११ क्षेत्रप्रमाणवर्णनम्

॥ श्रीगणेशाय नमः ॥

भ्रूशुण्ड्युवाच ।
चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् ।
ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥ १ ॥

गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् ।
द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥ २ ॥

दक्षिणस्यां गणेशानाद् द्विगुणं द्वारमुत्तमम् ।
पूर्वद्वाराच्च सम्प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ ३ ॥

ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् ।
द्विगुणं दक्षिणाङ्गात्तु किञ्चिन्न्यूनं बुधैः पुरा ॥ ४ ॥

गणेशादुत्तरे भागे परं द्वारं च संस्थितम् ।
पश्चिमात् पादहीनं तदधिकं किञ्चिदञ्जसा ॥ ५ ॥

एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः ।
नवखण्डाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥ ६ ॥

क्षेत्राणि प्रलयेषु श्रेष्ठानि दैवतसत्तमाः ।
प्रगच्छन्ति लयं नैव रक्षितानि स्वदैवतैः ॥ ७ ॥

महाप्रलयवेलयां तत्त्वानि त्रिगुणैः सह ।
लयं गच्छन्ति वेगेन कालस्य परमात्मनः ॥ ८ ॥

तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च ।
लयं गच्छन्ति देवेशा निश्चितं योगिभिः पुरा ॥ ९ ॥

महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् ।
नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥ १० ॥

देवेशा ऊचुः ।
क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः ।
कथं नाशविहीनं तद्वद योगीन्द्रसत्तम ॥ ११ ॥

स्वानन्दः सर्वसंयोगे जायते नाऽत्र संशयः ।
क्षेत्रस्याख्या कथं प्राप्ता स्वानन्दस्य वद प्रभो ॥ १२ ॥

भ्रूशुण्ड्युवाच ।
क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न विद्यते ।
ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥ १३ ॥

यथा स्वानन्दरूपश्च स्वसंवेद्यात्मकः स्मृतः ।
तथा स्वानन्दक्षेत्रं तु ब्रह्माकारं प्रकीर्तितम् ॥ १४ ॥

देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् ।
तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥ १५ ॥

भ्रान्तिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह ।
भ्रान्तिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥ १६ ॥

सङ्गहीनतया सर्वं स्त्रीपुम्भावसुखं स्मृतम् ।
गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥ १७ ॥

बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो ।
क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥ १८ ॥

यत्किञ्चिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् ।
लोकादिकं मुनीन्द्रैश्च ब्रह्मणस्पतिरुच्यते ॥ १९ ॥

गणेशक्षेत्रसम्भूतानि क्षेत्राणि समन्ततः ।
तत्रैव मरणे देवाः फलदानि भवन्ति च ॥ २० ॥

धर्मार्थकाममोक्षाणां प्रदानि कथितानि तु ।
गाणेशं पञ्चमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥ २१ ॥

ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः ।
संस्थितास्तत्र लभ्यन्ते यात्राकारिजनैः पराः ॥ २२ ॥

क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् ।
नरः सद्यस्तु संस्काराद्ब्रह्मभूतो न संशयः ॥ २३ ॥

सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् ।
साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥ २४ ॥

कमलमस्तकस्थत्वात् पश्चादासुरकं स्मृतम् ।
तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥ २५ ॥

यदैकद्वारयात्रां यः करोति च चतुर्षु सः ।
आप्नुयात्तद्भवं सौख्यं मानवो यत्र कुत्रगः ॥ २६ ॥

[[२४]]

यस्मात् कस्मात् समायातः सकृद्यात्रां समाचरेत् ।
क्षेत्रस्य च गणेशस्य द्वारगां सर्वमाप्नुयात् ॥ २७ ॥

यो नित्यं द्वारयात्रां स क्षेत्रसंस्थः समाचरेत् ।
वन्द्यः क्षेत्रस्थलोकानामन्ते ब्रह्ममयो भवेत् ॥ २८ ॥

ब्रह्माण्डे न समं किञ्चिद्गणेशक्षेत्रकेण तु ।
चतुर्भिर्वर्जितं प्रोक्तं पञ्चमं तच्चतुर्मयम् ॥ २९ ॥

बुधैर्गणेश्वरक्षेत्रं त्रिविधं परिकीर्तितम् ।
बाह्यान्तरादिभेदैश्च शृणुत देवनायकाः ॥ ३० ॥

गर्भागारं गणेशस्य वासगं योजनार्धकम् ।
बभुर्गणपतेश्चैवावतारास्तत्र संस्थिताः ॥ ३१ ॥

गाणेशा मुद्गलाद्या ये तत्र ते संस्थिता बभुः ।
सेवार्थं गणराजस्यान्ये जना भवनागताः ॥ ३२ ॥

तदेव चतुरस्रं तु चतुर्द्वारसुशोभितम् ।
भक्तेभ्यः सिद्धिदं पूर्णं मनोरथसुपूरकम् ॥ ३३ ॥

गणेशात् पूर्वदिग्भागे धनुषां च शतानि तु ।
षट्किञ्चिन्न्यूनमानानि द्वारं सर्वार्थदं मतम् ॥ ३४ ॥

तत्र बुद्धिः स्थिता साक्षाद्विद्याभिः सेविता स्वयम् ।
कलाभिः पूजयित्वा तां ज्ञानवान् पुरुषो भवेत् ॥ ३५ ॥

गणेशाद्दक्षिणे भागे द्विगुणं दूरगं भवेत् ।
पूर्वद्वाराद्दक्षिणगं द्वारं गर्भाश्रितं महत् ॥ ३६ ॥

तत्र प्रमोदकाद्याश्च गणा ब्रह्मसुखे रताः ।
संस्थिताः पूजनेनैव गाणपत्यपदप्रदाः ॥ ३७ ॥

गणेशात् पश्चिमे भागे द्वारं गर्भगृहस्य च ।
द्विगुणं दक्षिणद्वाराद् दूरगं परिकीर्तितम् ॥ ३८ ॥

तत्र सिद्धिः स्वयं देवाः संस्थिता पूजनेन तु ।
नाना सिद्धिसमायुक्ता नाना सिद्धिप्रदायिनी ॥ ३९ ॥

पादन्यूनेन मानेन पश्चिमद्वारतस्तथा ।
उत्तरद्वारमाख्यातं गणेशसम्मुखे बुधैः ॥ ४० ॥

तत्र देव्यश्चतुःषष्टिर्योगिन्यः संस्थिता बभुः ।
परिवारयुताः सर्वा योगसिद्धाश्च मातरः ॥ ४१ ॥

तासां पूजनमात्रेण योगं विद्यात् स मानवः ।
अन्तर्धानादिकं नाना कामदं नात्र संशयः ॥ ४२ ॥

गर्भागारस्य यात्रां यो नित्यं कुर्यान्नरोत्तमः ।
अथवा तु चतुर्थ्यां वै सर्वकामार्थसिद्धये ॥ ४३ ॥

यात्रार्थं मानवो देवाः समागतो भवेद्यदा ।
तदा कुर्यादथो भक्त्या यात्रां गर्भगृहस्य च ॥ ४४ ॥

गर्भागारात् परं क्षेत्रं देवालयमिति श्रुतम् ।
तत्र देवादयः सन्ति स्वर्गस्थाः सेवनोत्सुकाः ॥ ४५ ॥

त्रियोजनप्रमाणेन चतुरस्रं च तन्मतम् ।
द्वाराणि तस्य चत्वारि कथयामि समासतः ॥ ४६ ॥

गणेशात् पूर्वदिग्भागे किञ्चिन्न्यूनानि दूरतः ।
शतानि पूर्वद्वारं तु धनुषां हि चतुर्दश ॥ ४७ ॥

तत्र भैरवराजेन्द्रो नग्नः सर्वभयङ्करः ।
त्रिशूली मुक्तकेशश्चातिष्ठत् स्वतेजसान्वितः ॥ ४८ ॥

तस्य पूजनमात्रेण वाञ्छितं लभते नराः ।
यातनां न लभेत् सोऽपि नानाकर्मसमुद्भवाम् ॥ ४९ ॥

तस्माद् द्विगुणमानेन गणेशाद् दूरतः शिवः ।
नीलकण्ठश्च देवेशा दक्षिणद्वारपोऽभवत् ॥ ५० ॥

तस्य पूजां प्रकुर्याद्यस्तया बन्धनतो नरः ।
मुच्यते नात्र सन्देहो विषबाधाविवर्जितः ॥ ५१ ॥

[[२५]]

पश्चिमे विघ्नराजात्तु दक्षिणाद् द्विगुणे स्थितः ।
दूरे यः कृत्तिवासाः स द्वारदेवः प्रकीर्तितः ॥ ५२ ॥

तस्य पूजनमात्रेणाऽऽसुरं कर्म विनश्यति ।
ईप्सितं लभते चापि यात्रामात्रेण मानवः ॥ ५३ ॥

उत्तरे गणनाथाद्वै पश्चिमात् पादहीनतः ।
द्वाराद् द्वारं स्थितं देवास्तत्र भीमेश्वरः स्थितः ॥ ५४ ॥

तस्य यात्रां प्रकुर्याद्यः सद्यः सत्तासमन्वितः ।
भवेत् स मानवश्चारोग्यं लभेत निरन्तरम् ॥ ५५ ॥

तृतीयक्षेत्ररूपं तु कथितं विस्तरान् मया ।
चतुर्द्वारयुतं पुण्यं मयूरं तन्मतं परम् ॥ ५६ ॥

क्षेत्रात् सर्वत्र देवेशा योजनं चतुरस्रगम् ।
देवक्षेत्रं समाख्यातं चतुर्विधपदप्रदम् ॥ ५७ ॥

क्षेत्रात् पूर्वविभागस्थो नरो गच्छेन् मृतः स्वयम् ।
विकुण्ठे नात्र सन्देहस्तत् क्षेत्रं वैष्णवं यतः ॥ ५८ ॥

दक्षिणे क्षेत्ररूपात्तु मृतो योजनमध्यगः ।
स कैलासे वसेन्नूनं शैवं क्षेत्रं यतः स्मृतम् ॥ ५९ ॥

मयूरात् पश्चिमे क्षेत्राद्योजनस्थो मृतो भवेत् ।
शक्तिलोकं वसेत् सोऽपि शाक्तं क्षेत्रं च तत् स्मृतम् ॥ ६० ॥

मयूरादुत्तरे देवा यो मृतो योजनस्थितः ।
स सौरे संवसेन्नित्यं सूर्यक्षेत्रं यतः स्मृतम् ॥ ६१ ॥

एवं क्षेत्रस्य माहात्म्यं प्रमाणसहितं मया ।
कथितं श्रवणाच्चैव पठनात् पापहारकम् ॥ ६२ ॥

तत्र गत्वा महेशाना पूजयेत गजाननम् ।
स्थापयित्वाऽचलां मूर्तिं सिद्धिं प्राप्स्यथ निश्चितम् ॥ ६३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः ॥