॥ श्रीगणेशाय नमः ॥
[[१]]
शौनक उवाच ।
सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् ।
लम्बोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥ १ ॥
अहो गणेशमाहात्म्यं सर्वसन्तोषकारकम् ।
श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥ २ ॥
अधुना वद माहात्म्यं विकटस्य विशेषवित् ।
सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥ ३ ॥
अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा ।
पृष्टं दक्षेण किं तात वद तन्मे प्रविस्तरात् ॥ ४ ॥
तव सङ्गेन सन्तुष्टा वयं सर्वे विशेषतः ।
भवामः कृतकृत्याश्च कथाश्रवणमात्रतः ॥ ५ ॥
सूत उवाच ।
सम्यक् पृष्टं त्वया विप्र भार्गवाणां शिरोमणे ।
सारग्राही न सन्देहः शौनक त्वं विशेषतः ॥ ६ ॥
भवतां प्रीतिकामार्थं वदिष्यामि विशेषतः ।
चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ ७ ॥
न गणेशात् परं किञ्चिद् विद्यते वेदवादतः ।
अल्पपुण्ययुतानां तु न प्रीतिस्तत्र वर्धते ॥ ८ ॥
पुरा पृष्टो महायोगी योगं दक्षेण वीप्सता ।
तदेवाऽहं वदिष्यामि शृणुत ब्राह्मणाः परम् ॥ ९ ॥
दक्ष उवाच ।
धन्यं मे जन्मकर्मादि येन ते दर्शनं प्रभो ।
प्राप्तं पुण्यवशेनैव परं मुद्गलयोगदम् ॥ १० ॥
अधुना वद माहात्म्यं विकटस्य विचक्षण ।
श्रुत्वा लम्बोदरस्यैव तृष्णा मे वर्धते मुने ॥ ११ ॥
कीदृशोऽयं गणाध्यक्षः कीदृशं ब्रह्म तस्य वै ।
केन योगेन लभ्यश्च कति तस्यावतारकाः ॥ १२ ॥
किं विहारः किमर्थं स भूमौ देवः समागतः ।
कान् दैत्यान् हतवान् विप्र कथं देवैश्च संस्तुतः ॥ १३ ॥
इत्यादि विविधं तस्य चेष्टितं वद मानद ।
भवादृशा महाभागाः परोपकृतिकारकाः ॥ १४ ॥
संसाराब्धौ निमग्नानां नौकारूपा मता बुधैः ।
भवन्तो नात्र सन्देहस्तारयस्वधुना च माम् ॥ १५ ॥
सूत उवाच ।
दक्षस्य विनयेनैवं भावेन तोषसंयुतः ।
मुद्गलस्तमथोवाच परं तच्छृणु सौख्यदम् ॥ १६ ॥
मुद्गल उवाच ।
धन्योऽसि दक्ष येन त्वं गणनाथकथां मुहुः ।
प्रश्नेन भक्तिसंयुक्तो वर्धयसि सुसारवित् ॥ १७ ॥
साक्षाद्ब्रह्मसुतस्तत्र चित्रं किं भवति त्वयि ।
भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहम् ॥ १८ ॥
विकटस्य च माहात्म्यं ब्रह्मभूतकरं परम् ।
सर्वसिद्धिप्रदं तुभ्यं कथयामि समासतः ॥ १९ ॥
अत्रेतिहासं मुख्यं वै विधे शृणु पुरा भवम् ।
कथयामि विचित्रं ते विकटाख्यानसंयुतम् ॥ २० ॥
आदिमाया महाशक्तिः शक्तिलोके निरामये ।
संस्थिता सेव्यमाना सा देवीभिः सेश्वरात्मभिः ॥ २१ ॥
एकदा पूजने सक्तां नियमस्थां विशेषतः ।
गणेशानस्य तां दृष्ट्वा पप्रच्छुः शक्तयः पराः ॥ २२ ॥
महाकाली प्रजानाथ महालक्ष्मीस्तथैव च ।
महासरस्वती देव्योऽन्याश्च नानाविधा मताः ॥ २३ ॥
महाकालीमहालक्ष्मीमहासरस्वत्य ऊचुः ।
त्वं साक्षात् सर्वरूपाऽसि जगद्ब्रह्मप्रकाशिनी ।
त्वदीयध्यानयोगेन ब्रह्मभूता भवन्ति च ॥ २४ ॥
धर्मार्थकाममोक्षाणां दात्री त्वं कथिता बुधैः ।
वेदेषु सर्वशक्तीनां मूलभूता त्वमञ्जसा ॥ २५ ॥
[[२]]
ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति ।
ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥ २६ ॥
कर्मणां फलदात्री त्वं तपसां ज्ञानधारिणाम् ।
त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥ २७ ॥
त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् ।
ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥ २८ ॥
सदा नामावलिं तस्य वदसि जगदम्बिके ।
भ्रमार्थं सर्वजन्तूनां गुह्यगोपनकारणात् ॥ २९ ॥
सर्वसत्ताधरी देवी त्वमेवात्र न संशयः ।
अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥ ३० ॥
लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् ।
नित्यं दृष्ट्वा प्रसङ्क्षुब्धा भवामः परमाद्भुते ॥ ३१ ॥
दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा ।
वेदमार्गेण सर्वेशि जानीमो वद साम्प्रतम् ॥ ३२ ॥
मुद्गल उवाच ।
तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा ।
स्नेहेन ता जगादाथ रहस्यं शृणु मुख्यकम् ॥ ३३ ॥
आदिशक्तिरुवाच ।
शृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् ।
सर्वसिद्धिप्रदं पूर्णं त्रय्याद्याः परमाद्भुतम् ॥ ३४ ॥
यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः ।
गणेशस्यांशरूपत्वाद्गणभावसमाश्रिता ॥ ३५ ॥
पुरा वयं समुत्पन्नाश्चत्वारो देवमुख्यकाः ।
शम्भुर्विष्णुरविर्देव्यो गणेशानादहं किल ॥ ३६ ॥
नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् ।
तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥ ३७ ॥
नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते ।
तत्र स्थितमतो ब्रह्माऽसत्स्वानन्दमयं मतम् ॥ ३८ ॥
उत्पत्तिनाशभूतेषु तदाधारं सदात्मगम् ।
सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥ ३९ ॥
असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः ।
नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥ ४० ॥
चतुर्णां चैव संयोगे स्वानन्दः पञ्चमः स्मृतः ।
स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥ ४१ ॥
अयोगः पञ्चभिर्हीनो व्यतिरेकप्रभावतः ।
संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥ ४२ ॥
पञ्चधा चित्तवृत्तीनां चालकस्तेन कथ्यते ।
चिन्तामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥ ४३ ॥
मायारूपा स्वयं सिद्धिर्भ्रान्तिदा विविधा सदा ।
भ्रान्तिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥ ४४ ॥
तयोः स्वामी गणेशानः स्वानन्दनगरे स्थितः ।
योगशान्तिमयः साक्षाल्लक्षलाभपिता हृदि ॥ ४५ ॥
संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः ।
तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥ ४६ ॥
अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः ।
न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥ ४७ ॥
एतत् सर्वं समाख्यातं मदीयनियमात्मकम् ।
चित्ते चिन्तामणिं देव्यो ध्यायामि भक्तिसंयुता ॥ ४८ ॥
काममोहितचित्तानां न प्रत्यक्षो गजाननः ।
भवते भावहीनानां भजतामपि सर्वदा ॥ ४९ ॥
अज्ञानावरणैर्युक्ता मां वदन्ति परात्पराम् ।
गणास्तस्य वयं सर्वे शम्भुविष्णुमुखाः किल ॥ ५० ॥
गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते ।
कण्ठाधः सगुणं ब्रह्म तयोर्योगे स देहभृत् ॥ ५१ ॥
[[३]]
इत्युक्त्वा विररामाथ शक्तिः स्वानन्दवासिनी ।
असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥