॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
अहो कामासुरस्यैवं प्रभावः परमाद्भुतः ।
शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥ १ ॥
एतादृशो महादैत्यो न श्रुतस्ते मुखाम्बुजात् ।
अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥ २ ॥
आदिशक्तिरुवाच ।
कालिमुख्याः शृणुध्वं च शक्तयो मे वचो हितम् ।
यथा तं गणनाथः स जिग्ये सर्वैः सुदुर्जयम् ॥ ३ ॥
एकदा स्वसभासंस्थं कामासुरं महानृपम् ।
जगुर्दैत्याधिपाः सर्वे कृताञ्जलय आदरात् ॥ ४ ॥
दैत्येशा ऊचुः ।
महाराज महाराज कृतकृत्योऽसि निश्चितम् ।
तथापि शृणु वाक्यं नः सर्वेषां ते हितावहम् ॥ ५ ॥
चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे ।
कालेन निहताः सर्वे देवैश्छद्मप्रदर्शिभिः ॥ ६ ॥
अतस्त्वमपि राजेन्द्र शत्रुभावसमाश्रितान् ।
देवान् शम्भुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥ ७ ॥
अमरा वेदवादेषु कथिता देवपा गणाः ।
शस्त्रादिभिश्च ते सर्वे न मरिष्यन्ति कर्हिचित् ॥ ८ ॥
अतः शृणु महादैत्य विचारं शत्रुनाशकम् ।
कर्महीनप्रभावेण मरिष्यन्त्यमराः किल ॥ ९ ॥
कर्मान्ना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः ।
पुरा प्रोक्तं तु वेदेषु तादृशं कुरु मानद ॥ १० ॥
तेनैवामररूपाश्च वयं निहतकण्टकाः ।
भवामो नात्र सन्देहस्त्वत्प्रसादेन नित्यदा ॥ ११ ॥
तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः ।
साधु साधु भवद्भिः सङ्कथितं तानुवाच ह ॥ १२ ॥
अधुना दैत्यपैः सर्वैः कर्तव्यं कर्मखण्डनम् ।
महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥ १३ ॥
तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः ।
पृथिव्यां तैः कृतं कर्मखण्डनं मदसंयुतैः ॥ १४ ॥
ब्राह्मणादींश्च सन्ताड्य वर्णाश्रमविवर्जितान् ।
चक्रुस्ते पापकर्माणो दानवा दुर्जयाः खलाः ॥ १५ ॥
कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः ।
देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥ १६ ॥
ततो हाहारवं सर्वे वर्णाश्रमयुता जनाः ।
स्नानादि नैव चक्रुस्ते दैत्यसन्त्रासतापिताः ॥ १७ ॥
न स्वाहा न स्वधा कुत्र न वषट्कार एव च ।
वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥ १८ ॥
केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः ।
स्वधर्मनिरतास्तत्रावसंस्ते विगतज्वराः ॥ १९ ॥
ततोऽभवन् महादेवा उपोषणपरायणाः ।
शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥ २० ॥
कामासुरस्य नाशार्थं विचारं चक्रुरञ्जसा ।
न किञ्चित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥ २१ ॥
तत्राऽऽजगाम योगीन्द्रो मुद्गलः परमार्थवित् ।
तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥ २२ ॥
उत्थाय तं प्रणेमुस्ते शम्भुविष्णुमुखाः सुराः ।
भृग्वादयश्च योगीन्द्राः पूजयामासुरादरात् ॥ २३ ॥
आसने सुखमासीनं कृत्वा करपुटान् मुनिम् ।
शिवश्चिन्तातुरोऽत्यन्तं पप्रच्छ विनयान्वितः ॥ २४ ॥
श्रीशिव उवाच ।
धन्या वयं महायोगिन् दर्शनेन च ते प्रभो ।
गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥ २५ ॥
[[५]]
अस्माकमादिकाले तु गुरुर्भ्रूशुण्डिकः परः ।
तेन सम्बोधिता विप्र वयं ज्ञानयुता मुदा ॥ २६ ॥
गुरुस्तस्य मुनीन्द्रस्य सर्वसिद्धिप्रदायकः ।
गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥ २७ ॥
शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो ।
नोचेदन्नविहीनान्नो मृतान् पश्यसि देवपान् ॥ २८ ॥
कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् ।
अधुना कर्मनाशाद्वै हीना अन्नेन वै कृताः ॥ २९ ॥
उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने ।
उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥ ३० ॥
अतो योगीन्द्रमुख्य त्वं वदोपायं महागुरो ।
कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥ ३१ ॥
चराचरस्य रक्षार्थं कुरु कार्यमनुमत्तमम् ।
दुष्टं संहर योगीन्द्र मार्गदर्शनभावतः ॥ ३२ ॥
यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु ।
तथा हिंसा न ते स्वामिन् भविष्यति कदाचन ॥ ३३ ॥
इति तस्य वचः श्रुत्वा मुद्गलः शङ्करस्य तु ।
दयया गणनाथं स स्मरन् जगाद तं वचः ॥ ३४ ॥
मुद्गल उवाच ।
शृणु शम्भो जगन्नाथ विष्णो देवादयो वचः ।
कथयामि हितार्थाय कामासुरविनाशनम् ॥ ३५ ॥
साक्षादीश्वरूपस्त्वं गणेशांशः सदाशिव ।
तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥ ३६ ॥
तव दर्शनमात्रेण कृतकृत्या भवन्ति वै ।
नरा ईश न सन्देहस्तं किं ब्रूमि भयापहम् ॥ ३७ ॥
तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः ।
गणेशं सर्वभावेन भजध्वं सर्वदेवताः ॥ ३८ ॥
स्वानन्दस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः ।
स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥ ३९ ॥
पूर्वस्मिन् यत्र वै शम्भो सिद्धिः प्राप्ता त्वया तथा ।
देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥ ४० ॥
भूस्वानन्दे महाभाग आराधय गजाननम् ।
मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥ ४१ ॥
एकाक्षरेण मन्त्रेण चरध्वं तप उत्तमम् ।
स्वल्पकालेन विघ्नेशः प्रसन्नो भविता स्वयम् ॥ ४२ ॥
एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु ।
जगाम स्वेच्छया योगाद्गणेशभजने रतः ॥ ४३ ॥
ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे ।
मयूरेशं समाजग्मुर्दण्डकारण्यगं परम् ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः ॥