॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
जलन्धरस्वरूपेण आगतं तं जनार्दनम् ।
नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥ १ ॥
नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः ।
जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥ २ ॥
ततो गणेशमायाभिर्मोहिता तं समीपगा ।
वृन्दा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥ ३ ॥
मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् ।
रूपेणाप्रतिमां पूर्णयौवनेन विराजिताम् ॥ ४ ॥
एकान्ते स तया सार्धं रेमे नारायणः स्वयम् ।
साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला ॥ ५ ॥
अधुना शङ्करस्यैव वृत्तान्तं कथयाम्यहम् ।
शृणुध्वं शक्तयः सर्वा गणेशमायया युतम् ॥ ६ ॥
शङ्करः क्रोधसंयुक्तो युयुधे तेन वैरिणा ।
चक्रेण छेदयामास दैत्यानां बलमुत्कटम् ॥ ७ ॥
जलन्धरः स्वयं तेन युयुधे मायया युतः ।
राक्षस्या देवता दैत्या युयुधुश्च परस्परम् ॥ ८ ॥
वृन्दया सह विष्णुश्च रेमे तत्र मुदा युतः ।
जलन्धरः स चक्रेण तस्मिन् काले हतोऽभवत् ॥ ९ ॥
ततस्ते देवविप्रेन्द्रास्तुष्टुवुः शङ्करं परम् ।
तैः सार्धमगमत् सोऽपि कैलासं पर्वतेश्वरम् ॥ १० ॥
ततश्च धर्मसंयुक्ता बभूवुर्मानवा ध्रुवम् ।
विश्वमानन्दसंयुक्तं बभूव स्वस्वकर्मतः ॥ ११ ॥
नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूव ह ।
समागतास्तत्र दैत्याः शशंसुश्चेष्टितं महत् ॥ १२ ॥
प्रतापवान् शङ्करेण हतो दैत्यो जलन्धरः ।
तच्छ्रुत्वा विस्मिताः सर्वे कोऽयं क्रीडति वृन्दया ॥ १३ ॥
ततोऽन्तर्धाय चात्मानं स्वयं विष्णुः समास्थितः ।
वृन्दा देहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् ॥ १४ ॥
तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोद ह ।
स्मृत्वा वृन्दाचरित्राणि मोहितो मायया भृशम् ॥ १५ ॥
वृन्दाचितां समाश्रित्य विललाप जनार्दनः ।
दैत्याः पातालगाः सर्वे बभूवुर्भयसंयुताः ॥ १६ ॥
देवैः सम्बोधितो विष्णुर्मुनिभिर्न बुबोध सः ।
रुरोद कामबाणार्तस्तां स्मृत्वा दारुणं महत् ॥ १७ ॥
ततस्तस्य महाविष्णोः कामबाणार्दितस्य च ।
वीर्यं पपात भूपृष्ठेऽमोघं तेजोयुतं बभौ ॥ १८ ॥
तस्माच्च पुरुषो जज्ञे कामरूपातिगो बभौ ।
विचचार महीपृष्ठे विष्णुस्तत्र समास्थितः ॥ १९ ॥
ततो देवैश्च सा वृन्दा प्रार्थिता मुनिभिर्भृशम् ।
विष्णोः पत्नी भवाशु त्वं तपसाऽऽराधितस्य ते ॥ २० ॥
सा तथेति समुच्चार्य वृक्षरूपा बभूव ह ।
विष्णुः शिलास्वरूपेणोपयेमे तां शुभावहाम् ॥ २१ ॥
कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् ।
उपयेमे महादेव्यस्तेन संहर्षितोऽभवत् ॥ २२ ॥
तां गृह्य केशवो देवो विकुण्ठमगमत् स्वयम् ।
सर्वे हर्षसमायुक्ता बभूवुरमरादयः ॥ २३ ॥
एवं कामः समुत्पन्नो महातेजोयुतः स्वयम् ।
बभ्राम वनसंस्थः स तत्र शुक्रः समाययौ ॥ २४ ॥
शिवपञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने ।
स गत्वा तं प्रणम्यैव वनं तपश्चचार ह ॥ २५ ॥
तपसोग्रेण शम्भुं स तोषयामास नित्यदा ।
निराहारेण नित्यं जजाप तं मन्त्रमुत्तमम् ॥ २६ ॥
[[७]]
एवं तस्योग्रतपसा विभ्रान्ताः सुरमानुषाः ।
दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥ २७ ॥
ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा ।
बोधयामास दैत्येशं वरं ब्रूहि समब्रवीत् ॥ २८ ॥
ततः स शङ्करं दृष्ट्वा प्रणनाम कृताञ्जलिः ।
समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुतः ॥ २९ ॥
यजुर्वेदभवेनैव रौद्रस्तोत्रेण शङ्करम् ।
कामासुरः प्रसन्नात्मा तोषयामास भावतः ॥ ३० ॥
सन्तुष्टं शङ्करं दृष्ट्वा तं जगाद महासुरः ।
हर्षेणोत्फुल्लनेत्रः स वरदं भक्तवत्सलम् ॥ ३१ ॥
कामासुर उवाच ।
यदि प्रसन्नभावेन वरदोऽसि महेश्वर ।
तव भक्तिं च मे देहि राज्यं ब्रह्माण्डकस्य वै ॥ ३२ ॥
उपत्तिस्थितिसंहारयुतास्तेभ्यो भयं न मे ।
सम्भवेत्तादृशं नाथ कुरुष्व बलसंयुतम् ॥ ३३ ॥
उत्पत्तिस्थितिसंहारकारका ये महेश्वराः ।
तेभ्यो मे मरणं नैव भवेद्देव तथा कुरु ॥ ३४ ॥
आरोग्यादिसमायुक्तं सङ्ग्रामे जयशालिनम् ।
कुरु मां देवदेवश सर्वातिगं प्रभावतः ॥ ३५ ॥
यद्यदिच्छामि तत्तन् मे सफलं त्वदनुग्रहात् ।
सर्वकालेषु भवतु नमस्ते परमेश्वर ॥ ३६ ॥
शक्तिरुवाच ।
कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः ।
शङ्करस्तमथोवाच तपसा बद्धभावतः ॥ ३७ ॥
शिव उवाच ।
दुर्लभं यत्त्वया काम प्रार्थितं देवदुःखदम् ।
दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तम ॥ ३८ ॥
त्वया ये ये वराः सर्वे प्रार्थितास्ते महासुर ।
सफलाः सन्तु मद्वाक्यात्त्वं श्रेष्ठश्च भविष्यसि ॥ ३९ ॥
एवमुक्त्वा महादैत्यमन्तर्धानमथाऽकरोत् ।
शिवः सोऽपि महादेव्योऽभवत्तत्रैव संस्थितः ॥ ४० ॥
हर्षेण महता युक्तो जगाम शरणं स्वयम् ।
शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनाम ह ॥ ४१ ॥
कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् ।
श्रुत्वा योगीन्द्रमुख्यश्च दैत्याचार्यो महायशाः ॥ ४२ ॥
महिषासुरपुत्रीं स उपयेमे वरोद्धतः ।
तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीम् ॥ ४३ ॥
ततो दैत्यगणान् सर्वान् समागतान् दिगन्ततः ।
दैत्येशांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् ॥ ४४ ॥
वेदमन्त्रैर्महाभागो ब्राह्मणैर्विधिसंयुतः ।
कामासुरोऽभवद्राजश्रिया हृष्टो विलासवान् ॥ ४५ ॥
पञ्च तस्य प्रधानानि बभूवुश्च महौजसः ।
रावणः शम्बरश्चैव महिषो बलिदुर्मदौ ॥ ४६ ॥
नगरं निर्ममे भूमौ सर्वशोभासमन्वितम् ।
रतिदं नाम तस्यापि चकारोशनसेरितः ॥ ४७ ॥
तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः ।
चातुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥
[[८]]