॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवमैलः स राजर्षिरेकनिष्ठापरायणः ।
गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥ १ ॥
ध्यात्वा गजाननं देवमेकान्ते तद्गताऽखिलः ।
मानसे राज्यभोगे स निःस्पृहः सम्बभूव ह ॥ २ ॥
पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननम् ।
ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥ ३ ॥
दक्ष उवाच ।
गणेशस्य ध्यानमैलकृतं मे वद साम्प्रतम् ।
तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरन्तरम् ॥ ४ ॥
मुद्गल उवाच ।
यथैलो नृपवर्यः स गार्ग्याज्ज्ञात्वा गणेश्वरम् ।
अभजत् ध्यानयुक्तश्च तत् ध्यानं शृणु मानद ॥ ५ ॥
ऐल उवाच ।
नमामि विघ्नेश्वरपादपङ्कजं सुचिह्नितं चाखिलदं निजात्मनाम् ।
ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥ ६ ॥
सुरक्तपादाङ्गुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् ।
सुगुल्फयुक्तं मृदुमांसलं महन् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥ ७ ॥
जङ्घे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले ।
तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥ ८ ॥
ऊरू सुमांसेन समावृतौ परौ रम्भासमानौ सुविराजितौ तथा ।
रक्तौ हृदा चिन्तनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिन्तये ॥ ९ ॥
कटिं सदा मांसलरक्तरञ्जितां सुवर्तुलां मध्यमभागसंश्रिताम् ।
गणेश्वरस्यैव तु चिन्तयाम्यहं सदा सुखानन्दकरस्य नित्यदा ॥ १० ॥
वस्त्रं सुरक्तं हृदि चिन्तयाम्यहमनन्तमौल्यं कटिभागसंस्थितम् ।
नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिन्तये ॥ ११ ॥
महोदरं मांसलभावसंयुतं सुरोमयुक्तं प्रभया विराजितम् ।
विचिन्तयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥ १२ ॥
श्रीवक्रतुण्डस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् ।
रक्तं स्तनाभ्यां हृदयं तु चिन्तये चिन्तामणिं तत्र सुखप्रदं परम् ॥ १३ ॥
कण्ठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् ।
स्कन्धौ वृषस्कन्धसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥ १४ ॥
बाहू सदा मांसलकौ प्रभासितौ स्वानन्दनाथस्य मनोऽतिसौख्यदौ ।
हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिन्तये ॥ १५ ॥
कराङ्गुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः ।
गणेश्वरस्यैव हृदि प्रचिन्तये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥ १६ ॥
मुखं तु शुण्डायुतमेव चिन्तये त्रिनेत्रयुक्तं परमप्रकाशकम् ।
सदैकदन्तस्य च तीक्ष्णदन्तकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥ १७ ॥
कर्णौ विशालौ हृदि चिन्तये परौ भक्ताय निष्कामसुकामदौ तथा ।
शूर्पाकृती चञ्चलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥ १८ ॥
कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैर्ब्रह्ममदद्रवार्थिभिः ।
सुसंवृतौ नादयुतैर्निरन्तरं गणेश्वरस्यैव हृदा विचिन्तये ॥ १९ ॥
भालं सुतेजोयुतमेव चिन्तये श्रीढुण्ढिराजस्य निशाकरस्थलम् ।
रक्ताष्टगन्धैश्च सुचित्रितं प्रभोर्बिन्दुप्रयुक्तं त्वथ तण्डुलैर्युतम् ॥ २० ॥
[[१०७]]
केशैः समाच्छादितमस्तकं तथा सञ्चिन्तये विघ्नविनाशकारिणः ।
ब्रह्माण्डमूले प्रभुमस्तकाश्रिते कुम्भस्थले ब्रह्मवरस्य सौख्यदे ॥ २१ ॥
गणेशदेहं परिचिन्तयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः ।
अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥ २२ ॥
विचित्रगन्धैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः ।
गणाधिपं साधु हृदि स्थितं सदा विचिन्तयेऽहं निजभक्तिलालसम् ॥ २३ ॥
पाशाङ्कुशाद्यैश्च सुसंस्तुतं परं ढुण्ढिं प्रमोदादिभिरेव नित्यदा ।
गणेश्वरं दवेवरैस्तथोन्दुरुराजेन पूज्यं च सुचिन्तये हृदि ॥ २४ ॥
वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिन्तये ।
ब्रह्मप्रियाद्यैश्च गणैरसङ्ख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥ २५ ॥
सर्वाङ्गसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिन्तये हृदि ।
संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥ २६ ॥
बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि ।
सर्वाङ्गसंशोभनया स्वमायया सञ्चिन्तये दक्षिणभागभूषया ॥ २७ ॥
लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु ।
सञ्चिन्तये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥ २८ ॥
अनन्तमन्त्रैः कथितं स्वरूपकं विचिन्तये वक्तुमशक्यभावतः ।
हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥ २९ ॥
मुद्गल उवाच ।
एवमैलः स राजर्षिर्गणेशभजने रतः ।
ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥ ३० ॥
प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः ।
धर्मयुक्तं चकाराऽपि नित्यं कर्म निरन्तरम् ॥ ३१ ॥
ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः ।
यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥ ३२ ॥
शमीमन्दारदूर्वाश्चापूजयद्भक्तिसंयुतः ।
प्रार्थ्य पत्राङ्कुराद्यं स पुष्पं चैवाऽऽचिनोन्नृपः ॥ ३३ ॥
दक्ष उवाच ।
शमीमन्दारदूर्वाणां पूजनं वद मुद्गल ।
सिद्धेर्बुद्धेश्च विपेन्द्र सुतयोर्लक्षलाभयोः ॥ ३४ ॥
शमीमन्दारदूर्वाणां प्रार्थना कीदृशी भवेत् ।
तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥ ३५ ॥
केन मन्त्रेण योगीन्द्र शमीमन्दारकांस्तदा ।
नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥ ३६ ॥
मुद्गल उवाच ।
शृणु दक्ष महाप्राज्ञ गाणपत्यपरायण ।
सन्तुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥ ३७ ॥
गणेशस्यैव मन्त्रेण पूजनीया इमे मताः ।
वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥ ३८ ॥
स्त्रीपुम्भावात्मकं दक्ष नास्ति तत्र विचारतः ।
गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥ ३९ ॥
तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ ।
गणास्तस्य तथा पूज्या गाणपत्यैश्च मन्त्रकैः ॥ ४० ॥
गकाराद्बिम्बभावाख्यो लक्षः पुत्रः प्रकथ्यते ।
तथा गकाररूपाद्वै लाभस्तौ तन्मयौ मतौ ॥ ४१ ॥
[[१०८]]
शमीमन्दारकौ दक्ष वरदानाद्विशेषतः ।
गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥ ४२ ॥
दूर्वां देवीं गणेशस्य मन्त्रेणापूजयेन्नरः ।
अथवा वैदिकैर्मन्त्रैः काण्डादिभिः प्रपूजयेत् ॥ ४३ ॥
नाममन्त्रेण शूद्रस्तान् पूजयेत् सर्वभावतः ।
एतदेव रहस्यं ते कथितं सर्वमञ्जसा ॥ ४४ ॥
प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते ।
स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमन्दिरे ॥ ४५ ॥
यत्र दूर्वा च मन्दारः शमी तिष्ठति तत्र सः ।
गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥ ४६ ॥
दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शताङ्कुरे ।
गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥ ४७ ॥
शमी सर्वप्रदे देवि गणेशरूपधारिणि ।
चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥ ४८ ॥
मन्दारवाञ्छितार्थस्य दातर्विघ्नेशरूपक ।
क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्यऽहम् ॥ ४९ ॥
एवं प्रार्थ्य प्रजानाथ शमीमन्दारकौ पुरा ।
दूर्वापत्राणि पुष्पाणि विभुं ह्यानाय्य पूजयेत् ॥ ५० ॥
सहस्रनाममन्त्रैश्च अष्टोत्तरशतैर्नरः ।
एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥ ५१ ॥
अथवा मूलमन्त्रेण नाममन्त्रेण वा तथा ।
गाणेशैर्विविधैर्मन्त्रैर्दूर्वादीनि समर्पयेत् ॥ ५२ ॥
एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् ।
गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥ ५३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥