०२ शिवविष्णोर्वरप्रदानम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् ।
विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥ १ ॥

शक्तय ऊचुः ।
महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् ।
श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥ २ ॥

काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा ।
गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥ ३ ॥

गणेशप्राप्तिहीना ये जन्तवश्चेश्वरास्तथा ।
जन्म तेषां विशेषेण निष्फलं सम्मतं बुधैः ॥ ४ ॥

अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् ।
सर्वदं गणनाथं ये न भजन्तेऽतिगूढकाः ॥ ५ ॥

रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः ।
कामयुक्तस्वभावेन त्यजन्ति गणनायकम् ॥ ६ ॥

कामस्य चरितं शक्ते वद विस्तरतः परम् ।
कामनाशकरं चापि येन ढुण्ढिः प्रलभ्यते ॥ ७ ॥

त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता ।
देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥ ८ ॥

आदिशक्तिरुवाच ।
गणनाथावतारस्य तस्योपासनमात्रतः ।
विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥ ९ ॥

अत्र वोऽहं पुरा जातमितिहासं वदामि हि ।
येन कामव्यथाहीना भविष्यन्ति जनाः सदा ॥ १० ॥

कैलासे गिरिवर्ये तु शङ्करः स्वेच्छयैकदा ।
पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥ ११ ॥

अदृष्ट्वा शङ्करं साऽपि शोकयुक्ता बभूव ह ।
एतस्मिन्नन्तरे तत्रेन्द्रस्तं द्रष्टुं समाययौ ॥ १२ ॥

मघवोग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम् ।
राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥ १३ ॥

वज्रं तत्याज तं हन्तुं महेन्द्रः सहसा परम् ।
शिवदेहं समासाद्य निष्फलं तद्बभूव ह ॥ १४ ॥

ततः क्रोधसमायुक्तः शङ्करोऽग्निं समासृजत् ।
तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥ १५ ॥

सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् ।
स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥ १६ ॥

प्रसाद्य गिरिजानाथमिद्रं भयसमाकुलम् ।
अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥ १७ ॥

इन्द्रस्तं विविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् ।

[[४]]

अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥ १८ ॥

ततः शिवं समागत्याग्निस्तदंशसमुद्भवः ।
प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥ १९ ॥

त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् ।
समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥ २० ॥

निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः ।
सर्वं ब्रह्माण्डमथ वा ग्रसिष्यामि त्वदाज्ञया ॥ २१ ॥

अग्नेस्तद्वचनं श्रुत्वा शङ्करस्तमुवाच ह ।
पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥ २२ ॥

सर्वैरवध्यभावेन भविष्यसि महाबलः ।
त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥ २३ ॥

वृन्दा धर्मध्वजस्यैव पत्नी तव भविष्यति ।
पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥ २४ ॥

तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः ।
तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥ २५ ॥

ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि ।
राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥ २६ ॥

एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः ।
जलधौ तत्र घोषश्च बभूव भयदायकः ॥ २७ ॥

ततस्तत्र समुद्भूतो बालकस्तेजसा युतः ।
तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलन्धरः ॥ २८ ॥

तस्य मौञ्ज्यादिकं कर्म चकार जलधिः स्वयम् ।
कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥ २९ ॥

शिवस्य वरदानेन जिग्ये ब्रह्माण्डमण्डलम् ।
जलन्धरस्ततो देवा वनवासं प्रचक्रिरे ॥ ३० ॥

वने तपःस्थितां वृन्दां दानवोऽपि ददर्श सः ।
उपयेमे कदा तां च गान्धर्वेणैव शक्तयः ॥ ३१ ॥

तया रेमे सदा दैत्यो मोहितो मायया भृशम् ।
न बुबोध गतं कालं साऽपि तद्गतमानसा ॥ ३२ ॥

ततः कर्मविहीनं तु चकार स धरातलम् ।
उपोषणेन संयुक्ता देवादयो बभूविरे ॥ ३३ ॥

कदाचिन्नारदस्तत्र जगामासुरनायकम् ।
तेन सम्पूजितो योगी तं जगाद जलन्धरम् ॥ ३४ ॥

नारद उवाच ।

धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् ।
तथापि शृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥ ३५ ॥

पार्वत्या न समं कुत्र वर्तते सा विशेषतः ।
रत्नभूता न सन्देहः शङ्करेणानुभाविता ॥ ३६ ॥

एवमुक्त्वा महायोगी नारदोऽन्तर्दधे स्वयम् ।
सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥ ३७ ॥

दूतः सम्प्रेषितस्तेन शङ्करं स समागतः ।
जगाद तं निशुम्भश्च महादेवं महाखलः ॥ ३८ ॥

निशुम्भ उवाच ।

शिवस्त्वं नग्नताद्यैश्च चिह्नैर्युक्तो न ते प्रभो ।
पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥ ३९ ॥

ब्रह्माण्डाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना ।
जलन्धरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥ ४० ॥

प्रतापवान् क्रोधसमायुक्तो नो चेत् जलन्धरः ।
हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥ ४१ ॥

वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः ।
शूलं धृत्वा निशुम्भं तं हन्तुं देवः प्रचक्रमे ॥ ४२ ॥

ततो भयसमायुक्तो माययाऽसुरनायकः ।
पपालाऽऽगत्य वृत्तान्तं कथयामास संसदि ॥ ४३ ॥

[[५]]

निशुम्भभाषितं श्रुत्वा ततः क्रोधसमायुतः ।
जलन्धरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥ ४४ ॥

तमागतं समालोक्य महादेवः प्रतापवान् ।
विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥ ४५ ॥

देवानां दानवानां च युद्धं परमदारुणम् ।
अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥ ४६ ॥

वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् ।
मायया मोह्य सङ्गृह्य तं चिक्षेप गुहान्तरे ॥ ४७ ॥

कालनेमिमुखांस्तत्रास्थाप्य सङ्ग्राममण्डले ।
जगाम पार्वतीं दैत्यो मायया शङ्कराकृतिः ॥ ४८ ॥

तमागतं समालोक्य ज्ञानदृष्ट्या महासती ।
बुबोध विह्वलाङ्गं चान्तर्धानमकरोत् स्वयम् ॥ ४९ ॥

सा सस्मार महाविष्णुं गत्वा हिमगिरिं तदा ।
समागतं विलोक्यैव वृत्तान्तं सर्वमब्रवीत् ॥ ५० ॥

श्रुत्वा तां सान्त्वयामास केशवः परवीरहा ।
जलन्धरस्वरूपेण वृन्दां मोहयितुं ययौ ॥ ५१ ॥

जलन्धराकृतिस्थं तं दृष्ट्वा विष्णुं बुबोध सा ।
शशाप त्वं महाविष्णो भव शैलाकृतेर्धरः ॥ ५२ ॥

ततोऽतिभयसंयुक्तो विष्णुः शापसमन्वितः ।
सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपम् ॥ ५३ ॥

गुहायां शङ्करश्चैव सावधानो बभूव ह ।
ध्यानेनैव महोग्रेण तोषयामास विघ्नपम् ॥ ५४ ॥

वरदानप्रसिद्ध्यर्थमाययौ तं गणेश्वरः ।
तं दृष्ट्वा शङ्करश्चादौ प्रणतो भक्तिसंयुतः ॥ ५५ ॥

तुष्टाव विविधैः स्तोत्रैर्गणेशं सर्वसिद्धिदम् ।
कथयामास वृत्तान्तं प्रणम्य करसम्पुटैः ॥ ५६ ॥

ततः स्वहस्तगं ढुण्ढिर्ददौ तस्मै महात्मने ।
चक्रं सुदर्शनं नाम्ना तं जगाद सदाशिवम् ॥ ५७ ॥

मां स्मृत्वा युद्धकाले तं चक्रेण जहि दानवम् ।
रक्ष सर्वान् महादेव विजयी प्रभविष्यसि ॥ २८ ॥

एवमुक्त्वा गणेशानोऽन्तर्दधे शङ्करस्ततः ।
चक्रं गृह्य गुहायाः स निर्जगाम बहिः स्वयम् ॥ ५९ ॥

दण्डकारण्यदेशे तु विष्णुर्विघ्नेश्वरं गतः ।
तस्मै प्रत्यक्षभावेन वरं ददौ गणेश्वरः ॥ ६० ॥

श्रीगणेश उवाच ।

मा चिन्तां कुरु विष्णो त्वं मामस्मृत्वा गतः पुरा ।
तेन शापयुतो जातोऽधुना शरणमागतः ॥ ६१ ॥

अत्रैव तपसा तेऽहं वरदश्च पुराऽभवम् ।
तेन ते वै सहाम्यद्यापराधं माधवाधुना ॥ ६२ ॥

कलया त्वं शिलासंस्थो भविष्यसि न संशयः ।
पूर्णरूपेण देवेशः स्वस्याकृतिधरो भव ॥ ६३ ॥

नरास्त्वां पूजयिष्यन्ति शिलारूपधरं प्रभुम् ।
तत्र देवस्वरूपेण तिष्ठस्यत्र न संशयः ॥ ६४ ॥

पुनर्मां हृदि सन्ध्याय जलन्धरस्वरूपधृक् ।
वृन्दां गच्छ महाविष्णो सा तेऽधीना भविष्यति ॥ ६५ ॥

एवमुक्वा गणेशानोऽन्तर्दधे भक्तवत्सलः ।
विष्णुर्जलन्धरो भूत्वा ययौ वृन्दां तु शक्तयः ॥ ६६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः ॥