॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
कथं गणेशक्षेत्रस्य नाम जातं मयूरकम् ।
एतत् कौतूहलं ब्रूहि भ्रूशुण्डिन् परमार्थद ॥ १ ॥
भ्रूशुण्ड्युवाच ।
पुरा कल्पे महेशाना भवद्भिस्तत्र विघ्नपः ।
आराधितः स वै साक्षाद्वरदस्तान् समाययौ ॥ २ ॥
मयूरवाहनो भूत्वा दशहस्तो दशायुधः ।
लम्बोदरो गजमुखः प्रसन्नात्मा महेश्वरः ॥ ३ ॥
उवाच तान् वृणुध्वं मे वरांश्च मनसीप्सितान् ।
दास्यामि तपसा तुष्टो भक्त्या स्तोत्रादिना परान् ॥ ४ ॥
तैर्मानसेप्सितं सर्वं वृत्तं तस्माद्गजाननात् ।
पुनस्तं ते गणाध्यक्षमूचुः प्राञ्जलयोऽमराः ॥ ५ ॥
मूषको वाहनं तेऽभून् मयूरध्वज चाधुना ।
मयूरारूढ एव त्वमागतोऽसि गजानन ॥ ६ ॥
अस्मिन् क्षेत्रे मयूरस्थो दृष्टस्त्वं गणनायक ।
अतो मयूरजन्माख्यं क्षेत्रं जातं त्वया कृतम् ॥ ७ ॥
अद्य प्रभृतिरेतत्तु क्षेत्रं मायूरनामकम् ।
भवेत्तत् सर्वविख्यातं त्वत्प्रसादाद्गजानन ॥ ८ ॥
मयूरक्षेत्रनाथस्त्वं मयूरेशो भव प्रभो ।
नाम्ना सर्वत्र विख्यातो भक्तानुग्रहकारकः ॥ ९ ॥
तथेति तानुवाचाथ गणेशोऽन्तर्दधे स्वयम् ।
देवेशा अभवन्नत्वा स्वस्वकार्यपरायणाः ॥ १० ॥
एतद्वः सर्वमाख्यातं कारणं नामधारणे ।
क्षेत्रस्य क्षेत्रनाथस्यान्यच्छृणुध्वं महेश्वराः ॥ ११ ॥
चित्राकारा महामाया ह्यनन्तखेलकारिणी ।
मयूरा सा समाख्याता मयूरेशस्तु तत्पतिः ॥ १२ ॥
चतुर्ब्रह्ममयं क्षेत्रं मायारूपं मयूरकम् ।
विहारतस्तत्र देवा मयूरेशः प्रकीर्तितः ॥ १३ ॥
[[२९]]
देवेशा ऊचुः ।
चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् ।
कथं दशभुजः सोऽपि बभूव वद योगिप ॥ १४ ॥
भ्रूशुण्ड्युवाच ।
भूस्वानन्दमयं क्षेत्रमेकं सर्वादिसम्मतम् ।
गाणेशं तत्र देवेशा न चित्रं किञ्चिदञ्जसा ॥ १५ ॥
एकाक्षरभवं ध्यानं प्रथमं परिकीर्तितम् ।
सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥ १६ ॥
सप्तकोट्यो महामन्त्रा गणेशस्य महात्मनः ।
सर्वे मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥ १७ ॥
अनन्तरूपधारी स हिताय गणपोऽभवत् ।
लोकानां तानि सर्वाणि मयूरे सम्भवन्ति हि ॥ १८ ॥
मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् ।
नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥ १९ ॥
अतः सर्वाणि रूपाणि गाणेशानि विशेषतः ।
मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥ २० ॥
शक्तिरुवाच ।
भ्रूशुण्डिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः ।
ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ २१ ॥
ब्रह्माद्या ऊचुः ।
दण्डकारण्यदेशे तु गणेशस्य महात्मनः ।
क्षेत्रं मुख्यं कथं जातं तन्नो वद महामुने ॥ २२ ॥
भ्रूशुण्ड्युवाच ।
स्वस्वकर्मकृतं देवास्तस्य दण्डः प्रकीर्तितः ।
शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य एव च ॥ २३ ॥
दण्डानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् ।
शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥ २४ ॥
ब्रह्मभूयपदं पूर्णं परं चादण्डवाचकम् ।
दण्डकारण्यकं तेन नाम तस्य विशेषतः ॥ २५ ॥
दण्डकारण्यगे देवो ब्रह्मभूतमयः परः ।
गणेशो वेदवादेष्वदण्डिनां स हितावहः ॥ २६ ॥
अदण्डिनश्च योगीन्द्राः कथिताः शुकमुख्यकाः ।
योगेशो ब्रह्मणां नाथो गणेशस्तत्र राजति ॥ २७ ॥
इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः ।
सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥ २८ ॥
दण्डकारण्यकं तेषु गणेशं लालसं सदा ।
उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥ २९ ॥
दण्डकारण्यमुवाच ।
ब्रह्मभूयप्रदं देवं भजिष्यामि पितामह ।
तदर्थं मन्त्रराजं मे देहि सर्वज्ञ मुख्यक ॥ ३० ॥
ब्रह्मोवाच ।
गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः ।
समूहानां प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥ ३१ ॥
स्वानन्दनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे ।
लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः परः ॥ ३२ ॥
गजाननमयो यस्य देहश्च नररूपधृक् ।
सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥ ३३ ॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥ ३४ ॥
दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् ।
लब्ध्वाऽरण्यं महादेवस्ततो भक्तिं चकार ह ॥ ३५ ॥
तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः ।
जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥ ३६ ॥
तं दृष्ट्वा दण्डकारण्यं समुत्थाय ननाम तु ।
पूज्यं स्तोतुं गणाधीशं चक्रमे तत्कृताञ्जलिः ॥ ३७ ॥
दण्डकारण्यमुवाच ।
नमस्ते गजवक्त्राय गणेशाय महोदर ।
ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८ ॥
हेरम्बाय चतुर्बाहुधराय कञ्जपाणये ।
पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९ ॥
[[३०]]
अनादये च सर्वेषामादिरूपाय ते नमः ।
ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४० ॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥ ४१ ॥
मूषकोपरिसंस्थाय गणेशाय परात्मने ।
नानामायाप्रचालाय मयूरेशाय ते नमः ॥ ४२ ॥
नायकानां विशेषेण नायकाय विनायक ।
नायकैर्वर्जितायैव नायकत्वप्रदायिने ॥ ४३ ॥
विघ्नेशाय महाविघ्नधारिणे सर्वदायिने ।
पददात्रे तथा हन्त्रे विघ्नेशैस्ते नमो नमः ॥ ४४ ॥
अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः ।
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥ ४५ ॥
अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् ।
कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥ ४६ ॥
भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् ।
तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥ ४७ ॥
एवमुक्त्वा गणेशानं प्रणनाम कृताञ्जलिः ।
भक्तिभावसमायुक्तं तञ्जगाद गजाननः ॥ ४८ ॥
श्रीगजानन उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति महारण्य भुक्तिमुक्तिप्रदं परम् ॥ ४९ ॥
त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् ।
मामेव सर्वभावेन भजिष्यसि न संशयः ॥ ५० ॥
नानावतारवांश्चैव त्वद्देहस्थोऽहमञ्जसा ।
भविष्यामि गणेशोक्त्वाऽन्तर्दधे देवसत्तमाः ॥ ५१ ॥
अतो गणेशक्षेत्रं तु दण्डकारण्यमुत्तमम् ।
सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥ ५२ ॥
तेषां क्षेत्राणि देवेशा दण्डकारण्यगानि तु ।
तेषु स्थिता विशेषेण भजन्ते गणनायकम् ॥ ५३ ॥
सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति ।
दण्डकारण्यमध्ये स विशेषेणावतारकृत् ॥ ५४ ॥
दण्डकारण्यकं सर्वं गणेशक्षेत्रमुच्यते ।
मयूरक्षेत्रं तन्मध्ये भिन्नं स्वानन्दवाचकम् ॥ ५५ ॥
ब्रह्माद्या ऊचुः ।
धन्योऽसि योगिनां मध्ये सर्वसंशयनाशकः ।
श्रुत्वा त्वद्वदनाम्भोजान्न तृप्यामः कथामृतम् ॥ ५६ ॥
अधुना कृपया विप्र द्वारयात्रां विधानतः ।
वद क्षेत्रस्य त्रिविधामितिहासयुतां प्रभो ॥ ५७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे ?विकटचरिते मयूरेश नामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः ॥
[[३१]]