॥ श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच ।
पुराकल्पभवां सर्वां कथयामि कथां पराम् ।
सङ्क्षेपेण महाभागाः शृणुध्वं भक्तिसंयुताः ॥ १ ॥
काचिद्विप्रस्य भार्या तु पीडिता दुर्जनैः पुरा ।
सा सतीभावरक्षार्थं यत्नयुक्ता बभूव ह ॥ २ ॥
वने पतिविहीना सा तानुवाच महाखलान् ।
अद्य प्रारभ्य वश्चाह्नि पञ्चमे स्त्री भवाम्यहम् ॥ ३ ॥
सत्यं वाक्यं न सन्देहो गच्छध्वं वनवासिनः ।
एवमुक्ता गताश्चौरा हर्षिताः स्वगृहं ततः ॥ ४ ॥
सा वने शोकसंयुक्ता विचारमकरोत्तदा ।
यज्ञार्थं यजमानस्य भर्ता मे सङ्गतोऽभवत् ॥ ५ ॥
करोमि किं समीपस्थं गच्छामि च मयूरकम् ।
तत्र धर्मस्य संस्थानं वर्तते नात्र संशयः ॥ ६ ॥
यात्रामात्रेण तत्रैव स्वस्वधर्मः प्रलभ्यते ।
एवं विचार्य सा देवी मयूरेशं जगाम ह ॥ ७ ॥
स्नात्वा गणेशतीर्थे सा सम्पूज्य गणनायकम् ।
पूर्वद्वारस्थितां शक्तिं सर्वयुक्तां पुपूज ह ॥ ८ ॥
पुनश्चैव मयूरेशं पूजयित्वा विधानतः ।
सत्यसम्पालनार्थाय स्वगृहं तत्क्षणाद्ययौ ॥ ९ ॥
ततस्ते वनगा दुष्टास्तां ययौ पञ्चमेऽहनि ।
सा सस्मार गणेशानं धर्मशक्तियुतं परम् ॥ १० ॥
तस्याः स्मरणमात्रेणाग्निस्तान् सर्वान् ददाह च ।
सा विस्मिता गणेशानममन्यत विशेषतः ॥ ११ ॥
मृता सा धर्मशक्तिस्थं गणेशं चिन्त्य मानदा ।
विकुण्ठमगमत् सा वै विष्णुना मानिता भृशम् ॥ १२ ॥
पुनः कल्पे मयूरे सा पतियुक्ता बभूव ह ।
ब्राह्मणी तं पुनर्भक्त्या सिषेवे धर्मतत्परा ॥ १३ ॥
अन्ते स्वानन्दगा चैव बभूवे देवनायिका ।
ब्रह्मभूता महाभक्त्या पत्या युक्ता महाद्भुतम् ॥ १४ ॥
एवं नाना जनास्तत्र नाना वर्णसमुद्भवाः ।
नरा नार्यश्च देवेशा महासिद्धिं प्रलेभिरे ॥ १५ ॥
अन्यच्च दक्षिणद्वारसंस्थां शृणुत चादरात् ।
येन संशयहीनाश्च भविष्यथ विशेषतः ॥ १६ ॥
मद्रदेशमहीपालः शास्त्रज्ञो बलसंयुतः ।
बभूव सर्वनीतिज्ञः प्रजापालनलालसः ॥ १७ ॥
कदा सामन्तकैः सर्वैः पीडितोऽतितरां नृपः ।
न समर्थो बभूवैव तेषां निग्रहणे बलात् ॥ १८ ॥
ततोऽतिशोकसंयुक्तो राज्यं त्यक्त्वा महामतिः ।
जगाम मुनिशार्दूलं शौनकं कर्मसिद्धये ॥ १९ ॥
ज्ञात्वा वृत्तान्तमेवं तु तस्य राज्ञश्च शौनकः ।
जगाद गच्छ राजेन्द्र मयूरेशं सुसिद्धिदम् ॥ २० ॥
तत्र दक्षिणभागे तु द्वारमर्थात्मकं परम् ।
यात्रामात्रेण सर्वार्थदायकं तत् समाचर ॥ २१ ॥
प्रणम्य भद्रसेनस्तं मयूरेशं समागतः ।
दक्षिणद्वारगां यात्रां चकार भक्तिसंयुतः ॥ २२ ॥
पुनः स्वनगरं गत्वा स्मृत्वा विघ्नेश्वरं नृपः ।
जित्वा सर्वान् भद्रसेनः शत्रून् राज्यं चकार ह ॥ २३ ॥
एवं यात्राविधानेन समर्थो जायते नरः ।
स्वस्वजातिभवं देवा अर्थं विन्दति निश्चितम् ॥ २४ ॥
ततः सोऽपि गणेशानं दक्षिणद्वारगं सदा ।
भुञ्जानो भोगमभजन् मृतः कैलासगोऽभवत् ॥ २५ ॥
[[३२]]
पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः ।
नित्यं गणेश्वरं देवेमभजद्भक्तिसंयुतः ॥ २६ ॥
अन्ते स्वानन्दगो भूत्वा क्षेत्रे मरणतः स्वयम् ।
ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥ २७ ॥
एवं नाना जना देवा अर्थयुक्ता बभूविरे ।
तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥ २८ ॥
अधुना पश्चिमद्वारसम्भूतं कथयाम्यहम् ।
चरित्रं सर्वभावज्ञाः शृणुध्वं परमार्थदम् ॥ २९ ॥
भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः ।
दरिद्रो भोगहीनश्च सामो नाम्ना बभूव ह ॥ ३० ॥
तेन स्कन्दपुराणस्थं माहात्म्यं संश्रुतं कदा ।
स्वानन्दक्षेत्रजं तेन विस्मितः प्रबभूव ह ॥ ३१ ॥
देवाः समागतो यात्रार्थं मयूरे पुरा स वै ।
यथाशास्त्रं विधानेन तीर्थदेवं पुपूज ह ॥ ३२ ॥
अतीव पीडितः सोऽपि रोगैस्तेन चकार ह ।
दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थिताम् ॥ ३३ ॥
ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुतः ।
स्वगृहं पुनरागत्य वैश्यवृत्तिं चकार ह ॥ ३४ ॥
धनाढ्यः स बभूवाऽपि सर्वमान्यः सुरेश्वराः ।
पश्चिमद्वारसंयुक्तमभजद्गणनायकम् ॥ ३५ ॥
स्वगृहे भोगसंयुक्तो बुभुजे विविधान् रसान् ।
अन्ते जगाम शक्तेः स लोकं परमसौख्यदम् ॥ ३६ ॥
पुनः क्षेत्रे बभूवाऽपि ब्राह्मणो वेदपारगः ।
मयूरे गणनाथं स शिवशर्माऽभजत्परम् ॥ ३७ ॥
क्षेत्रसन्न्यासभावेन मयूरेशं समाश्रितः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ३८ ॥
अथोत्तरभवां यात्रां शृणुध्वं देवसत्तमाः ।
कर्णाटे शूद्रजातिस्थो बभूवे भीमनामकः ॥ ३९ ॥
कदा श्रुत्वा पुराणं स खेदयुक्तो बभूव ह ।
व्यर्थं मायामयं सर्वं तत्त्यजाम्यहमादरात् ॥ ४० ॥
मुक्तिः सम्पूर्णभावेन लभ्यते केन कर्मणा ।
तदेव साधनीयं वै मया मानवदेहिना ॥ ४१ ॥
ततो बभ्रामातिखेदसंयुक्तो यत्र तत्र ह ।
वने ददर्श शूद्रः स विश्वामित्रं तपोधनम् ॥ ४२ ॥
तं प्रणम्य स्थितस्तत्र बभौ तेनाऽपि सत्कृतः ।
पप्रच्छ मुक्तिदं मार्गं तं जगाद स हर्षितः ॥ ४३ ॥
विश्वामित्र उवाच ।
महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः ।
अनेकजन्मसम्भूतैर्नरो मुक्तिमवाप्नुयात् ॥ ४४ ॥
अतो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज ।
उत्तरद्वारगां यात्रां कुरु मुक्तिमवाप्स्यसि ॥ ४५ ॥
आयासेन विहीनस्तु मुक्तिं तत्रैवमाप्नुयाः ।
मा खेदं कुरु शूद्र त्वं गच्छ गच्छ ममाज्ञया ॥ ४६ ॥
भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ ।
उत्तरद्वारगां यात्रां चकार विधिसंयुतः ॥ ४७ ॥
अत्यन्तलोलुपत्वात् स मुक्तिद्वारं चकार ह ।
पुनः स्वगृहमागत्य चकार कर्म देहजम् ॥ ४८ ॥
स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः ।
त्रिवर्णस्थजनानां वै सेवां चकार हर्षितः ॥ ४९ ॥
मुक्तियुक्तं गणेशानमभजन्नित्यमादरात् ।
अन्ते जगाम सूर्यस्य लोकं तेजोमयं परम् ॥ ५० ॥
[[३३]]
ततः क्रमेण शूद्रः स शुक्लगत्या महेश्वराः ।
मोक्षरूपो बभूवाऽपि क्षेत्रयात्राप्रभावतः ॥ ५१ ॥
एवं नानाविधास्तत्र मुक्तिं प्राप्ता विशेषतः ।
तेषां मया चरित्रं यत्तद्वक्तुं न प्रशक्यते ॥ ५२ ॥
अथ देवेश्वराः पूर्णां यात्रां द्वारसमाश्रिताम् ।
कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीम् ॥ ५३ ॥
मालवेऽन्त्यजजातिस्थो बभूवे दुन्दुभिस्वनः ।
नाम्ना ख्यातश्च पापात्मा विचचार महीतलम् ॥ ५४ ॥
द्रव्यलोभी नरादींश्च हत्वा कोटरगोऽभवत् ।
मुमोच ब्राह्मणं सोऽपि न गां वा पापनिश्चयः ॥ ५५ ॥
कदाचिन् मार्गगः कश्चिद्वैश्यो द्रव्यसमन्वितः ।
मालवाद्दण्डकारण्यं जगाम क्रयकारणात् ॥ ५६ ॥
स दृष्ट्वा द्रव्यसंयुक्तं महामार्गसमाश्रितम् ।
नाना जनैश्च सङ्कीर्णं तमनु प्रययौ खलः ॥ ५७ ॥
वैश्यं क्रमेण देवेशा मयूरेशं समागतम् ।
अनु तं सोऽपि दुर्बुद्धिराययौ दुन्दुभिस्वनः ॥ ५८ ॥
स वैश्यो गणनाथस्य यात्रायां निरतोऽभवत् ।
अन्त्यजोऽपि तथा तत्र यात्रां तेन चकार ह ॥ ५९ ॥
चतुर्द्वाराणि कृत्वा तु संस्थिता विविधा जनाः ।
चाण्डालस्तत्र मायूरे तद्वत्तस्थौ स वै खलः ॥ ६० ॥
ततस्तस्य च दुर्बुद्धेर्बुद्धिभेदो बभूव ह ।
विचारमकरोच्चित्ते स स्वयं दुन्दुभिस्वनः ॥ ६१ ॥
अहो मयाऽतिमूर्खेण पापं नानाविधं कृतम् ।
का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ ६२ ॥
ततो वैश्यं प्रणम्यैव गतः स्वस्थानमादरात् ।
स्वधर्मसंयुतो भूत्वा चकार कर्म देहजम् ॥ ६३ ॥
पूर्वद्वारजपुण्येन स्वधर्माचारसंयुतः ।
दक्षिणद्वारजेनैव सत्तायुक्तो बभूव ह ॥ ६४ ॥
पश्चिमद्वारपुण्येन रोगाद्यभिविवर्जितः ।
धनाढ्यो विविधान् भोगान् बुभुजेऽसौ सुहृद्वृतः ॥ ६५ ॥
उत्तरद्वारजेनैव यात्रायाः फलरूपिणा ।
महामोक्षं शुक्लगत्याऽन्त्यजो लेभे महेश्वराः ॥ ६६ ॥
न शक्यते मया वक्तुं चरित्रं द्वारकारिणाम् ।
नानावर्णाश्रमे संस्थाश्चतुर्वर्गयुता बभुः ॥ ६७ ॥
नारीनरः पशुस्थश्च जीवस्तत्र समागतः ।
द्वारयात्रां तु कुर्यात् स चतुर्विधं फलं लभेत् ॥ ६८ ॥
इति द्वारस्य यात्रायाश्चरितं संशृणोति चेत् ।
पठति तस्य सर्वं तु सफलं कर्म सम्भवेत् ॥ ६९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः ॥
[[३४]]