॥ श्रीगणेशाय नमः ॥
शक्तय उचुः ।
अहो शक्ते महाच्चित्रं चरित्रं मुख्यकं श्रुतम् ।
भ्रूशुण्डिनश्च सन्तुष्टा वयं जाता न संशयः ॥ १ ॥
अधुना मुनिदेवानां संवादं वद सौख्यदम् ।
यत्र विघ्नेश्वरस्यैव ज्ञानं सङ्गीयतेऽमलम् ॥ २ ॥
आदिशक्तिरुवाच ।
शृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् ।
सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥ ३ ॥
भ्रूशुण्डिवचनं श्रुत्वा हर्षिताः शङ्करादयः ।
ऊचुस्तं प्रणिपत्यैव वृत्तान्तं पूर्वसम्भवम् ॥ ४ ॥
शिवादय ऊचुः ।
कोऽसौ गणेश्वरः स्वामिन् नरकुञ्जरवेषभृत् ।
तस्य ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥ ५ ॥
भ्रूशुण्ड्युवाच ।
संयोगवाचकः प्रोक्तो गकारश्च णकारकः ।
अयोगात्मकसञ्ज्ञो वै तयोः स्वामी गणेश्वरः ॥ ६ ॥
अविनाशिपदं वेदे प्रोक्तं तद्गजवाचकम् ।
मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥ ७ ॥
नाशवद्विश्वमेतद्वै तदेव देहरूपगम् ।
कण्ठाधो नात्र सन्देहस्तयोर्योगे गजाननः ॥ ८ ॥
चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः ।
चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥ ९ ॥
जीवात्मपरमात्मानौ पादौ तस्य महात्मनः ।
द्विपदो गणराजोऽतः कथ्यते वेदवादतः ॥ १० ॥
तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः ।
तेन लम्बोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥ ११ ॥
भ्रान्तिदा गणराजस्य मायासिद्धिः प्रकीर्तिता ।
वामाङ्गाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥ १२ ॥
पञ्चचित्तमयी साक्षाद्बुद्धिर्भ्रान्तिधरा परा ।
दक्षिणाङ्गाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥ १३ ॥
तयोः स्वामी गणेशानो योगशान्तिमयः स्वयम् ।
भक्तवत्सलभावेन देहधारी बभूव ह ॥ १४ ॥
स एव ज्ञानगो देवा भवतां कार्यसिद्धये ।
बभूव तं भजध्वं तु तेन सर्वं शुभं भवेत् ॥ १५ ॥
श्रुत्वैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु ।
ऊचुर्विस्मितचित्तास्ते गुरुं भ्रूशुण्डिनं वचः ॥ १६ ॥
ब्रह्मादय ऊचुः ।
त्वं साक्षाद्गणराजो वै शुण्डादण्डविराजितः ।
अस्माकं गुरुराद्यश्च बोधदातर्नमोऽस्तु ते ॥ १७ ॥
त्वदीयवचनेनैव गणेशार्थविचक्षणाः ।
जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥ १८ ॥
अधुना वद माहात्म्यं भजनस्य विशेषतः ।
तत्र स्थानं च मन्त्रादिविधियुक्तं महामुने ॥ १९ ॥
भ्रूशुण्ड्युवाच ।
समाधिना भवन्तोऽपि गताः पुरा महेश्वराः ।
भेदाभेदादिहीने तु ब्रह्मणि तन्मयत्वतः ॥ २० ॥
अधुना दण्डकारण्ये तादृशं क्षेत्रमुत्तमम् ।
स्वानन्दाख्यं च तत्रैव तपध्वं गणपे रताः ॥ २१ ॥
मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदि तादृशीम् ।
पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥ २२ ॥
एवमुक्त्वा महायोगी भ्रूशुण्डी विरराम ह ।
गणेशभक्तराजेन्द्रो देवेशास्तं जगुः पुनः ॥ २३ ॥
शिवाद्या ऊचुः ।
कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते ।
कीदृशं तस्य माहात्म्यं वद योगीन्द्रसत्तम ॥ २४ ॥
तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च ।
किमर्थं भूमिसंस्थोऽयं गणेशः सम्बभूव ह ॥ २५ ॥
[[१५]]
तत्र सिद्धिं समाजग्मुः सेव्य विघ्नेश्वरं नराः ।
माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽसि महामुने ॥ २६ ॥
गणनाथेन साक्षात्त्वं दर्शितो गुरुरादरात् ।
वयं शिष्यास्त्वदीयाश्च शाधि सर्वान् हिताय नः ॥ २७ ॥
तेषां वचनमाकर्ण्य भ्रूशुण्डी पुनरब्रवीत् ।
गाणपत्यविचारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ २८ ॥
भ्रूशुण्ड्युवाच ।
क्षेत्रं गणेश्वरस्यैव त्रिविधं परिकीर्तितम् ।
तेषां भेदं प्रवक्ष्यामि शृणुध्वं त्वेकचेतसः ॥ २९ ॥
स्वर्गे शम्भुगृहे चैव पाताले शेषमन्दिरे ।
पृथिव्यां तु मयूरेशे क्षेत्रं विघ्नपतेः स्मृतम् ॥ ३० ॥
तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा ।
वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य देवपाः ॥ ३१ ॥
प्रकृतिः सर्वरूपा तु पुरुषश्चात्मसञ्ज्ञकः ।
तयोः संयोगभावे तु स्वानन्दः परिकथ्यते ॥ ३२ ॥
स्वसंवेद्येन योगेन लभ्यते मानवैः परम् ।
तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् ॥ ३३ ॥
तत्रैव संस्थितः साक्षाद्गणेशो योगवाचकः ।
तेन संरचितं स्वस्य मायया ब्रह्मदायकम् ॥ ३४ ॥
तस्य रूपं कथयितुं निजानन्दं न शक्यते ।
सर्वक्षेत्रसमायोगो ज्ञातव्यं क्षेत्रमुत्तमम् ॥ ३५ ॥
ततः स्वस्येच्छया देवा गणेशेन स्वमायया ।
सृष्टं चतुर्विधं तस्मात् क्षेत्रात् खेलनभावतः ॥ ३६ ॥
पश्चिमाङ्गादसद्रूपं ब्रह्म शक्तिमयं परम् ।
निःसृतं तत् द्विधा जातं स्वभावेन महेश्वराः ॥ ३७ ॥
रतिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः ।
भोक्ता तयोः समायोगे द्वारं तच्च प्रकीर्तितम् ॥ ३८ ॥
हृदि सर्वजनानां या रतिरुत्पद्यते परा ।
तया मोहितचित्तास्ते भ्रमन्ति विषये रताः ॥ ३९ ॥
तत्र चालकरूपेण संस्थितः पुरुषो महान् ।
कामस्तेन जनाः सर्वे नाना कार्ये परायणाः ॥ ४० ॥
भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि ।
तदा शाक्तं लभेत् सोऽपि ब्रह्मासद्वाचकं परम् ॥ ४१ ॥
तेन द्वारेण विघ्नेशं साधयित्वा च योगिनः ।
गच्छन्ति तेन देवेन्द्रा द्वारं शास्त्रे प्रकथ्यते ॥ ४२ ॥
उत्तराङ्गाद्गणेशस्य समुद्भूतं स्वभावतः ।
ब्रह्म सौरं सदा सत्यवाचकं देवसत्तमाः ॥ ४३ ॥
तदेव द्विविधं जातं कर्म ज्ञानप्रभेदतः ।
इच्छया गणराजस्य तच्छृणुध्वं विधानतः ॥ ४४ ॥
कर्माधारं जगत् सर्वं कर्म सृष्टं प्रवर्तते ।
अन्ते कर्मगतं भावि शास्त्रेषु तन्मयत्वतः ॥ ४५ ॥
आधारात्मकभावेन संस्थिता धरणी परा ।
कर्मरूपा महामाया सञ्ज्ञा सूर्यस्य भामिनी ॥ ४६ ॥
वराहो ज्ञानरूपश्च सदा निःसङ्गभावतः ।
कर्मजातिषु तिष्ठेत्तु स एव रविवाचकः ॥ ४७ ॥
कर्मयोगयुताः केचित् केचित् ज्ञानपरायणाः ।
भ्रमन्ति द्विविधे भावे यन्त्रिता मोहसंयुताः ॥ ४८ ॥
कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः ।
तयोर्योगेऽमृतं ब्रह्म प्राप्नुयात् रविवाचकम् ॥ ४९ ॥
अथवा सौरमार्गेण लभ्यते भक्तमुख्यकैः ।
तदेव द्वाररूपं वै वदन्ति गणपस्य च ॥ ५० ॥
तेन द्वारेण योगीन्द्रा गच्छन्ति गणनायकम् ।
बुधैस्तद् द्वारमाख्यातमुत्तराङ्गं विशेषतः ॥ ५१ ॥
ततो गणेश्वरस्यैव पूर्वाङ्गान्निःसृतं परम् ।
ब्रह्मानन्दमयं पूर्णं समभागप्रकाशकम् ॥ ५२ ॥
सत्यासत्यात्मके देवाः समरूपेण संस्थितम् ।
वैष्णवं सर्वमान्यं तु तदेव द्विविधं बभौ ॥ ५३ ॥
लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः ।
द्विविधं शोभया युक्तं कृतं तया विशेषतः ॥ ५४ ॥
लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः ।
शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥ ५५ ॥
यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् ।
भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥ ५६ ॥
तस्याश्चालकरूपश्च विष्णुः साम्ये व्यवस्थितः ।
आनन्दभुक् विशेषेण द्वन्द्वमायाधरो बभौ ॥ ५७ ॥
तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते ।
आनन्दवाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥ ५८ ॥
गणेशप्राप्तये देवा द्वारमानन्दधारकम् ।
तच्च क्षेत्रस्य पूर्वाङ्गं गाणेशस्य प्रकथ्यते ॥ ५९ ॥
ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् ।
निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥ ६० ॥
तदेव शाङ्करं ब्रह्म सहजं सर्वसम्मतम् ।
मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥ ६१ ॥
स्वेच्छारूपा महामाया पार्वती कथिता बुधैः ।
इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥ ६२ ॥
तत्र मोहविहीनश्च शङ्करः कथ्यते परः ।
स्वाधीनः शैवभक्तेभ्यश्चतुर्थं ब्रह्म उच्यते ॥ ६३ ॥
तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् ।
द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥ ६४ ॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ ६५ ॥
तदेव गणराजस्य क्षेत्रं स्वानन्दवाचकम् ।
चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ ६६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥