१० द्वाररहस्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

पञ्चदेवा ऊचुः ।
क्षेत्रस्य मानसम्भूतं माहात्म्यं वद विस्तरात् ।
कियन्मानं समाख्यातं क्षेत्रं स्वानन्दवाचकम् ॥ १ ॥

अन्यच्च वद योगीन्द्र धर्मकामार्थमोक्षगान् ।
अर्थान् येनैव तेषां स ज्ञानयुक्तो भवेन्नरः ॥ २ ॥

पूर्वस्थे तु कथं द्वारे धर्म एकः प्रतिष्ठति ।
तथाऽर्थो दक्षिणद्वारि पश्चिमे काम एव च ॥ ३ ॥

उत्तरद्वारसंस्था तु कथं मुक्तिर्महामुने ।
चतुर्ब्रह्मसु चत्वारि विभक्तानि कथं वद ॥ ४ ॥

आदौ शाक्तं साधयित्वा पश्चात् सौरं लभेन्नरः ।
ततो वैष्णवकं बह्म ततः शैवं समाधिना ॥ ६ ॥

ततो गाणेश्वरं ब्रह्म प्रलभेन्नात्र संशयः ।
क्रमेण योगभूमिस्थो ब्रह्मभूतो नरो भवेत् ॥ ६ ॥

अन्नादौ वैष्णवं ब्रह्म द्वारभूतं नरोत्तमः ।
यात्रामार्गेण विप्रेश साधयेत् कथितं त्वया ॥ ७ ॥

ततः शैवं ततः शाक्तं ततः सौरं विधानतः ।
विपरीतं कथं प्रोक्तं वद कारणमत्र तु ॥ ८ ॥

शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेत् ।
अकस्माद् भ्रान्तभावेन भ्रष्टो भवति मानवः ॥ ९ ॥

शक्तिरुवाच ।
एवं पृष्टो महायोगी भ्रूशुण्डी परमार्थवित् ।
जगाद तान् महादेवान् तच्छृणुध्वं तु शक्तयः ॥ १० ॥

भ्रूशुण्ड्युवाच ।
धर्मः स्वधर्मरूपश्च सर्वसिद्धिप्रदायकः ।
अर्थः समर्थरूपाख्यो ज्ञातव्यः सर्वदायकः ॥ ११ ॥

कामः शरीरभोगाख्यो हृद्यः सौख्यप्रदायकः ।
मुक्तिश्चतुः शरीरेभ्यो हीनत्वे परिकीर्तिता ॥ १२ ॥

धर्मः सर्वसमानाख्यो यथा भवति सर्वदा ।
कर्मानुसारभावेन फलं नित्यं ददाति सः ॥ १३ ॥

स्वं परं नैव देवेशाः कदा धर्मस्य वर्तते ।
शुभाशुभं कृतं येन तादृशं स फलं लभेत् ॥ १४ ॥

[[२२]]

समानं वैष्णवं ब्रह्म तेन धर्मः स्थितोऽभवत् ।
पूर्वद्वारे महाभागाः सर्वधर्मप्रकाशकाः ॥ १५ ॥

आदौ स्वधर्मनिष्ठश्चेत्ततः सर्वं नरोत्तमः ।
लभते नात्र सन्देहः कारणं धर्म एव च ॥ १६ ॥

विष्णोरङ्गमयो धर्मो विष्णुद्वारे समाश्रितः ।
अतः प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् ॥ १७ ॥

अर्थः समर्थरूपाख्य ईश्वरान्न परोत्तमः ।
समर्थस्तेन देवेन्द्रा अर्थस्तत्र समाश्रितः ॥ १८ ॥

समर्थभावेन यदि केऽपि तिष्ठन्ति देवताः ।
ते सर्वे तत्कलांशाश्च ज्ञातव्या नाऽत्र संशयः ॥ १९ ॥

ईश्वरः सर्वशास्त्रेषु शिव एकः प्रकीर्तितः ।
अर्थः शिवाङ्गात् सम्भूतस्तेन तं संश्रितोऽभवत् ॥ २० ॥

धर्मं कृत्वा समर्थश्च भवते मानवोत्तमः ।
सर्वकार्येषु देवेन्द्राः क्रम एवं प्रकीर्तितः ॥ २१ ॥

द्वितीयाश्रितयात्रातो दक्षिणद्वारसम्भवा ।
कथिता सर्वभावज्ञैर्नरेभ्यः सर्वसिद्धये ॥ २२ ॥

कामो भोगात्मकः प्रोक्तो देहाय विषयप्रदः ।
विषयानां समाख्यातं कारणं शक्तिरञ्जसा ॥ २३ ॥

शक्तेरङ्गात् समुद्भूतः कामस्तेन महेश्वराः ।
तामाश्रित्य स्थितः सोऽपि सर्वकामविवर्धनः ॥ २४ ॥

आदौ धर्मं समाश्रित्य समर्थो जायते नरः ।
ततः कामान् स्वयं भुङ्क्ते सर्वान्नानासुखप्रदान् ॥ २५ ॥

तृतीयं द्वारमेतस्मात् कामभोगफलप्रदम् ।
कृतं यात्राविधाने तु ज्ञातव्यं विबुधैः सदा ॥ २६ ॥

मोक्षो जन्ममृतिभ्यां च हीनः सङ्कीर्तितो बुधैः ।
शुक्लां गतिं ददत्तत्र सूर्यस्तिष्ठति नित्यदा ॥ २७ ॥

आत्मा सूर्य इति प्रोक्तं तस्मान् मोक्षः प्रलभ्यते ।
तेन सूर्यं समाश्रित्य मोक्षस्तत्रैव तिष्ठति ॥ २८ ॥

कामेभ्यो धर्मसंयुक्तस्तृप्तो भवति मानवः ।
इच्छेन् मुक्तिं ततो यत्नाद्वितृष्णो देवसत्तमाः ॥ २९ ॥

वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते ।
अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् ॥ ३० ॥

एतद् द्वारस्य देवेशा रहस्यं कथितं मया ।
श्रवणात् सौख्यदं पूर्णं भवेत पठनात्तथा ॥ ३१ ॥

एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितम् ।
वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ॥ ३२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्ग्ले महापुराणेषष्ठे खण्डे विकटचरिते द्वाररहस्यवर्णनं नाम दशमोऽध्यायः ॥

[[२३]]