॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
मयूरनामकं क्षेत्रं भूस्वानन्दमयं कथम् ।
बभूव तत् समाचक्ष्व परं कौतूहलं त्विदम् ॥ १ ॥
पुरा कथं शिवाद्यैश्च सिद्धिः प्राप्ता जगन्मयि ।
वद तत्र कथं तेषां भ्रूशुण्डी चाऽभवद् गुरुः ॥ २ ॥
कीदृशं क्षेत्रमुख्यं तु केन तत्र गजाननः ।
स्थापितः पूर्वकाले वै के के सिद्धिमवाप्नुयुः ॥ ३ ॥
वद शक्ते मयूरस्य माहात्म्यं सर्वसिद्धिदम् ।
क्षेत्रस्य स्वल्पकालेन लभते स्वेप्सितं नरः ॥ ४ ॥
मुद्गल उवाच ।
एवं पृष्टा महामाया शक्तिभिश्च प्रजापते ।
भक्तियुक्ताभिरत्यन्तमादरात्ता उवाच सा ॥ ५ ॥
तत्तेऽहं शृणु वक्ष्यामि सर्वसिद्धिप्रदायकम् ।
श्रवणेन न सन्देहो ब्रह्मभूतपदप्रदम् ॥ ६ ॥
आदिशक्तिरुवाच ।
अत्राहं कथयिष्यामीतिहासं परमाद्भुतम् ।
भ्रूशुण्डिनः शिवादीनां संवादात्मकमुत्तमम् ॥ ७ ॥
कदाचित् प्रलये वृत्ते नष्टे स्थावरजङ्गमे ।
ब्रह्मविष्णुशिवाद्याश्च लयं ययुः स्वभावतः ॥ ८ ॥
ततोऽतिलयवेगेन पञ्चभूतानि शक्तयः ।
लयं प्राप्तानि सर्वत्र शून्यरूपं बभूव ह ॥ ९ ॥
ततो जागृन्मयं ब्रह्म स्थूलभूतं लयं गतम् ।
तथा सूक्ष्मं महादेव्यः स्वाप्नं प्रलयवेगतः ॥ १० ॥
समभावमयं ब्रह्म सौषुप्तं तल्लयं गतम् ।
ततः प्रकृतिरूपा सा पुरुषे तन्मयी ह्यभूत् ॥ ११ ॥
पुरुषो ब्रह्मणि स्वात्मैकभावं संस्थितोऽभवत् ।
ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगं परम् ॥ १२ ॥
एवं महालये प्राप्ते क्षेत्रं स्वानन्दवाचकम् ।
स्वसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदम् ॥ १३ ॥
तदा विघ्नेश्वरः साक्षाद् योगनिद्रापरायणः ।
क्षेत्रे मयूरे सुष्वाप तदाकारधरः प्रभुः ॥ १४ ॥
ततो बहौ गते काले निद्राहीनो बभूव ह ।
निःश्वासतोऽभवन्नस्य सोङ्कारा निगमाः पुरा ॥ १५ ॥
तैः स्तुतो बोधितश्चैव ससर्ज सकलं पुनः ।
प्रकृतिं पुरुषाद्यं च नानातत्त्वस्वरूपकम् ॥ १६ ॥
तत्त्वैस्त्रिगुणकं सृष्टं स्थूलसूक्ष्मसमात्मकम् ।
त्रिविधं तु विराड्रूपं नानाभेदप्रसूतकम् ॥ १७ ॥
ततस्त्रिविधरूपं च नानाभिन्नं बभूव ह ।
चराचरात्मकं ब्रह्म पञ्चभूतमयं बभौ ॥ १८ ॥
भिन्नानि पञ्चभूतानि व्यवस्थासंयुतानि तु ।
बभूवुरादिकालेऽहं तेषां सृष्टिं वदामि वः ॥ १९ ॥
नाभेः समुद्भवस्तस्य ब्रह्मा लोकपितामहः ।
मुखाद्विष्णुः स्वयं पाता गणेशस्य चतुर्भुजः ॥ २० ॥
नेत्राच्छिवः समुत्पन्नो वामाङ्गात्तस्य चाऽभवम् ।
अहं भानुर्दक्षिणाङ्गात् पञ्च देवाः पुरातनाः ॥ २१ ॥
अज्ञानेन समायुक्ता न विदुः स्वपरं तदा ।
देवा ज्ञानप्रसिद्ध्यर्थं तपश्चेरुर्महाद्भुतम् ॥ २२ ॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकम् ॥ २३ ॥
मन्त्रं प्राप्य महेशाना जेपुर्विघ्नेशमाभजन् ।
गते वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ॥ २४ ॥
आदौ शङ्करहृद्देशे दर्शयामास रूपकम् ।
नरनागमयं पूर्णं चतुर्भुजादिचिह्नितम् ॥ २५ ॥
तं दृष्ट्वा विस्मितः सोऽपि चित्ते विचारमाकरोत् ।
नरकुञ्जररूपोऽयं चित्ते मे कः प्रतिष्ठति ॥ २६ ॥
[[१३]]
यावत्तं प्रष्टुमारेभे तावदन्तर्हितं वपुः ।
ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥ २७ ॥
न ददर्श महद्रूपं सर्वमङ्गलमङ्गलम् ।
ततो विह्वलचित्तोऽसौ जगाम विष्णुसन्निधौ ॥ २८ ॥
तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् ।
शिवस्तस्मै स्ववृत्तान्तं कथयामास हृद्गतम् ॥ २९ ॥
शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः ।
एवं क्रमेण पञ्चैते देवेशा मिलिता जगुः ॥ ३० ॥
परस्परं विचार्यैते ध्यानं विस्मितमानसाः ।
ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥ ३१ ॥
ततस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः ।
सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥ ३२ ॥
तत आकाशजां वाणीं शुश्रुवुस्ते महौजसः ।
ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥ ३३ ॥
आकाशवागुवाच ।
गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः ।
यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥ ३४ ॥
प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् ।
बीजमेकाक्षरं मे वै सिद्धा यूयं जपात्ततः ॥ ३५ ॥
साक्षान्मे दर्शने देवा नाधिकारोस्ति निश्चितम् ।
योगहीनप्रभावत्वात्ततश्चान्तर्हितोऽभवम् ॥ ३६ ॥
भ्रूशुण्डिनं महाभक्तं पृच्छध्वं सर्वमञ्जसा ।
गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥ ३७ ॥
तत् ज्ञात्वा देवदेवा मां भविष्यथ समर्थकाः ।
सन्द्रष्टुं नात्र सन्देहस्ततः सिद्धिमवाप्स्यथ ॥ ३८ ॥
एवमुक्त्वा गणेशानः स्वस्थः सोऽन्तर्हितोऽभवत् ।
शिवादयः प्रणम्यैव युयुस्तं मुनिपुङ्गवम् ॥ ३९ ॥
अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः ।
भ्रूशुण्डिनं प्रणम्यैते संस्थिता हर्षसंयुताः ॥ ४० ॥
ऊचुः प्राञ्जलयः सर्वे तं मुनिं शुण्डयायुतम् ।
एकमेव स्थितं पूर्णयोगानन्दमयं परम् ॥ ४१ ॥
देवेशा ऊचुः ।
धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् ।
धन्योऽपि योगिनां मध्य आदिमध्यान्तवर्जितः ॥ ४२ ॥
सोऽपि तान् पूजयामास ज्ञात्वा देवतमान् मुनिः ।
कृत्वाऽऽतिथ्यं जगादैवं भ्रूशुण्डी परमार्थवित् ॥ ४३ ॥
भ्रूशुण्ड्युवाच ।
जगतां मूलरूपाश्च भवन्तो जगदीश्वराः ।
समागता मदीये मे आश्रमे भाग्यगौरवात् ॥ ४४ ॥
किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् ।
आदिमध्यान्तभावज्ञा विश्वपालाः परेश्वराः ॥ ४५ ॥
शक्तय ऊचुः ।
महालये भ्रूशुण्डी च कथं लयविवर्जितः ।
वद शक्ते मुनेस्तस्य चरितं परमाद्भुतम् ॥ ४६ ॥
मुद्गल उवाच ।
महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् ।
श्रुत्वा ता जगदम्बा सा कथयामास हर्षिता ॥ ४७ ॥
पुरा भ्रूशुण्डिचरितं मया रम्यं प्रकाशितम् ।
श्रुत्वा संशयहीनास्तां पप्रच्छुर्विनयान्विताः ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते भ्रूशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः ॥
[[१४]]