागारस्य माहात्म्यं कथयामास कश्यपः ।
पूर्वद्वारभवं तौ तं प्रणम्य ययतुर्गृहम् ॥ ४ ॥

पुत्रं गृह्य मयूरेशं जग्मतुर्भक्तिसंयुतौ ।
यात्रां पुत्रेण संयुक्तौ चक्रतुः परमादरात् ॥ ५ ॥

गर्भालयस्य पूर्वस्थद्वारगां बुद्धिमालभत् ।
सम्पूज्य स महाविद्यां ज्ञानयुक्तो बभूव ह ॥ ६ ॥

ततो हर्षसमायुक्तौ पितरौ तं प्रगृह्य च ।
स्वाश्रमं जग्मतुर्देवा विस्मितौ पुत्रचेष्टया ॥ ७ ॥

ततो बुद्धियुतं देवं गणेशमभजन् परम् ।
अन्ते कैलाससंस्थं तं गणपं जग्मुरादरात् ॥ ८ ॥

तत्रैव विविधान् भोगान् पुनर्भुक्त्वा महेश्वराः ।
मयूरे ब्राह्मणाः क्षेत्रे बभूवुः शीलसंयुताः ॥ ९ ॥

तत्र विघ्नेश्वरं नित्यमभजन् भक्तिभावतः ।
अन्ते स्वानन्दगा भूत्वा ब्रह्मभूता बभूविरे ॥ १० ॥

एवं नाना जना देवाः सिद्धिं प्राप्ता मयूरके ।
गर्भागारस्य पूर्वद्वारस्थयात्राविधानतः ॥ ११ ॥

तत्र वक्तुं महादेवाः शक्यते न कदाचन ।
अतः सङ्क्षेपतः प्रोक्तं पूर्वद्वारयशोऽमलम् ॥ १२ ॥

अधुना दक्षिणद्वारयात्रामाहात्म्यमुत्तमम् ।
गर्भागारस्य वक्ष्यामि शृणुध्वं चैकचेतसः ॥ १३ ॥

काश्मीरे शूद्रजात्यां कः पापकर्मा बभूव च ।
देवालयं समालोक्याभजद्देवान् सुदारुणः ॥ १४ ॥

कदा वैश्यं समालोक्य द्रव्ययुक्तं प्रलोभतः ।
तमनुप्रययौ दुष्टः प्रहन्तुं खड्गधारकः ॥ १५ ॥

वैश्योऽपि यत्नमास्थाय सार्थयुक्तो बभूव ह ।
तथापि पापकर्मा तं न मुमोच कदाचन ॥ १६ ॥

वैश्यः समागतः सार्थैर्जनैः क्षेत्रे मयूरके ।
शूद्रस्तत्र समायातो जिघांसुर्भाग्यगौरवात् ॥ १७ ॥

तत्र यात्रां चकाराऽसौ वैश्यो भावसमन्वितः ।
शूद्रः स्वयं स्थितश्चैव यात्राहीनः खलात्मवान् ॥ १८ ॥

द्वितीये दिवसे सर्वे दक्षिणद्वारगां पराम् ।
यात्रां चक्रुस्ततः शूद्रस्तेषामनुययौ खलः ॥ १९ ॥

गर्भागारस्थितान् पूज्य दक्षिणद्वारपान् जनाः ।
प्रमोदाद्यास्ततः सर्वे पुरो जग्मुर्महेश्वराः ॥ २० ॥

शूद्रस्तत्र समासीनः पुनः स्वस्थानमाययौ ।
गणेशं पूज्य पापात्मा पुण्यवान् स बभूव ह ॥ २१ ॥

विचारमकरोच्चित्ते मया पापानि नित्यशः ।
अहो कृतानि तान्येव पीडयिष्यन्ति मां किल ॥ २२ ॥

अहो देवालये देवा मया सङ्खण्डिता मुधा ।
जनाः सम्पूजयन्तस्तान् किं कृतं पापरूपिणा ॥ २३ ॥

एवं विचार्य स्वस्थाने त्यक्त्वा वैश्यं जगाम ह ।
काश्मीरममरान् सर्वानभजद्भक्तिसंयुतः ॥ २४ ॥

अन्ते जगाम कैलासे गणेशं भक्तिसंयुतः ।
अभजत् स पुनर्देवान् मयूरे वैश्यजोऽभवत् ॥ २५ ॥

[[३९]]

गणेश्वरं तत्र देवं क्षेत्रसन्न्यासमार्गतः ।
अभजच्चान्तकाले स तद्देहे लीनतां ययौ ॥ २६ ॥

नानाविधा जना एवं ययुः सिद्धिं सुरेश्वराः ।
तत्र वक्तुं न शक्यं तु मया भवति नित्यशः ॥ २७ ॥

अतः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितम् ।
माहात्म्यं यत् पुरा जातं गर्भागारस्य सौख्यदम् ॥ २८ ॥

विदर्भे क्षत्रियः कश्चिद्राज्यहीनो बभूव ह ।
सुदासः सर्वशास्त्रज्ञः क्षत्रियो पीडितो भृशम् ॥ २९ ॥

वनं गत्वा स राजर्षिः शोकयुक्तो बभूव ह ।
तत्राऽऽजगाम देवर्षिर्नारदः परमार्थवित् ॥ ३० ॥

राज्ञा सम्पूजितो योगी हर्षयंश्च जगाद तम् ।
गच्छ क्षेत्रे मयूरे त्वं ततः सिद्धिमवाप्स्यसि ॥ ३१ ॥

गर्भागारस्य राजेन्द्र पश्चिमद्वारसंश्रिताम् ।
सिन्द्धिं पूज्य महाराजो भविष्यसि यथा पुरा ॥ ३२ ॥

एवमुक्त्वा नारदश्च विघ्नेशं संस्मरन् ययौ ।
राजा तथा चकाराऽसौ भक्तियुक्तेन चेतसा ॥ ३३ ॥

गर्भागारस्य यात्रां स चकार विधिसंयुतः ।
पश्चिमद्वारगामेकां ततस्तत्रैव संस्थितः ॥ ३४ ॥

कौडिन्यनगरे राजा सुबाहुः पीडितोऽभवत् ।
शूलेन दारुणेनैव मृत्युरूपेण देवपाः ॥ ३५ ॥

रात्रौ स्वप्ने महाभीमं पुरुषं स ददर्श ह ।
तेन सन्ताडितोऽत्यन्तं मुमूर्छ भयसंयुतः ॥ ३६ ॥

पुनः सञ्ज्ञायुतं भूपमुवाच पुरुषः परः ।
राज्यं देहि सुदासाय विदर्भदेशसम्भवम् ॥ ३७ ॥

मरिष्यसि न चेद्राजन् सकुलो नात्र संशयः ।
मयूरेशं समाश्रित्य स्थितं गच्छाधुना खल ॥ ३८ ॥

ततः पुरुषरूपं तं न ददर्श महीपतिः ।
शूलहीनो बभूवाऽसौ तं जगाम सुदासकम् ॥ ३९ ॥

विदर्भदेशगं राज्यं तं प्रणम्य ददौ परम् ।
स्वराज्यं स जगामैव वैरमुत्सृज्य देवपाः ॥ ४० ॥

राजा सिद्धियुतं नित्यमभजद्गणनायकम् ।
अन्ते कैलासगः सोऽपि बभूवे कामनायुतः ॥ ४१ ॥

पुनः स ब्राह्मणो जातो मयूरे वर्मसंयुतः ।
गणेश्वरं तत्र नित्यमभजद्भक्तिसंयुतः ॥ ४२ ॥

अन्ते जगाम स्वानन्दे गणेशं गणपप्रियः ।
ब्रह्मभूतोऽभवत्तत्र क्षेत्रवासप्रभावतः ॥ ४३ ॥

एवं नाना जनाः सिद्धिं पश्चिमद्वारतो ययुः ।
यात्रामात्रेण गर्भागारस्य कति वदाम्यहम् ॥ ४४ ॥

अथोत्तरस्थितं द्वारं गर्भागारस्य मानदाः ।
चरित्रं तस्य वक्ष्यामि श्रवणात् सर्वसौख्यदम् ॥ ४५ ॥

पाञ्चालदेशगः कश्चिद्वैश्यो विषयलम्पटः ।
न बुबोध गतं कालं द्रव्ययुक्तः स्वभावतः ॥ ४६ ॥

स्त्रीमांसमदिरासक्तो बभूवे नित्यमादरात् ।
एकदा तत्र देशे तु परचक्राद्भयं परम् ॥ ४७ ॥

त्यक्त्वा स्वदेशं वैश्यश्च पपाल सकुटुम्बकः ।
आययौ दण्डकारण्यं निवासार्थं भयातुरः ॥ ४८ ॥

तत्र मार्गस्थभावेन क्षेत्रं प्राप्तं मयूरकम् ।
तद्दिने पश्चिमद्वारयात्रां चक्रुर्जनाः पराम् ॥ ४९ ॥

द्वितीयेऽह्नि स वैश्यस्तु लज्जया संयुतोऽभवत् ।
उत्तरद्वारयात्रार्थमुद्यतोऽभूज्जनैः स्वयम् ॥ ५० ॥

गणेशं पूजयित्वा स गर्भागारं जगाम ह ।
पुपूज तत्र वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥ ५१ ॥

[[४०]]

ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ ।
पूजयित्वा जगामाऽसौ यथेष्टं विषयप्रियः ॥ ५२ ॥

ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह ।
तया युक्तो महेशाना विचारमकरोद् हृदि ॥ ५३ ॥

मया विषययुक्तेन कृतं कर्म भयावहम् ।
का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ ५४ ॥

अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते ।
विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥ ५५ ॥

योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः ।
योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥ ५६ ॥

योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः ।
अभजन्नित्यमानन्दान्निन्दयन् विषयान् सदा ॥ ५७ ॥

अन्ते जगाम कैलासे गणेशे कामनायुतः ।
तत्र भुक्त्वा महाभोगान् पुनः पपात भूतलम् ॥ ५८ ॥

मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुतः ।
क्षेत्रसन्न्यासभावेन विघ्नेशमभजत् सदा ॥ ५९ ॥

अन्ते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह ।
पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥ ६० ॥

एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् ।
तत्रैवं कति वो ब्रूयां सङ्ख्यातुं न प्रशक्यते ॥ ६१ ॥

अतः परं प्रवक्ष्यामि सम्पूर्णां तु महेश्वराः ।
गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥ ६२ ॥

आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह ।
पितरौ सम्मृतौ तस्याऽनाथो बभ्राम भूतले ॥ ६३ ॥

विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः ।
भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥ ६४ ॥

तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् ।
तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥ ६६ ॥

संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः ।
स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥ ६६ ॥

पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह ।
तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥ ६५ ॥

प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् ।
पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥ ६८ ॥

योगिनीस्तत आलोक्य पुण्यशीलो बभूव ह ।
एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥ ६९ ॥

ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह ।
तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥ ७० ॥

विवाहं कारयामासुः सुहृदस्तस्य धीमतः ।
स गणेशं विचिन्त्यैवाऽभजद्गर्भाश्रितं तदा ॥ ७१ ॥

अन्ते कैलासगो भूत्वा गणेशं तत्र चाभजत् ।
भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥ ७२ ॥

गणेश्वरं तत्र देवा अभजन् नान्यचेतसा ।
अन्ते स्वानन्दगः सोऽपि ब्रह्मभूतो बभूव ह ॥ ७३ ॥

मयूरे गर्भयात्रायां निरताः सकृदप्यहो ।
ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥ ७४ ॥

गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् ।
पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥ ७५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥

[[४१]]