१२ मयूरक्षेत्रवासशुभाशुभवर्णनम्

॥ श्रीगणेशाय नमः ॥

देवा ऊचुः ।
पुरा कल्पे महाभाग मयूरे द्वारसंश्रिताम् ।
यात्रां कृत्वा नराः सिद्धिमलभंस्तद्वदस्व नः ॥ १ ॥

देवभूमौ मृता ये वै तेषां सिद्धिं वदस्व च ।
एकद्वाराश्रितां यात्रां कृत्वा के सिद्धिमाप्नुयुः ॥ २ ॥

श्रुत्वा कथां महारम्यां हर्षश्चेतसि वर्धते ।
सर्वज्ञोऽसि न सन्देह आदिमध्यान्तगस्तथा ॥ ३ ॥

भ्रूशुण्ड्युवाच ।
पुरा जातां कथां रम्यां शृणुध्वं देवसत्तमाः ।
स्वगुरुं मुद्गलं नत्वा कथयामि समासतः ॥ ४ ॥

द्राविडे ब्राह्मणः कश्चिद्विद्याहीनो बभूव ह ।
तत्रैवान्त्यजजातिस्थो नरो मूढस्तथाऽभवत् ॥ ५ ॥

माता पिता तस्य हीनौ तथा त्यक्तौ सुहृज्जनैः ।
त्यक्त्वा स्वदेशभूमिं बभ्रमतुस्तौ महीतलम् ॥ ६ ॥

प्रसङ्गात्तु जनानां तौ मयूरे दैवयोगतः ।
समागतौ जनैर्युक्तौ तस्थतुस्तत्र हर्षतः ॥ ७ ॥

स्नात्वा प्रभातकाले तौ शमीदूर्वादलं तथा ।
गृह्य विघ्नेशपूजार्थं जग्मतुः स्नेहभावतः ॥ ८ ॥

[[२६]]

अन्त्यजेन स्वकीया च प्रदत्ता ब्राह्मणाय तु ।
पूजा दूर्वादिसंयुक्ता गणेशार्थं स्वधर्मतः ॥ ९ ॥

ब्राह्मणो गणराजं तं पूजयामास भावतः ।
विधिमन्त्रैर्विहीनस्तु जलपत्रादिभिः परम् ॥ १० ॥

ततस्तौ जनसङ्घातैर्जग्मतुर्देवसत्तमाः ।
गर्भागारद्वारसंस्थां यात्रां चक्रतुरादरात् ॥ ११ ॥

पूर्वद्वारे समागम्य बुद्धिं सम्पूज्य तं पुनः ।
गणेशं पूजयित्वा तौ तस्थतुस्तत्र देवपाः ॥ १२ ॥

उपोषणसमायुक्तौ विधानेन बभूवतुः ।
द्वितीये दिवसे यात्रां क्षुधितौ तौ न चक्रतुः ॥ १३ ॥

यात्रां त्यक्त्वा गतौ हर्षात्त्यक्त्वा क्षेत्रं महाद्भुतम् ।
अकस्मात् ज्ञानसंयुक्तौ विद्यायुक्तौ बभूवतुः ॥ १४ ॥

जातिस्मरौ विशेषेण विचारं चक्रतुः परम् ।
अहो वर्णयितुं क्षेत्रमाहात्म्यं न प्रशक्यते ॥ १५ ॥

एकद्वारस्य यात्रा तु कृताऽऽवाभ्यां ततः परम् ।
ज्ञानं विद्यायुतं प्राप्तं सम्पूर्णां किं स्तुवः कृताम् ॥ १६ ॥

ततः स्वनगरं गत्वा सर्वमान्यौ बभूवतुः ।
तेन संस्कारयोगेन गणेशभजने रतौ ॥ १७ ॥

भक्तेर्बलेन तौ देवा अन्ते स्वानन्दलोकगौ ।
तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतौ बभूवतुः ॥ १८ ॥

एवं नाना जना द्वारसिद्धिं तत्र प्रलेभिरे ।
न मया वर्णनं शक्यमन्यैर्वर्षशतैरपि ॥ १९ ॥

अन्यद्वारेषु सर्वेषु यथोक्तफलभोगिनः ।
न सन्देहो बभूवुः कथयितुं नैव शक्यते ॥ २० ॥

मयूरे ये मृताः क्षेत्रे तेषां सिद्धिं वदाम्यहम् ।
देवमुख्याश्च शृणुत सर्वसन्तोषवर्धिनीम् ॥ २१ ॥

पुरा शूद्रः समायातः कश्चिद्दैववशेन तु ।
कुष्ठरोगसमायुक्तो मयूरे धूम्रनामकः ॥ २२ ॥

तत्रोच्छिष्टादिकं भुञ्जन् भिक्षायां निरतोऽभवत् ।
मासमध्ये मृतः सोऽपि भृशं रोगेण पीडितः ॥ २३ ॥

स स्वानन्दं समाश्रित्य ब्रह्मभूतो बभूव ह ।
एवं नाना जनाः क्षेत्रे ब्रह्मभूता मयूरके ॥ २४ ॥

तेषां न शक्यते वक्तुं चरित्रं देवसत्तमाः ।
यथोक्तफलभोक्तारो बभूवुर्नात्र संशयः ॥ २५ ॥

तत्र क्षेत्रस्थिता देवा नराः पापपरायणाः ।
मृता क्षेत्रे यदा तेषां भयं यमकृतं न हि ॥ २६ ॥

नग्नभैरवनामाऽसौ कथितः क्षेत्रपालकः ।
दण्डधारक एवं तु सदा मायूरवासिनाम् ॥ २७ ॥

तस्याधीनं समग्रं तु क्षेत्रं वैनायकं परम् ।
शुद्धं कृत्वा नरं दण्ड्यं स्वानन्दे स्थापकोऽभवत् ॥ २८ ॥

देवेशा ऊचुः ।
कोऽसौ नग्नस्वरूपेण भैरवः सर्वभैरवः ।
कीदृशी यातना विप्र मयूरे पापकारिणाम् ॥ २९ ॥

भ्रूशुण्ड्युवाच ।
मायासङ्गविहीनोऽयं सदा साक्षिवदुच्यते ।
तेन नग्न इति ख्यातो गाणपत्याग्रणीः परः ॥ ३० ॥

यस्माद्भीतानि तत्त्वानि जगत् संवर्तयन्ति तु ।
ब्रह्मा सृष्टिकरो देवा विष्णुः पाता च तद्भयात् ॥ ३१ ॥

हरः संहारकारी च सूर्यस्तपति नित्यदा ।
सम्मोहधारिणी शक्तिः सदा भवति तद्भयात् ॥ ३२ ॥

इत्यादि सकलं तस्माद्भीतं स्वस्वपदे स्थितम् ।
स्वस्वकर्मकरं प्रोक्तं तेन भैरवकः स्मृतः ॥ ३३ ॥

मायया गणराजेन सृष्टः सर्वार्थदायकः ।
गाणेशानां न सन्देह इतरेषां भयङ्करः ॥ ३४ ॥

[[२७]]

गर्भागारं गणेशस्य रहस्यं रूपमुच्यते ।
अतस्तत्रैव देवेशाः स्थातव्यं यत्नतः सदा ॥ ३५ ॥

तत्र पूजादिकं कार्यं सत्कर्मादिकमुत्तमम् ।
न तत्रानृतकामादिकर्तव्यं मानवेन च ॥ ३६ ॥

न च मूत्रमलत्यागः कर्तव्यस्तत्र देवपाः ।
सदा गाणेशभावेन स्थातव्यं मानवैः सदा ॥ ३७ ॥

क्षेत्रे पुण्यं यथा प्रोक्तमधिकं ह्यन्यदेशतः ।
तथा तत्र कृतं पापमधिकं भवतीत्यहो ॥ ३८ ॥

अतः क्षेत्रेषु पापानि नाचरेत्तु नरोत्तमः ।
यथाशास्त्रं विधानेन पुण्यं तेषु समाचरेत् ॥ ३९ ॥

अन्यक्षेत्रेषु पापं यत् कृतं नश्यति तत्क्षणात् ।
क्षेत्रेषु पञ्चदेवानां ब्रह्मादिपदगेषु वै ॥ ४० ॥

नरैस्तेषु कृतं पापं मयूरे नश्यति क्षणात् ।
मयूरे यत् कृतं पापं वज्रलेपं तु तत् स्मृतम् ॥ ४१ ॥

विधिं तत्र प्रवक्ष्यामि शृणुत देवसत्तमाः ।
येन संशयहीनाश्च भविष्यथ विचारतः ॥ ४२ ॥

मयूरे यत् कृतं पापं देवालये विनश्यति ।
देवालये कृतं चैतद्गर्भागारे लयं व्रजेत् ॥ ४३ ॥

गर्भागारे कृतं पापं द्वारयात्राबलेन च ।
नश्यत्यत्र न सन्देहः प्रदक्षिणविधानतः ॥ ४४ ॥

द्वारयात्राकृतं पापं वज्रलेपमयं भवेत् ।
तदेव यातनां दत्त्वा नरस्य नाशमेष्यति ॥ ४५ ॥

यदा जन्मादि प्रारभ्य मरणान्तं समाचरेत् ।
पापं मयूरक्षेत्रे स यातनां प्रलभेन्नरः ॥ ४६ ॥

दशवर्षसहस्राणि नग्नभैरवनायकः ।
भैरवीं यातनां दत्त्वा शुद्धं करोति मानवम् ॥ ४७ ॥

यातना त्रिविधा तस्य भैरवस्य महात्मनः ।
कथयामि समासेन तां शृणुध्वं महेश्वराः ॥ ४८ ॥

अग्निकुण्डादिकं तत्र संस्थितं भैरवस्थले ।
याम्याल्लक्षाधिकं प्रोक्तमुग्रं वक्तुं न शक्यते ॥ ४९ ॥

आदावेव स तां दत्त्वा पश्चाद यमसमां प्रभुः ।
ददाति यातनां घोरां भैरवो भयदायकः ॥ ५० ॥

ततो भूतपिशाचादि सम्भूतां प्रददाति सः ।
ततः शुद्धं नरं कृत्वा स्वानन्दे स्थापयिष्यति ॥ ५१ ॥

चत्वारिंशत्सहस्राणि भैरवीं यातनां स्वयम् ।
ददाति तु ततो याम्यां त्रीणि साहस्त्रकाणि हि ॥ ५२ ॥

ततस्त्रीणि सहस्राणि पैशाचीयोनिसम्भवाम् ।
ददाति क्रोधसंयुक्तो नग्नः शूलधरः प्रभुः ॥ ५३ ॥

एवं सर्वं समाख्यातं यातनाजं महद्भयम् ।
यथा मयूरक्षेत्रस्थो नरो विन्द्यान् मृतः परम् ॥ ५४ ॥

पापरूपा नरा ये वै गाणेशे संस्थिताः खलाः ।
तान् स्वयं भैरवाधीशो बहिः कुर्याद्भयप्रदः ॥ ५५ ॥

पुण्यशीलान् हृदिस्थश्च समानाय्य महेश्वराः ।
भैरवः क्षेत्रगान् कृत्वा रक्षेद्वै नित्यमादरात् ॥ ५६ ॥

मयूरक्षेत्रसंस्था ये क्षेत्रसन्न्यासधारकाः ।
न तेषां दुःखलेशश्च भवेद्देवेन्द्रसत्तमाः ॥ ५७ ॥

लक्ष्म्या नारायणस्तान् वै धर्मयुक्तान् करोति सः ।
पार्वत्या शङ्करस्तद्वन्नानार्थान् सन्ददाति वै ॥ ५८ ॥

रत्या कामः स्वयं तेभ्यो नाना कामान् ददाति हि ।
भूम्या वराहकश्चैव ज्ञानं ददाति शाश्वतम् ॥ ५९ ॥

अतः सर्वं परित्यज्य मयूरं तत् समाश्रयेत् ।
सुहृद्भिस्तं तु देवेशा ब्रह्मभूतं वदन्ति हि ॥ ६० ॥

नानायोनिगतो जन्तुस्तत्र स्त्रीपुत्रसंयुतः ।
देहपोषणसक्तश्च बभूवे देवसत्तमाः ॥ ६१ ॥

नरदेहं समाश्रित्य गाणेशक्षेत्रगो यदि ।
न भवेत् स सदा ज्ञेयो रासभैस्तुल्यभावगः ॥ ६२ ॥

पञ्चमं ब्रह्मरूपं यत्तदेव भूमिगं मतम् ।
क्षेत्ररूपेण तद्ये वै न सेवन्ते समाः पशोः ॥ ६३ ॥

स्वर्गेषु देवमुख्याश्चेच्छन्ति मानवदेहकम् ।
गत्वा मयूरक्षेत्रे तु मरिष्यामः सुभाग्यतः ॥ ६४ ॥

तत्रैव मरणे ब्रह्म प्राप्यते पञ्चमं परम् ।
धर्मार्थकाममोक्षास्तु यदिच्छन्ति परात्परम् ॥ ६५ ॥

काश्यादिक्षेत्रमुख्येषु यत्कृतं सुकृतं नरैः ।
तेन संस्कारयोगेन मयूरं लभ्यते परम् ॥ ६६ ॥

इति सर्वं समाख्यातं वासरूपं विशेषतः ।
पठनाच्छ्रवणान्नित्यं क्षेत्रवासफलप्रदम् ॥ ६७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः ॥