॥ श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच ।
देवालयस्य द्वाराणि चत्वारि कथितानि च ।
तेषां चरित्रकं देवाः कथयामि सुसेविनाम् ॥ १ ॥
बभूव शूद्रजातिस्थो गुर्जरे मानवः खलः ।
नाम्ना शम्भुरिति ख्यातो द्रव्ययुक्तः सुहृत्प्रियः ॥ २ ॥
स सायाह्ने जगामैव किञ्चित् कार्यार्थमादरात् ।
ग्रामाद्बहिश्च तत्राऽपि प्रेतैः संवेष्टितोऽभवत् ॥ ३ ॥
दृष्ट्वा प्रेतान् महोग्रान् स भयभीतो बभूव ह ।
ततस्तं विविशुः सर्वे प्रेताः परमदारुणाः ॥ ४ ॥
तत्रैव पतितः शूद्रस्तदर्थं सुहृदस्ततः ।
समाययुस्तं सङ्गृह्य स्वगृहं प्रययुः खलम् ॥ ५ ॥
ततः पिशाचतुल्यः स विचचार महीतलम् ।
तदर्थं सुहृदः सर्वेऽभवन् यत्नपरायणाः ॥ ६ ॥
तथाऽपि तं महाप्रेता मुमुचुर्न कदाचन ।
तत्तत् क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः ॥ ७ ॥
तदपि प्रेतराजास्तं मुमुचुर्न प्रतापतः ।
सुहृदस्तेन संयुक्ता महत् क्षेत्रं समाययुः ॥ ८ ॥
मयूरेशं समभ्यर्च्य शम्भुं गृह्य सुहृज्जनाः ।
जग्मुस्ते भैरवं देवं नग्नरूपधरं परम् ॥ ९ ॥
दर्शनेन महेशाना भैरवस्य महात्मनः ।
प्रेतास्त्यक्त्वा ययुः सर्वे शम्भुं भीता न संशयः ॥ १० ॥
स्वस्थप्रकृतिगं दृष्ट्वा विस्मिताः सुहृदोऽखिलाः ।
पुनर्विघ्नेशमापूज्य ययुः स्वनगरं ततः ॥ ११ ॥
नग्नभैरवदेवस्य दर्शनेन महेश्वराः ।
पिशाचप्रेतदोषेभ्यो मुक्तः सञ्जायते नरः ॥ १२ ॥
ग्रहभूतादिजा नाना पीडादोषा भवन्ति न ।
कदाचिदपि देवेशा नग्नभैरवदर्शनात् ॥ १३ ॥
नाना जना महाक्षेत्रे तं प्रणम्य विधानतः ।
यात्रामात्रेण दोषैश्च बभूवुर्वर्जिताः पुरा ॥ १४ ॥
न वक्तुं शक्यते तत्र मया वर्षशतैरपि ।
सङ्क्षेपेण ततो देवाः कथितं तस्य चेष्टितम् ॥ १५ ॥
अथ दक्षिणद्वारस्य चरित्रं कथयामि वः ।
तत्र देवेश्वरः साक्षान्नीलकण्ठः स्थितोऽभवत् ॥ १६ ॥
गणेशानं समाराध्य पपौ विषं समुद्रजम् ।
महोग्रं शङ्करो देवः सर्वभस्मकरं परम् ॥ १७ ॥
यस्य स्पर्शेन विष्णुश्च श्यामरूपो बभूव ह ।
विषयुक्तः पपाताऽसौ गर्वयुक्तप्रभावतः ॥ १८ ॥
गणेशस्मरणं कृत्वा विषहीनो बभूव ह ।
महाविष्णुः शिवेनैवोपदिष्टः परवीरहा ॥ १९ ॥
गणेशकृपया तत्तु विषं पीतं महात्मना ।
शङ्करेण ततो दाहसंयुक्तः स बभूव ह ॥ २० ॥
मयूरेशेति संस्मृत्य दाहहीनो बभूव ह ।
सकृच्छीतलदेहः स मयूरेशं समाययौ ॥ २१ ॥
तत्रैव संस्थितः सोऽपि नीलकण्ठो महेश्वरः ।
सेवार्थं गणराजस्य धाराधीशो बभूव ह ॥ २२ ॥
तं प्रणम्य जनाः सर्वे विषहीना भवन्ति ते ।
इतिहासं वदाम्यत्र शृणुध्वं परमेश्वराः ॥ २३ ॥
दण्डकारण्यदेशस्थः कश्चित्तु क्षत्रियोऽभवत् ।
सुलोचन इति ख्यातो नानाशास्त्रविशारदः ॥ २४ ॥
तेन भूपेन राजानो जिताः शस्त्रबलेन वै ।
निस्तेजसः पुनस्तं ते शरणं जग्मुरादृताः ॥ २५ ॥
तमुग्रदण्डकर्तारं ज्ञात्वा सर्वे नृपास्ततः ।
विषबाधां ददुस्तस्मै किञ्चिच्छद्मबलेन वै ॥ २६ ॥
स्वयं व्याकुलचित्तः सन् ज्ञात्वा विषभवां व्यथाम् ।
स जगाम मयूरेशं प्रधानैस्तत्क्षणान्नृपः ॥ २७ ॥
[[३५]]
उद्देशेन गणेशस्य महद्विषं महेश्वराः ।
स्तम्भितं स ततो राजा क्षेत्रे समागतोऽभवत् ॥ २८ ॥
तावद्विषेण भूपालः पीडितोऽतितरां किल ।
देहचेष्टाविहीनः स बभूवे देवसन्निधौ ॥ २९ ॥
प्रधानास्तं प्रगृह्यैव यात्रां चक्रुर्यथाविधि ।
देवालयस्य द्वारस्थां दक्षिणे नीलकण्ठजाम् ॥ ३० ॥
नीलकण्ठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके ।
राजा वन्द्य महेशानं विषहीनो बभूव ह ॥ ३१ ॥
ततो विघ्नेश्वरं राजा पूज्य स्वस्थानगोऽभवत् ।
सुलोचनः शशासैव धरां सन्दण्ड्य दुर्जनान् ॥ ३२ ॥
एवं यात्राविधानेन विषहीनो नराधिपः ।
नीलकण्ठसमायुक्तं गणेशमभजत् परम् ॥ ३३ ॥
अन्ते कैलासगो राजा बुभुजे विविधं सुखम् ।
पुनश्च ब्राह्मणो जातः क्षेत्रे मायूरसञ्ज्ञिते ॥ ३४ ॥
तत्रैव गणराजं स सदा भक्तिपरायणः ।
अभजद्धर्मशीलश्च नाम्ना ख्यातो महेश्वराः ॥ ३५ ॥
एवमन्ते जगामाऽसौ स्वानन्दे गणपं परम् ।
ब्राह्मणो ब्रह्मभूतो वै बभूव परमद्युतिः ॥ ३६ ॥
एवं नाना जनास्तत्र नीलकण्ठं प्रदृश्य वै ।
सिद्धिं प्राप्ता महेशाना मया वक्तुं न शक्यते ॥ ३७ ॥
अधुना पश्चिमद्वारसंस्थं माहात्म्यमुत्तमम् ।
कथयामि महेशाना देवागारस्य सिद्धिदम् ॥ ३८ ॥
महिषासुरपुत्रश्च बभूव ह गजासुरः ।
तेन त्रैलोक्यगं सर्वं पीडितं सचराचरम् ॥ ३९ ॥
अजेयः सर्वभूतानां महाबलयुतो सुरः ।
कर्मखण्डनभावेनापीडयत् सकलामरान् ॥ ४० ॥
ततश्च शोकसंयुक्तो शङ्करश्च मयूरगः ।
पूजयामास विघ्नेशं ततो दैत्यं जघान ह ॥ ४१ ॥
ततः क्षेत्रं समाश्रित्य संस्थितः पार्वतीपतिः ।
गणेशेन कृतः सोऽपि द्वाराधीशो महेश्वरः ॥ ४२ ॥
कृत्तिवासाः स्वयं शम्भुर्देवागारस्य मानदः ।
पश्चिमद्वारसंस्थोऽभूद्भजतां भावपूरकः ॥ ४३ ॥
अत्रेतिहासं मुख्यं यत् सङ्क्षेपेण वदाम्यहम् ।
शृणुध्वं सर्वपापघ्नं गणेशे भक्तिदायकम् ॥ ४४ ॥
आन्ध्रदेशे द्विजः कश्चित् पापकर्मपरायणः ।
आसुरं धर्ममाश्रित्य दुर्विनीतो बभूव ह ॥ ४५ ॥
तदर्थं सुहृदः सर्वे नाना यत्नपरायणाः ।
हृदिस्थं राक्षसं वारयितुं शेकुर्न ते कदा ॥ ४६ ॥
तदाऽतिशोकसंयुक्ता ययुः कञ्चित्तपस्विनम् ।
तेनैव कथितः सर्ववृत्तान्तो द्विजसम्भवः ॥ ४७ ॥
तपस्वी उवाच ।
मलं त्यक्त्वा द्विजश्चायमकरोन्न कदा पुरा ।
शौचभ्रमयुतस्तत्र राक्षसः पिङ्गलो ययौ ॥ ४८ ॥
अपवित्रं द्विजं दृष्ट्वा ससार हृदि राक्षसः ।
करोति कर्म तेनाऽयमासुरं नित्यमादरात् ॥ ४९ ॥
अतः क्षेत्रे मयूरे वै कृत्तिवासोऽधरङ्गतः ।
द्वारयात्राविधानेन पूजयध्वमनेन तु ॥ ५० ॥
तेनायं राक्षसो मुक्तो भविष्यति न संशयः ।
नान्यथाऽयुतवर्षैश्च समीचीनः कदाचन ॥ ५१ ॥
ततस्ते हर्षिताः सर्वे तं गृह्य क्षेत्रमाययुः ।
देवागारस्य यात्रां ते चक्रुः पश्चिमद्वारगाम् ॥ ५२ ॥
कृत्तिवाससमभ्यर्च्य द्विजः सद्यश्च देवपाः ।
रक्षोहीनो बभूवाऽपि स्वधर्मसहितोऽभवत् ॥ ५३ ॥
[[३६]]
ततः स्वगृहमागत्य गणेशमभजद् द्विजः ।
कृत्तिवासः समायुक्तमन्ते कैलासगोऽभवत् ॥ ५४ ॥
पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः ।
क्षेत्रसन्न्यासभावेनाऽभजत्तं नित्यमादरात् ॥ ५५ ॥
अन्ते गणपतौ सोऽपि ब्रह्मभूतो बभूव ह ।
एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया ॥ ५६ ॥
नाना जना महेशानाः पश्चिमद्वारकारिणः ।
रक्षोभावविहीनाश्च बभूवुर्नाऽत्र संशयः ॥ ५७ ॥
अतः परं प्रवक्ष्यामि देवागारस्य देवपाः ।
उत्तरद्वारसंयुक्तं चरित्रं सर्वकामदम् ॥ ५८ ॥
राक्षस्यां कुम्भकर्णात्तु बभूवे राक्षसाधिपः ।
भीमः सर्वत्र शैवस्य मार्गध्वंसनकारकः ॥ ५९ ॥
तेन शैवा धृताः केचित् पुरा केचिच्च् संहताः ।
ततः कदा द्विजः कोऽपि महापाशुपतो धृतः ॥ ६० ॥
स उपोषणसंयुक्तः शिवं ध्यात्वा समास्थितः ।
कारागारे राक्षसस्य वधार्थं ह्युद्यतोऽभवत् ॥ ६१ ॥
हृदिस्थं शङ्करं सोऽपि तं पुपूज विशेषतः ॥ ६२ ॥
शङ्करः क्षुभितोऽत्यन्तं भीमं हन्तुं समाययौ ।
युद्धं कृत्वा स भीमेन ताडितस्तु पपाल ह ॥ ६३ ॥
समागत्य मयूरेशं प्रार्थयामास शङ्करः ।
तं पूज्य प्रययौ तत्र जघान भीममुल्बणम् ॥ ६४ ॥
स एव भीमनाथस्तु स्थापितोऽभूद् द्विजैः पुरा ।
शैवास्तं हर्षसंयुक्ताः पुपूजुर्भक्तिभावतः ॥ ६५ ॥
ततः स भीमनाथस्तु मयूरे भक्तिकारणात् ।
समागतो मयूरेशं पूजयामास नित्यदा ॥ ६६ ॥
द्वाराधीशं चकारैव गणेशस्तं महेश्वराः ।
देवागारस्य देवेशमुत्तरे भीमशङ्करम् ॥ ६७ ॥
पूजयित्वाऽमरेशानं सत्तायुक्तो नरोऽभवत् ।
अत्रेतिहासमाद्यं यत् कथयामि समासतः ॥ ६८ ॥
दण्डकारण्यदेशस्थो राजा परमधार्मिकः ।
उग्रसेन इति ख्यातः सर्वविद्याविशारदः ॥ ६९ ॥
बलहीनो महीपालो बभूवे वायुदूषितः ।
जडवच्चेष्टया हीनः संस्थितो दुःखसंयुतः ॥ ७० ॥
नानोपायांश्चकाराऽसौ शान्तये वैद्यनायकैः ।
तथाऽपि रोगनिर्मुक्तो न बभूव नराधिपः ॥ ७१ ॥
ततोऽकस्मान् महादैत्यः सुखभोक्ता समागतः ।
बलात् सर्वं नरेन्द्रस्य राज्यं जग्राह तत्क्षणात् ॥ ७२ ॥
ततोऽतिभयसंयुक्ताः प्रधानास्तं प्रगृह्य वै ।
मयूरेशं समायाताः पप्रच्छुर्जयदायकम् ॥ ७३ ॥
गाणेशैः क्षेत्रसंस्थैश्च कथितं द्वारसम्भवम् ।
माहात्म्यं तच्च ते श्रुत्वा हर्षयुक्ता बभूविरे ॥ ७४ ॥
नृपं गृह्य प्रधानास्ते देवागारस्य चोत्तरे ।
द्वारयात्रां विधानेन चक्रुः परमभक्तितः ॥ ७५ ॥
ततो रोगविहीनस्तु राजा सत्तायुतोऽभवत् ।
गणेशं पूज्य सैन्येन युतः स्वनगरं ययौ ॥ ७६ ॥
देवं गणेशं स्मृत्वा युतं भीमेशेन भूमिपः ।
युयुधे तेन दैत्येन शस्त्रास्त्रैर्विविधैर्बलात् ॥ ७७ ॥
ततो दैत्यः समाक्रुद्धो मल्लयुद्धाय तं ययौ ।
राजा तं योधयामास स्मृत्वा विघ्नेश्वरं हृदि ॥ ७८ ॥
दैवी सत्ता समायाता राज्ञो देहे तयामरः ।
क्षीणशक्तिः पपालैव सुखभोक्ता महाबलः ॥ ७९ ॥
[[३७]]
चकार नगरं गत्वा स ततो राज्यमुत्तमम् ।
भीमेशसंयुतं नित्यमभजद्गणनायकम् ॥ ८० ॥
अन्ते कैलासगो भूत्वा बुभुजे भोगमुत्तमम् ।
पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूव ह ॥ ८१ ॥
गाणेशानेन मार्गेणाभजत्तं गणनायकम् ।
अन्ते स्वानन्दगः सोऽपि तल्लीनः प्रबभूव ह ॥ ८२ ॥
एवं नानाविधा देवाः सिद्धिं प्राप्ता विशेषतः ।
देवागारस्थभीमेशयात्रया नात्र संशयः ॥ ८३ ॥
अधुना पूर्णयात्राया देवालयस्य देवपाः ।
माहात्म्यं कथयामीह सङ्क्षेपेण पुरा भवम् ॥ ८४ ॥
द्राविडे शूद्रजातिस्थो बभूव विषयप्रियः ।
नाम्ना कदा स्वकार्यार्थं मार्गसंस्थो बभूव ह ॥ ८५ ॥
तत्राशुचिस्वभावस्थं राक्षसः प्रविवेश तम् ।
तेनासुरस्वभावस्थः शूद्रो बभूव सर्वदा ॥ ८६ ॥
ततः पिशाचकैः सोऽपि धृतो हृदि विशेषतः ।
प्रविश्य चेष्टया हीनः कृतः पैशाचकोऽभवत् ॥ ८७ ॥
ततो वीर्यविहीनं तं नानारोगैः प्रपीडितम् ।
एतादृशं गृहीत्वा तु सुहृदो दुःखमाययुः ॥ ८८ ॥
विदुषा ब्राह्मणेनाऽपि सुहृदश्चोपदेशिताः ।
मयूरेशं समागम्य यात्रां चक्रुर्यथाविधि ॥ ८९ ॥
देवागारस्य सम्पूर्णां चतुर्द्वारसमन्विताम् ।
तत्र सर्पेण दष्टाश्च यात्रां चक्रुस्तथाऽपि ते ॥ ९० ॥
नग्नभैरवदेवस्य पूजनेन पिशाचकाः ।
तं त्यक्त्वा प्रययुः सर्वे भयभीताः सुरेश्वराः ॥ ९१ ॥
नीलकण्ठं समालोक्य विषबाधा पपाल ह ।
कृत्तिवासः समालोक्य राक्षसः प्रययौ ततः ॥ ९२ ॥
भीमेशं पूजयित्वा तु वीर्ययुक्तो बभूव ह ।
ततो विघ्नेशमापूज्य स्वगृहं स जगाम ह ॥ ९३ ॥
विस्मितो मानसेऽत्यन्तं सस्मार गणनायकम् ।
चतुर्द्वारयुतं तं सोऽभजद्भावसमन्वितः ॥ ९४ ॥
अन्ते शैवे समागम्य लोके भोगान् मनोगतान् ।
बुभुजे स पुनः क्षेत्रे मयूरे क्षत्रियोऽभवत् ॥ ९५ ॥
क्षेत्रसन्न्याससंयुक्तोऽभजत्तं गणनायकम् ।
स्वानन्दे ब्रह्मभूतः स बभूवान्ते सुरेश्वराः ॥ ९६ ॥
एवं नानाविधा लोका ययुः सिद्धिं महेश्वराः ।
देवागारस्य तत्रैव ब्रूयां कति तु यात्रया ॥ ९७ ॥
देवालयस्य यात्राया माहात्म्यं यः शृणोति चेत् ।
पठेद्वा तस्य विघ्नेशः प्रसन्नो भवति प्रभुः ॥ ९८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे ?विघ्नराजचरिते देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥
[[३८]]