॥ श्रीगणेशाय नमः ॥
कपिल उवाच ।
एतादृशी महाभक्तिस्त्वदीया गणनायक ।
यदा सर्वे प्रकुर्वन्ति तदा विश्वं कथं भवेत् ॥ १ ॥
सर्वेभ्यः श्रेष्ठभावेन जानन्ति त्वां यदा नराः ।
तदा त्वां सर्वभावेन भजन्ते ते न संशयः ॥ २ ॥
श्रेष्ठार्थिनो नराः सर्वे भजन्ते शीघ्रसिद्धये ।
देवेन्द्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥ ३ ॥
चिन्तामणिरुवाच ।
मया सृष्टं जगत् सर्वं नानाभावमयं मुने ।
नानाभावयुताः सर्वे न भजन्ते तु मां सदा ॥ ४ ॥
चतुर्णां देवमुख्यानां कृत्वा भजनमुत्तमम् ।
तेन शुद्धान्तरात्मानो मां भजन्ते ततः परम् ॥ ५ ॥
अन्यच्च शृणु मे वाक्यं मया माया प्रकाशिता ।
सर्वश्रेष्ठतमं मां ते न जानन्ति प्रमोहिताः ॥ ६ ॥
यदाऽहं मायया विप्र छादयामि न मे वपुः ।
तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवन्दति च ॥ ७ ॥
मया नानावताराश्च कृतास्त्रैलोक्यगेषु वै ।
देवादीनां प्रगेहेषु तादृशं मां वदन्ति ते ॥ ८ ॥
अग्रपूज्यत्वमेवं यत् सर्वपूज्यत्वमञ्जसा ।
शिवेन दत्तमस्मै तद्गणेशाय वदन्ति ते ॥ ९ ॥
मायया मोहिता मे मां पार्वतीमलसम्भवम् ।
शिवपुत्रं शिवेनैव स्थापितं प्रवदन्ति ते ॥ १० ॥
शिवगणस्वरूपोऽयं मुक्तिं दातुं न च क्षमः ।
कार्यसिद्धिस्वभावेन कामपूरो गणेश्वरः ॥ ११ ॥
इत्यादिभावा बहवो मया विप्र प्रकाशिताः ।
क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानन्ति चापरम् ॥ १२ ॥
नो चेत् स्वानन्दगाः सर्वे भवन्त्यत्र न संशयः ।
निर्मोहात् कल्पपर्यन्तं जगन्नैव प्रवर्तते ॥ १३ ॥
अन्यच्च कर्मणा सर्वं ब्रह्माण्डं जनसंयुतम् ।
नानाभावात्ममोहस्थं भवतेऽनेकनिश्चयात् ॥ १४ ॥
अन्ते मदीयभावस्था भवन्ते शुद्धचेतसः ।
वेदशास्त्रार्थतत्त्वज्ञाः स्वयमेव महामुने ॥ १५ ॥
अहं साक्षाद् बुद्धिपतिः कृत्वा बुद्धेश्च चालनम् ।
गोपयामि गणेशस्य स्वरूपं देहिनां हृदि ॥ १६ ॥
तेन मां नैव जानन्ति जना परमगं कदा ।
विवेकमार्गं ते तत्र वदामि शृणु यत्नतः ॥ १७ ॥
कृते मां पूर्णभावेन भजन्ते सर्वमानवाः ।
अज्ञानावरणैर्हीनाः श्रेष्ठं ते प्रवन्दति हि ॥ १८ ॥
त्रेतायां पादहीनेन मां भजन्ते नरा मुने ।
पञ्चायतनभावेन पञ्च श्रेष्ठान् वदन्ति ते ॥ १९ ॥
तत्र सर्वेषु साम्येन मां भजन्ते न संशयः ।
चर्तुभ्यः श्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् ॥ २० ॥
द्वापरे द्विपदा हीनं मां भजन्ते सुरादयः ।
वदन्ति न्यूनरूपं तु चतुर्भ्यः शङ्करात्मजम् ॥ २१ ॥
वेदशास्त्रे पुराणेषु श्रेष्ठं जानन्ति मानवाः ।
मोहेन युगमानेन मां न्यूनं प्रवदन्ति ते ॥ २२ ॥
सर्वं ब्रह्मेति वेदेषु कथितं तत्र किं भवेत् ।
सत्ता समानरूपा तु तथाऽयं गणनायकः ॥ २३ ॥
कलौ त्रिपादहीनेन मां ज्ञानेन भजन्ति ते ।
वदन्ति वै नरास्तत्र मलजोऽयं गजाननः ॥ २४ ॥
शिवस्य वरदानेनाग्रपूज्योऽयं गणेश्वरः ।
सर्वपूज्यो यथा दैत्या जन्तवो वरसंयुताः ॥ २५ ॥
सर्वं ब्रह्मेति वेदेषु कथितं तेन विघ्नपः ।
वर्णितोऽयं शिववरबलेनैव मुनीन्द्रकैः ॥ २६ ॥
[[१०३]]
स्वसत्तासंयुतो देवो नाऽयं चिन्तामणिः कदा ।
शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥ २७ ॥
कलिप्रान्ते मुने लोका न भजिष्यन्ति मां कदा ।
एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥ २८ ॥
मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः ।
शिवविष्ण्वादिकान् सर्वे भजन्ते त्वग्रपूज्यकान् ॥ २९ ॥
सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः ।
अन्ते विघ्नयुताः सर्वे नरकेषु पचन्ति वै ॥ ३० ॥
युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने ।
कर्माकर्मविकर्माणि स्थापितानि विभागशः ॥ ३१ ॥
न करोमि यदाऽहं चेत्तदा मे वरदानकम् ।
कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥ ३२ ॥
नरकादय आख्याताः स्वर्गाश्चैव महामुने ।
भवन्ति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥ ३३ ॥
शुभाशुभमयं सर्वं मया स्ववरदानतः ।
स्थापितं तेन मोहेन मां न जानन्ति मूलगम् ॥ ३४ ॥
एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् ।
मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥ ३५ ॥
कपिल उवाच ।
एवमुक्त्वा गणेशानो मामन्तर्धानमाकरोत् ।
अहं खेदसमायुक्तो हृदये तमलोकयम् ॥ ३६ ॥
मयाऽसौ स्थापितश्चिन्तामणिर्विप्र परेश्वरः ।
पूजयामि भजे नित्यं भक्तिभावसमन्वितः ॥ ३७ ॥
एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः ।
लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥ ३८ ॥
त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः ।
तवदर्शनमात्रेण सर्वे पूता भवन्ति च ॥ ३९ ॥
गार्ग्य उवाच ।
श्रुत्वैवं मुद्गलो योगी महत् स्वानन्दलोकगम् ।
माहात्म्यं विस्मितो भूत्वा प्रणनाम महामुनिम् ॥ ४० ॥
चिन्तामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः ।
मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥ ४१ ॥
एवं ते सर्वमाख्यातं भज तं भावसंयुतः ।
अनेन जडदेहेन स्वानन्दं लभसे नृप ॥ ४२ ॥
मुद्गल उवाच ।
एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः ।
अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥ ४३ ॥
ऐलोऽपि गणराजं तं लक्षसञ्ज्ञं निरन्तरम् ।
सेव्यस्वानन्दगो भूत्वा भजते तं प्रजापते ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥