॥ श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच ।
चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः ।
अधुना द्वारविस्तारं कथयामि समासतः ॥ १ ॥
पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ ।
ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥ २ ॥
ब्रह्माण्डे वैष्णवान्येव क्षेत्राणि विविधानि च ।
तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥ ३ ॥
लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु ।
लक्ष्मीवासकराण्येव प्रोक्तानि शास्त्रसम्मतम् ॥ ४ ॥
दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः ।
गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः ॥ ५ ॥
[[१७]]
क्षेत्राणि यानि ब्रह्माण्डे स्वयं शैवानि शङ्करः ।
ससृजे च ततः शक्तिः शाक्तानि विविधानि वै ॥ ६ ॥
रतिकामौ ससृजतुः पश्चिमद्वारसंस्थितौ ।
प्रभावाद्विघ्नराजस्य क्षेत्राणि किल मायया ॥ ७ ॥
क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नतः ।
दिक्पालक्षेत्ररूपाणि सृष्टानि मदनेन तु ॥ ८ ॥
उत्तरद्वारसंस्थौ तौ महीवाराहकौ परौ ।
स्वक्षेत्राणि ससृजतुः परौ गणपमायया ॥ ९ ॥
सञ्ज्ञाक्षेत्राणि यावन्ति भूम्यां सृष्टानि तानि तु ।
सौराण्येवं वराहेण सृष्टानि विविधानि तु ॥ १० ॥
परिवारयुता देवाः परं तेपुस्तपो महत् ।
क्षेत्रज्ञाः क्षेत्रसंयुक्ताः गणेशस्य महात्मनः ॥ ११ ॥
नानामन्त्रजपेनैव ध्यात्वा देवं गजाननम् ।
तोषयामासुरत्यन्तभक्त्या नित्यं विशेषतः ॥ १२ ॥
उपोषणयुतानि क्षेत्राणि ता देवतास्तथा ।
पूजयामासुरव्यग्राः क्षेत्रस्थं गणनायकम् ॥ १३ ॥
एवं वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ।
आययौ तान् वरान् दातुं स क्षेत्रान् देवमुख्यकान् ॥ १४ ॥
तं दृष्ट्वा सहसोत्थाय प्रणेमुस्ते गजाननम् ।
पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ १५ ॥
सक्षेत्रा देवा ऊचुः ।
ब्रह्मणे विघ्नराजाय स्वानन्दस्थाय ते नमः ।
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ १६ ॥
गणेशाय नमस्तुभ्यं भुक्तिमुक्तिप्रदायिने ।
नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥ १७ ॥
सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे ।
गुणेशाय गुणानां तु चालकाय नमो नमः ॥ १८ ॥
परेशाय परेशेभ्यो मोहदाय गजानन ।
सर्वयोगमयायैव योगेशाय नमो नमः ॥ १९ ॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिप्रदात्रे ते नमश्चिन्तामणे नमः ॥ २० ॥
पूर्वाङ्गे विष्णुरूपाय दक्षिणाङ्गे शिवात्मने ।
पश्चिमाङ्गे च मायायै रवये उत्तराङ्गके ॥ २१ ॥
चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा ।
नानाविधं तथा त्वां तु कश्च स्तोतुं क्षमो भवेत् ॥ २२ ॥
वयं धन्या वयं धन्या दृष्टवन्तो गजाननम् ।
ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं परम् ॥ २३ ॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गा गजानन ।
किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥ २४ ॥
एवं स्तुत्वा गणेशानं देवाः क्षेत्रसमन्विताः ।
प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥ २५ ॥
ततस्तान् प्रत्युवाचेदं वचनं गणनायकः ।
भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥ २६ ॥
श्रीगणेश उवाच ।
वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः ।
दास्यामि तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥ २७ ॥
स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् ।
स मत्प्रियो भवेद्देवाः शृणुयाच्छ्रावयेत्तथा ॥ २८ ॥
भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् ।
पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥ २९ ॥
मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् ।
सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥ ३० ॥
गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः ।
तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥ ३१ ॥
[[१८]]
सक्षेत्रा देवा ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥ ३२ ॥
किमर्थं तु वयं सर्वे सृष्टा वद गजानन ।
कार्यं ब्रूहि करिष्यामस्त्वदाज्ञावशभावतः ॥ ३३ ॥
स्वानन्दे वासकार्यार्थं देहि स्थानं महोदर ।
तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥ ३४ ॥
स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते ।
त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥ ३५ ॥
भ्रूशुण्ड्युवाच ।
तेषां वचनमाकर्ण्य गणेशः करुणानिधिः ।
जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥ ३६ ॥
श्रीगणेश उवाच ।
धर्मार्थकाममोक्षान् वै ददतु क्षेत्रकाणि मे ।
वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥ ३७ ॥
धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा ।
कामदानि भवन्त्येव मोक्षदानि विभागशः ॥ ३८ ॥
कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु ।
कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि तु ॥ ३९ ॥
तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः ।
दर्शनेन भवन्त्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥ ४० ॥
नामानि गणनाथश्च चकार विविधानि सः ।
काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥ ४१ ॥
पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः ।
क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥ ४२ ॥
पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानन्दरूपिणि ।
वासं कृत्वा सदा मां तु भजिष्यथ निरन्तरम् ॥ ४३ ॥
स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै ।
क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥ ४४ ॥
स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः ।
मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥ ४५ ॥
सर्वक्षेत्राणि ये भूम्यां करिष्यन्ति विधानतः ।
देवान् यथाविधि प्राज्ञा पूजयिष्यन्ति मानवाः ॥ ४६ ॥
तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः ।
ब्रह्मभूता भविष्यन्ति मत्क्षेत्रे मरणे सति ॥ ४७ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
क्षेत्राणि हर्षयुक्तानि संस्थितान्येव तत्र तु ॥ ४८ ॥
पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः ।
सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥ ४९ ॥
यथा गजाननः प्राह तथा सर्वे महेश्वराः ।
कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥ ५० ॥
तत्र ते संस्थिता देवाः सक्षेत्रा ह्रस्वरूपकाः ।
स्वानन्दक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥ ५१ ॥
एतत् क्षेत्रामराणां वै चेष्टितं यः शृणोति वा ।
पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥
[[१९]]