०४ कामासुरविजयवर्णनम्

॥ श्रीगणेशाय नमः ॥

आदिशक्तिरुवाच ।
कदाचिद् दैत्यराजेन्द्रो बलिमुख्यान समागतान् ।
जगाद हर्षसंयुक्तः कामासुरः प्रतापवान् ॥ १ ॥

कामासुर उवाच ।

बले रावणमुख्याश्च वचनं मे हितावहम् ।
शृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥ २ ॥

ब्रह्माण्डं हि प्रजेष्यामि वरदर्पेण निश्चितम् ।
भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥ ३ ॥

वरदानस्य माहात्म्यं वृथा भवति चान्यथा ।
न वयं जयसंहीना भविष्यामः कदाचन ॥ ४ ॥

कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येन्द्रसत्तमाः ।
हर्षयुक्ता पुनस्तं ते ऊचुः प्राञ्जलयः परम् ॥ ५ ॥

दैत्येशा ऊचुः ।
सम्यगुक्तं महाभाग वयं सर्वे त्वदात्मकाः ।
प्रजेष्यामो महेशेन्द्रान् प्रतापेन प्रभो च ते ॥ ६ ॥

न ते पराक्रमस्यैव तुलां ब्रह्माण्डमण्डले ।
लभते कोऽपि दैत्येन्द्रस्तत्र शुक्रः सहायकृत् ॥ ७ ॥

ततः सर्वे समागम्य शुक्रं नीतिविशारदम् ।
प्रणम्याऽऽपूज्य तेनैव युताः सर्वेऽपि निर्ययुः ॥ ८ ॥

अपारसेनया युक्तश्चतुरङ्गसुशोभया ।
शुशुभे कामसञ्ज्ञोऽसौ तारायुक्तो यथा विधुः ॥ ९ ॥

नानावाहनगा वीराः शस्त्रहस्ता द्रुमैर्युताः ।
पर्वतानां धराः केचिन्निर्य?यू रणदुर्मदाः ॥ १० ॥

यथा पाथोनिधिश्चैव सर्वत्र जलरूपधृक् ।
तथा सैन्यं धरायां सङ्ख्यातिगं दृश्यते हि तत् ॥ ११ ॥

बलिरावणमुख्या वै यत्र तिष्ठन्ति शक्तयः ।
नृपालैः किन्तु सेनाभिर्युद्धं कर्तुं क्षमं भवेत् ॥ १२ ॥

राजानः शरणं केचिद्ययुस्तं च मृताः परे ।
केचित् त्यक्त्वा वनं राज्यं ययुर्भयसमन्विताः ॥ १३ ॥

एवं भूमण्डलं जित्वा सप्तद्वीपसमन्वितम् ।
दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ॥ १४ ॥

ततः पातालमाविश्य शेषं नागसमन्वितम् ।
वशं कृत्वा ययुस्तेऽपि स्वर्गं देवगणैर्युतम् ॥ १५ ॥

समागतं महादैत्यैर्युतं कामासुरं खलम् ।
ज्ञात्वा देवगणाः सर्वे भयभीता बभूविरे ॥ १६ ॥

विचार्य गुरुणा सार्धं शङ्करं ते ययुस्ततः ।
त्यक्त्वा राज्यं भयोद्विग्ना ब्रह्मविष्णुमुखाः सुराः ॥ १७ ॥

ततो दैत्येन्द्रमुख्याश्च शून्यां दृष्ट्वाऽमरावतीम् ।
प्रवेशं चक्रिरे सर्वे कामासुरपुरोगमाः ॥ १८ ॥

इन्द्रासने समासीनो दैत्यपैः संवृतो बभौ ।
कामासुरस्ततो दैत्यान् स्थापयामास सन्निधौ ॥ १९ ॥

ततस्तैः संयुतः सोऽपि प्रजापतिपदं ययौ ।
तत्रैव तादृशं दृष्ट्वा ब्रह्मासनगतोऽभवत् ॥ २० ॥

बुभुजेऽसौ कियत्कालं भोगान्नानाविधान् खलैः ।
विकुण्ठमगमत् सोऽपि दैत्यपैः सुसमावृतः ॥ २१ ॥

तत्र शून्यं प्रदृश्यैव हर्षयुक्तो बभूव ह ।
कामासुरः स्वयं रेमे नानादैत्येन्द्रमुख्यकैः ॥ २२ ॥

ततो दैत्यगणान् सोऽपि जगाद हर्षसंयुतः ।
मोहेन मोहितोऽत्यन्तं गर्वयुक्तो वचः परम् ॥ २३ ॥

कामासुर उवाच ।

किं मया न जितं दैत्यास्तद्वदेत जयाम्यहम् ।
विष्णुमुख्याश्च देवेन्द्रा दुद्रुवुः क्लीबभावतः ॥ २४ ॥

न कोऽपि रणभूमौ वै सङ्ग्रामाय समागतः ।
देवेन्द्रा युद्धहीनास्तु भवामो जयशालिनः ॥ २५ ॥

[[९]]

ततस्तं शम्बरो दैत्यः प्राह वैरसमन्वितः ।
प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥ २६ ॥

शम्बरासुर उवाच ।

शम्भुं जय महाराज देवमुख्यैश्च संवृतम् ।
तदा ब्रह्माण्डकस्यैव राजा त्वं तु भविष्यसि ॥ २७ ॥

न त्वां वरप्रदो देवः शिवः शृणु वचो हितम् ।
स्वधर्मसंयुतं राजन् सर्वेभ्यः सुखदायकम् ॥ २८ ॥

कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् ।
स्वधर्मस्थं विजानीहि नोचेन्नश्यन्ति देवताः ॥ २९ ॥

प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया ।
कर्मणा त्वं समर्थश्च जातोऽस्यत्र न संशयः ॥ ३० ॥

वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः ।
भवामस्तमथो शम्भुं जय त्वं दैत्यपैर्वृतः ॥ ३१ ॥

देवनाथः स्वयं शम्भुस्तस्माद्देवान् प्रगृह्य सः ।
शत्रून्नः पश्य दैत्येन्द्र संस्थितः प्रबभूव ह ॥ ३२ ॥

सुराश्चासुरकाः प्रोक्ताः पश्य वेदेषु मानद ।
शिवो देवमयः प्रोक्तः कथं दैत्यहितो भवेत् ॥ ३३ ॥

कामासुरः शम्बरस्य वचः श्रुत्वा प्रतापवान् ।
मोहयुक्तः स्वभावेन तथ्यं मेने तु शक्तयः ॥ ३४ ॥

दैत्यपैः संवृतः सद्यः सन्नद्धैः शङ्करं ययौ ।
तमागतं समाज्ञाय शिवश्चिन्तातुरोऽभवत् ॥ ३५ ॥

देवैः सह विचार्येवं दृष्ट्वा दारुणरूपकम् ।
कामासुरं पपालाऽसौ त्यक्त्वा कैलासमात्मनः ॥ ३६ ॥

अरण्ये देवसंयुक्तो यत्र तत्र गुहासु सः ।
भयभीतः स्वभावेन वासं चक्रे सदाशिवः ॥ ३७ ॥

ततः कामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महत् ।
शैवं हर्षसमायुक्तो दैत्यपैः प्रविवेश ह ॥ ३८ ॥

कैलासशिखरारूढः कामासुरःप्रतापवान् ।
भोगान् कल्पितसम्भूतान् बुभुजे चासुरैः सह ॥ ३९ ॥

एवं ब्रह्माण्डमुग्रः स स्वयं जित्वा ननन्द ह ।
कृतकृत्यमिवात्मानं मेने दैत्येन्द्रनायकः ॥ ४० ॥

ततो बहौ गते काले पुत्रं शोषणसञ्ज्ञितम् ।
ज्येष्ठं कैलासनाथं वै चकार भयवर्जितः ॥ ४१ ॥

दुःपूरं स चकारैव विकुण्ठाधिपतिं खलम् ।
कनिष्ठं स्वसुतं कामासुरो दुष्टश्च शक्तयः ॥ ४२ ॥

बलिं सौरस्य लोकस्य नाथं चक्रे महासुरः ।
रावणं शक्तिलोकस्य तथा बलसमन्वितम् ॥ ४३ ॥

शम्बरं ब्रह्मलोकस्याधिपं दुष्टं चकार ह ।
इन्द्रलोकस्य नाथं तु महिषं रणदुर्मदम् ॥ ४४ ॥

दुर्मदं यमपुर्यां स स्थापयामास निर्भयः ।
एवं नानाऽसुरांश्चक्रे स्थापितान् भुवनेषु च ॥ ४५ ॥

स्वयं सर्वसमायुक्त आययौ भूमिमण्डलम् ।
स्वपुरे राज्यमुग्रं स चकार जगतो बलात् ॥ ४६ ॥

स्त्रीमद्यमांसकाद्यैश्च संसक्तः सन्महाबलः ।
भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः ॥ ४७ ॥

न बुबोध गतं कालं यथा कालेन वञ्चितः ।
आत्मानममृताकारं मेने स्वमदसंयुतः ॥ ४८ ॥

एवं कामासुरो दुष्टः शक्तयः स चकार ह ।
चराचरमयं सर्वं स्वाधीनं बलगर्वितः ॥ ४९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः ॥

[[१०]]