०९ मयूरेशद्वारयात्राविधिवर्णनम्

॥ श्रीगणेशाय नमः ॥

देवा ऊचुः ।
द्वारेषु देवपाः सन्ति द्वारधारकभावतः ।
तेषां पूजनमार्गं तु वद विघ्नेश्वरस्य च ॥ १ ॥

भ्रूशुण्ड्युवाच ।
क्षेत्रमध्ये गणेशानस्तिष्ठति सर्वदायकः ।
शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुधरः प्रभुः ॥ २ ॥

पृथूदरो विशालाक्षस्त्रिनेत्रः स्वस्तिकासनः ।
पाशाङ्कुशधरः सोऽपि दन्ताभयविराजितः ॥ ३ ॥

नाभिशेषो विचित्रैश्च भूषणैर्वस्त्रकादिभिः ।
नागयज्ञोपवीती तु शूर्पकर्णो विराजति ॥ ४ ॥

तस्य वामाङ्गभागे च सिद्धिः सर्वप्रदाऽमराः ।
द्विभुजा संस्थिता माया चामरव्यजनान्विता ॥ ५ ॥

दक्षिणाङ्गे तथा बुद्धिर्द्विहस्ता ज्ञानरूपिणी ।
सुगन्धवस्तुलेपार्थं संस्थिता सेवनोत्सुका ॥ ६ ॥

सम्मुखे मूषकस्तस्य मयूरश्च विराजति ।
प्रमोदाऽऽमोदकाद्याश्च गणाः पृष्ठे स्थितास्तथा ॥ ७ ॥

वैदिकेन च मार्गेण नमोऽन्तेन प्रपूजयेत् ।
पौराणिकेन देवेशा गणेशं सर्वसिद्धिदम् ॥ ८ ॥

ततः पूर्वदिशायां स गत्वा द्वारसमास्थितम् ।
पूजयेद्गणनाथं तं सशक्तिपरिवारकम् ॥ ९ ॥

द्विभुजं गणनाथं तु वामभागे जगन्मयीम् ।
माञ्जारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुतः ॥ १० ॥

तत्र ध्यानं समाख्यामि गजवक्त्रं गजाननम् ।
एकहस्ते धृताऽम्भोजं द्वितीयाऽऽलिङ्गितप्रियम् ॥ ११ ॥

कपोलौ मदसंस्रावयुक्तौ भ्रमरसंयुतौ ।
सदानन्दमयं देवाश्चिन्तयेद्गणनायकम् ॥ १२ ॥

द्विभुजां शक्तिमुख्यां वै दक्षिणाऽऽलिङ्गितप्रियाम् ।
वामहस्तेन पद्मं सा बिभ्रतीं चिन्तयेद् हृदि ॥ १३ ॥

भक्ताभीष्टप्रदां पूर्णां सदानन्दसमन्विताम् ।
मायां संसारदुःखानां नाशिनीं भक्तिकारिणाम् ॥ १४ ॥

देवेशा ऊचुः ।
माञ्जारिका त्वया प्रोक्ता माया गणपतेः प्रिया ।
तस्याः स्वरूपगं ज्ञानं वद नो गुरुसत्तम ॥ १५ ॥

भ्रूशुण्ड्युवाच ।
जारः सर्वत्र शब्दश्च व्यभिचार्यर्थवाचकः ।
सर्वेषु जारभावेषु मता नानार्थकारिणी ॥ १६ ॥

तेषु पुरुषरूपेण स्थित आत्मा सदैककः ।
तस्य जारादिकं नास्ति भ्रान्तिभावात्मकं कदा ॥ १७ ॥

तथापि देहसंस्थश्च माययात्मा प्रमोहितः ।
द्वन्द्वभावेषु देवेन्द्रास्तदाकारो बभूव ह ॥ १८ ॥

आत्मनो जारभावं तु दर्शयं?ति निरन्तरम् ।
मोहयित्वा क्रीडति तेन स्वयं शक्तिरुत्तमा ॥ १९ ॥

माञ्जारी सा समाख्याता मां प्रति जारदर्शिनी ।
गणपः क्रीडति द्वन्द्वविहारस्थः सदा तया ॥ २० ॥

तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ ।
समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ ॥ २१ ॥

तेषां पूजनकं कार्यं यथाविधि सुरेश्वराः ।
तेन धर्मस्य भवति सम्प्राप्तिस्तस्य शाश्वती ॥ २२ ॥

विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकम् ।
देवेशास्तादृशं कार्यं तेन सिद्धिमवाप्स्यथ ॥ २३ ॥

मासे भाद्रपदे चैव शुक्लपक्षे विशेषतः ।
प्रतिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता ॥ २४ ॥

प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेत् ।
ततः स्नानं नरः कृत्वा द्वारदेवीं समर्चयेत् ॥ २५ ॥

पुनः स्नानं ततः कृत्वा गणेशं पूजयेत् स्वयम् ।

[[२०]]

उपोषणयुतश्चैव सदा तिष्ठेत् स देवपाः ॥ २६ ॥

नियमस्थः स्वभावेन गणेशस्मरणादिकम् ।
कुर्यात्तद्वत् द्वितीयायां दक्षिणद्वारमर्चयेत् ॥ २७ ॥

तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः ।
माया च द्विभुजा प्रोक्ता पूर्ववत् ध्यानगावुभौ ॥ २८ ॥

विरजा नाम विख्याता शक्तिस्तत्र महेश्वराः ।
तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदम् ॥ २९ ॥

त्रिविधं तु रूजोरूपं मलिनं सर्वगं बभौ ।
तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते ॥ ३० ॥

गणेशसंयुता देवी तन्मयी विरजा परा ।
तयोर्मानसिकौ पुत्रौ पार्वतीशङ्करौ मतौ ॥ ३१ ॥

तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः ।
तया सर्वार्थसंसिद्धिर्लभ्यते नात्र संशयः ॥ ३२ ॥

तृतीयायां ततो वै स पश्चिमद्वारदेवताम् ।
पूजयेद्विधिसंयुक्त उपोषणपरायणः ॥ ३३ ॥

देवीगणेश्वरौ तत्र पूर्वं ध्यानात्मकौ स्थितौ ।
आश्रया नाम शक्तिः सा सर्वाश्रयधरा बभौ ॥ ३४ ॥

तयोर्मानसिकौ पुत्रौ रतिकामौ प्रकीर्तितौ ।
तेषां पूजां प्रकुर्यात् स तेन कामान् लभेन्नरः ॥ ३५ ॥

ततश्चतुर्थिकायां स गच्छेदुत्तरगां पराम् ।
द्वारशक्तिं महादेवा ?भक्तिमुक्तिसमन्विताम् ॥ ३६ ॥

देव्या गणेश्वरस्यात्र ध्यानं पूर्ववदुच्यते ।
तयोर्मानसिकौ पुत्रौ महीवराहकौ मतौ ॥ ३७ ॥

तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन च ।
तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः ॥ ३८ ॥

चतुर्थ्यां गणनाथं स पूजयेद्विधिसंयुतः ।
मध्याह्नसमये देवा उपोषणपरायणाः ॥ ३९ ॥

रात्रौ जागरणं कुर्यात् पञ्चम्यां पारणं चरेत् ।
द्विजैः सह नरः साक्षाच्चतुर्विधफलं लभेत् ॥ ४० ॥

एवं माघे शुक्लपक्षे द्वारयात्रां समाचरेत् ।
ज्येष्ठे मासि तथा देवा वार्षिकं त्रिविधं स्मृतम् ॥ ४१ ॥

अथवा प्रतिमासेषु शुक्लपक्षे समाचरेत् ।
द्वारयात्रामथो नित्यं नरः सर्वार्थसिद्धिभाक् ॥ ४२ ॥

अथवा गणराजस्य यात्रार्थं यः समागतः ।
तस्मिन् काले चरेद्यात्रां द्वारभूतां महेश्वराः ॥ ४३ ॥

न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि ।
चतुर्भिर्दिवसैर्जन्तुः कुर्याद्यात्रां विधानतः ॥ ४४ ॥

अन्यच्च सम्प्रवक्ष्यामि द्वारयात्रामयं विधिम् ।
देहसामर्थ्ययुक्तानां चतुर्विधफलप्रदम् ॥ ४५ ॥

शुक्ला चतुर्थिका प्रोक्ता तस्यां द्वारमयीं चरेत् ।
यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यतः ॥ ४६ ॥

सूर्योदयात् समारभ्य पूजां स्वल्पां समाचरेत् ।
यावन्नास्तगतो भानुस्तावन्मध्ये समापयेत् ॥ ४७ ॥

किञ्चिद्दिवसशेषे स गणनाथस्य पूजनम् ।
विधियुक्तं नरो भक्त्या कुर्यात्तस्मिन् दिने स्वयम् ॥ ४८ ॥

अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः ।
तत्रैकदिवसे यात्रां प्रकुर्याच्छक्तिभावतः ॥ ४९ ॥

वृद्धानां रोगयुक्तानां नियमो नैव विद्यते ।
बालानां स्वेच्छया तत्र यात्रा प्रोक्ता मनीषिभिः ॥ ५० ॥

अथवा ब्राह्मणेनैव नरो यात्रां समाचरेत् ।
द्वाररूपां स्वयं तत्र वाहनस्थो गतिं चरेत् ॥ ५१ ॥

[[२१]]

शक्त्याः प्रमाणभावेन पूजयेत् द्वारसंयुतम् ।
गणेशं विधिसंयुक्तश्चतुर्विधफलं लभेत् ॥ ५२ ॥

गणेशं द्वारसंयुक्तं यो नरः पूजयेत् कदा ।
यत्र तत्र गतश्चाऽसौ धर्मकामार्थमोक्षभाक् ॥ ५३ ॥

न तस्य मरणे देवा या मतिः सा गतिर्भवेत् ।
न भूम्यादिविकारश्च नीचोच्चो नैव विद्यते ॥ ५४ ॥

एतत् द्वारस्य माहात्म्यं यः शृणोति नरोत्तमः ।
स वै संस्कारयोगेन भुक्तिं मुक्तिं लभेत् पराम् ॥ ५५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ॥