४३ भक्तिमार्गवर्णनम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानन्दजां कथाम् ।
विस्मितो योगिराजेन्द्र न समं तस्य विद्यते ॥ १ ॥

अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम् ।
गार्ग्येण नृपशार्दूल उपदिष्टः किमाचरत् ॥ २ ॥

गणेशलोकगः सोऽपि बभूव वद तत्कथम् ।
अत्र तत्र गणेशानं भजते कथमप्यहो ॥ ३ ॥

मुद्गल उवाच ।

गार्ग्येण नृपवर्यश्च गाणपत्येन शिक्षितः ।
गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥ ४ ॥

स्कन्देन स्थापितस्तत्र लक्षो नाम गजाननः ।
तं नित्यं सेवयामासानन्यभावेन विघ्नपम् ॥ ५ ॥

न गणेशात् परं किञ्चिज्जानाति नृपसत्तमः ।
एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥ ६ ॥

दक्ष उवाच ।

एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल ।
यया विघ्नेश्वरः साक्षात् सन्तुष्टो जायते नृणाम् ॥ ७ ॥

मुद्गल उवाच ।

पञ्चायतनपूजां वै तथाग्नेः सेवनं परम् ।
द्विजानां नित्यमेतत्ते कथितं सर्वसम्मतम् ॥ ८ ॥

विघ्नरूपं महाघोरं परत्रेह च बन्धकम् ।
ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥ ९ ॥

तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः ।
विद्यार्थं शङ्करं सोऽपि पूजयेन्नित्यमादरात् ॥ १० ॥

यशोर्थं केशवं चैवारोग्यार्थं रविमञ्जसा ।
सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदम्बिकाम् ॥ ११ ॥

अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये ।
देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥ १२ ॥

एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा ।
स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥ १३ ॥

अथवा कामनायुक्तः स चेत्तदपि तादृशम् ।
कुर्यात् कर्माङ्गदेवेभ्यः समर्प्य सकलां क्रियाम् ॥ १४ ॥

सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते ।
स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥ १५ ॥

तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा ।
ईशान्यां विष्णुमेव त्वाग्नेय्यां शम्भुं प्रपूजयेत् ॥ १६ ॥

नैर्ऋत्यां जगदम्बां च वायव्यां रविमादरात् ।
पञ्चायतनभावेन पूजयेत् पञ्च देवताः ॥ १७ ॥

सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः ।
ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥ १८ ॥

अथवा पञ्चदेवेषु मन्त्रं गृह्य स्वभावजम् ।
एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥ १९ ॥

सर्वं कलांशरूपस्थं पञ्चायतनकस्य वै ।
पूजितेषु प्रजानाथ पञ्चसु पूजितं जगत् ॥ २० ॥

देवेन कार्यसिद्ध्यर्थं नाना देवाः कृताः पुरा ।
ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥ २१ ॥

इयं सर्वात्मिका भक्तिः कथिता च प्रजापते ।
स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥ २२ ॥

अधुना शृणु दक्ष त्वमेकनिष्ठां महाद्भुताम् ।
स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥ २३ ॥

स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम् ।
तस्य पूजनमात्रेण सर्वं सम्पूजितं भवेत् ॥ २४ ॥

अनन्तरूपभावेन सर्वत्र कलया स्वयम् ।
तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥ २५ ॥

चराचरमयो देवः पूजनीयं चराचरम् ।
केनाऽपि तत्र विप्रेन्द्र भवेच्चासङ्ख्यभावतः ॥ २६ ॥

[[१०५]]

चराचरं पूजितं चेत्तदपि तस्य रोमगम् ।
ब्रह्माण्डकूटमेवेदं वदन्ति मुनयोऽपरे ॥ २७ ॥

यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ।
अतः सम्पूर्णदेहस्य पूजनं न भवेत् कदा ॥ २८ ॥

भक्तवात्सल्यभावार्थं देहधारी बभूव ह ।
देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥ २९ ॥

अनेन निश्चयेनैव पूजयेत् स्वेष्टदैवतम् ।
अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥ ३० ॥

नान्यान्निन्देन्न वै दक्ष स्तुयादेकत्वमाश्रितः ।
स्वेष्टदेवपरो भूत्वा भक्तिं कुर्याद्विशेषतः ॥ ३१ ॥

नरो विघ्नेश्वरेणैव सदा युक्तं प्रजापते ।
स्वेष्टदेवं समापूज्य सिद्धिं स लभते पराम् ॥ ३२ ॥

एकनिष्ठा महाभक्तिर्न भवेत्तत्र खण्डिता ।
तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनम् ॥ ३३ ॥

यथा स्वशाखया संयुक्तं सन्ध्यादिकमाचरेत् ।
तथाऽग्रपूज्यभावेन पूजयेद्गणनायकम् ॥ ३४ ॥

सर्वेषामादिपूज्योऽयं सर्वादौ वेदवादतः ।
अन्यथा वेदवैरुध्यात् सकला नश्यति क्रिया ॥ ३५ ॥

शिवविष्णुमुखादीनामग्रपूजा न विद्यते ।
सर्वादौ तेन ते त्याज्या न त्याज्योऽयं गजाननः ॥ ३६ ॥

अन्यच्च शृणु मे वाक्यं सर्वेभ्यः फलदायकः ।
गणेशो नात्र सन्देहः सिद्धिबुद्धिसमन्वितः ॥ ३७ ॥

धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमञ्जसा ।
सिद्ध्यधीनं प्रजानाथ पञ्चकं वेदवादतः ॥ ३८ ॥

कर्ता बुद्ध्या समायुक्तः स्वेष्टदेवस्तया युतः ।
बुद्ध्यधीनं जगत् सर्वं ज्ञानं देहादिकं परम् ॥ ३९ ॥

तयोः स्वामी गणेशानो ब्रह्मणस्पतिवाचकः ।
सर्वादौ तमसम्पूज्य नारकी स भवेन्नरः ॥ ४० ॥

यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेत् ।
पतिव्रते सिद्धिबुद्धी तत्र नैवागमिष्यतः ॥ ४१ ॥

सर्वसिद्धिविहीनश्च भवेत् दुर्बुद्धिसंयुतः ।
देहान्ते नरकेष्वेव स पचेन्नात्र संशयः ॥ ४२ ॥

शिवविष्णुमुखानां स ज्येष्ठश्चैव प्रकीर्तितः ।
तस्योल्लङ्घनमात्रेण भ्रंशयिष्यन्ति देवताः ॥ ४३ ॥

यथा गणपतिद्वेषाद्बलिं वैष्णवमुत्तमम् ।
नरकेषु निबद्ध्यैवोद्यतो विष्णुर्बभूव ह ॥ ४४ ॥

सन्ध्यादि कर्मवच्चायं सर्वादौ सम्मतो बुधैः ।
तस्य पूजनमात्रेणैकनिष्ठा नैव खण्डिता ॥ ४५ ॥

गणेश एकनिष्ठश्चेत्तदा गणपतिः सदा ।
एकः पूज्यो न सन्देहोऽन्येषामावश्यखण्डनात् ॥ ४६ ॥

एकनिष्ठसमा भक्तिर्विद्यते नैव निश्चितम् ।
ब्रह्म नानाविधं तेन विश्वं भक्त्या प्रपूजितम् ॥ ४७ ॥

जगद्ब्रह्मयुतो देवः स्वेष्टः सम्पूर्णभावतः ।
पूजितस्तेन भवति सन्तुष्टे सकलं सदा ॥ ४८ ॥

एकनिष्ठो यथा भक्तस्तथा देवोऽपि मानद ।
एकभक्ताश्रितो भूत्वाऽभवत्तत्रैव संस्थितः ॥ ४९ ॥

एतत्ते कथितं दक्ष भजनं त्रिविधं मया ।
अनेन भक्तिमार्गेण वाञ्छितं लभते नरः ॥ ५० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥

[[१०६]]