॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् ।
मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १ ॥
मुद्गल उवाच ।
कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः ।
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २ ॥
तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः ।
भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३ ॥
समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।
सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ ४ ॥
अस्य श्रीगणेशकीलकस्य ।
शिव ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीगणपतिर्देवता ।
ॐ गं योगाय स्वाहा ।
ॐ गं बीजम् ।
विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः ।
छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् ।
एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५ ॥
ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् ।
मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६ ॥
शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।
विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७ ॥
[[१०९]]
एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् ।
पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८ ॥
एकविंशतिवारं तु जपं कुर्यात् प्रजापते ।
ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥ ९ ॥
रूपं बलं श्रियं देहि यशो वीर्यं गजानन ।
मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १० ॥
यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।
तदा त्वं तान् निहत्य स्म कुरुषे वीर्यसंयुतान् ॥ ११ ॥
तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।
शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२ ॥
शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३ ॥
चराचरं जगत् सर्वं सत्ताहीनं यदा भवेत् ।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४ ॥
तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५ ॥
ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६ ॥
इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।
सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७ ॥
तथा मन्त्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते ॥ १८ ॥
सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो ।
मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९ ॥
उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः ।
सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २० ॥
गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।
स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१ ॥
गणेशकीलकमिदं कथितं ते प्रजापते ।
शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२ ॥
यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् ।
स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३ ॥
एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा ।
स सर्वफलहीनश्च जायते नाऽत्र संशयः ॥ २४ ॥
सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् ।
पुराऽनेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५ ॥
विष्णुब्रह्मादयो देवा मुनयो योगिनः परे ।
अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६ ॥
ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः ।
गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७ ॥
सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।
गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८ ॥
दक्ष उवाच ।
ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।
ब्रह्माण्डं स ददर्शैव तन् मे वद कुतूहलम् ॥ २९ ॥
पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।
अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३० ॥
मुद्गल उवाच ।
विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।
गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१ ॥
स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।
योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२ ॥
एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।
यः शृणोति स वै मर्त्यो भुक्तिं मुक्तिं लभेत् ध्रुवम् ॥ ३३ ॥
खण्डं लम्बोदरस्यैतद्यः शृणोति नरोत्तमः ।
पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥ ३४ ॥
नानेन सदृशं किञ्चिद्भुक्तिमुक्तिप्रदं मतम् ।
योगरूपो महाभाग यत्र लम्बोदरः स्तुतः ॥ ३५ ॥
नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् ।
तदस्यैकस्य खण्डस्य श्रवणेन भवेदिह ॥ ३६ ॥
नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः ।
तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥ ३७ ॥
व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो ।
अस्य श्रवणमात्रेण लभेत् तस्माच्छताधिकम् ॥ ३८ ॥
नानातपांसि सर्वाणि यः करोति नरोऽसकृत् ।
अस्य श्रवणमात्रेण लभेत् पुण्यमपारकम् ॥ ३९ ॥
पुत्रपौत्रादिसंयुक्तो धनधान्यादिभाग्यवान् ।
श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥ ४० ॥
यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् ।
श्रवणेन प्रजानाथ खण्डस्यास्य न संशयः ॥ ४१ ॥
बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः ।
सर्वसिद्धिप्रदः खण्डः कथितस्ते प्रजापते ॥ ४२ ॥
इदं लम्बोदरस्यैव चरितं सर्वसिद्धिदम् ।
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ ४३ ॥
सूत उवाच ।
यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् ।
मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥ ४४ ॥
चरितं शौनकाद्याश्च श्रुतं लम्बोदरस्य यत् ।
धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥ ४५ ॥
विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः ।
नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥ ४६ ॥
व्यासेन कथितं सर्वं चरितं यादृशं पुरा ।
तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे पञ्चमः खण्डः समाप्तः ॥