४१ स्वानन्दस्थितिवर्णनम्

॥ श्रीगणेशाय नमः ॥

कपिल उवाच ।

त्वदीयभक्तिसंयुक्ता नराः स्वानन्दगा बभुः ।
गच्छन्ति केन मार्गेण तद्वदस्व गजानन ॥ १ ॥

चिन्तामणिरुवाच ।
मदीयोपासनायुक्ता मन्निष्ठा मत्परायणाः ।
अन्ते मेऽत्र स्मृतिं कृत्वा गच्छन्ति मम लोककम् ॥ २ ॥

विमानं स्वस्वरूपाढ्यं प्रेषयामि महामुने ।
शिवविष्ण्वादिदेवानामदृश्यं निजलोकतः ॥ ३ ॥

तमारुह्य गणैर्युक्तं भक्तो मे देहधृक् स्वयम् ।
स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवतीत्यहो ॥ ४ ॥

न तं पश्यति देवाद्या योगिनो यानसंस्थितम् ।
स्वानन्दचक्षुषा हीना मृतदेहमया मुने ॥ ५ ॥

शक्तेर्लोकमतिक्रम्य तथा सौरं च वैष्णवम् ।
शैवं ततः परं सोऽपि मम लोकं प्रविन्दति ॥ ६ ॥

तत्राज्ञानमयश्चादावन्धकारः प्रदृश्यते ।
नरेण न गणैर्विप्र देहधारणकारणात् ॥ ७ ॥

विमानप्रभया तत्र मदीयस्मरणेन वै ।
योजनान्ययुतं गत्वा प्रकाशस्तेन दृश्यते ॥ ८ ॥

तत्र भ्रामरिका देवी प्रचण्डदेहधारिणी ।
ज्योतिर्मयस्वरूपेणाज्ञानिभ्यो भयदा बभौ ॥ ९ ॥

जन्ममृत्यभयं सर्वं नानाभेदकरं भ्रमम् ।
तया संरचितं पूर्णं मम जानीहि मायया ॥ १० ॥

भ्रामयेत् सर्वभूतानि सा स्थिता भ्रामरी स्वयम् ।
स्वस्याधारेण तत्रैव स्वानन्दमयकायभृत् ॥ ११ ॥

तां पश्य भयभीतः स मां सस्मार विशेषतः ।
ततो गणैः समाश्वास्याऽग्रे निन्ये मानवोत्तमः ॥ १२ ॥

तस्या मस्तकगा शक्तिर्ज्योतिराधाररूपिणी ।
अज्ञानिभ्यो सदा विप्र भयदा सा बभूव ह ॥ १३ ॥

जीवरूपं सदा सर्वभेदमोहधरं परम् ।
शिवरूपं तथा साक्षि तदाधारं प्रवर्तते ॥ १४ ॥

देहादीनां महायोगिन्नाधारो जीवसञ्ज्ञितः ।
स्वयमाधारहीनत्वात् परमात्मा तदेव च ॥ १५ ॥

सर्वेषां पूर्ण आधारस्तया क्लृप्तो महामुने ।
आधारशक्तिरेवं सा नाम्ना तस्य स्थिताऽभवत् ॥ १६ ॥

तयाऽहं द्विविधश्चित्ते भवाम्यज्ञानिनां सदा ।
जीवात्मपरमात्मस्थो माया तत्र बभौ परा ॥ १७ ॥

मदीयध्यानजेनैव तामतिक्रम्य मानवः ।
गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ॥ १८ ॥

ततोऽतिज्योतिषा रूपा शक्तिर्वै कामदायिनी ।
तस्या मस्तकगा विप्र शोभते हर्षदायिनी ॥ १९ ॥

जन्ममृत्युयुतं सर्वं भेदरूपं तथा परम् ।
आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता ॥ २० ॥

तथा कामयुतं विप्र द्विविधं प्रकृतं सदा ।
तेन देहात्मनोर्योगः परस्परयुतोऽभवत् ॥ २१ ॥

उत्पत्तिस्थितिसंहारयुक्तं भ्रान्तिधरं स्मृतम् ।
नानाभेदमयं पूर्णं क्षयवृद्ध्यादिसंयुतम् ॥ २२ ॥

आत्मा सदाऽमृताधार उत्पत्तिस्थितिनाशकैः ।
हीना वृद्धिक्षयादिभ्यो वदन्ति वेदवादिनः ॥ २३ ॥

किमर्थं भेदयुक्तं च सर्वदाऽऽत्मानमिच्छति ।
तथा पश्यात्मवैचित्र्यं विरुद्धे सतिमानद ॥ २४ ॥

कामयुक्तं ह्यसिपदेन द्वन्द्वस्थं कृतं सदा ।
तेन मोहप्रभावेण परस्परहितं जगत् ॥ २५ ॥

अतः सा शक्तिराख्याता कामदा सर्वमोहिनी ।
असिरूपा विशेषज्ञ महामाया मदीयिका ॥ २६ ॥

भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र प्रदृश्यते ।
त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥ २७ ॥

आधाराया महायोगिन्नाधारान्या न विद्यते ।
शक्तिः कुत्र ततः सापि तत्पदस्थाऽत्र कथ्यते ॥ २८ ॥

कामदायाश्च का शक्तिः कामदान्या न विद्यते ।
सर्वदा सर्वरूपासि पदमय्यापि सा बभौ ॥ २९ ॥

तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् ।
मायया रचितं विप्र मया स्वानुभवात्मकम् ॥ ३० ॥

तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् ।
जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥ ३१ ॥

भेदाभेदादिहीनश्च भूत्वा पश्यति मां ततः ।
मद्दर्शनजयोगेन ब्रह्मभूतो भवेन्नरः ॥ ३२ ॥

स्वेच्छया निजलोकस्थो यत्र तत्र स सञ्चरेत् ।
सगुणो निर्गुणो भूत्वा सदा स्वानन्दगः परः ॥ ३३ ॥

ततस्तस्य पुनर्भ्रान्तिर्न भवेन् मुनिसत्तम ।
कल्पकोटिशतैर्वाऽपि निश्चितं वेदवादिभिः ॥ ३४ ॥

महालये चतुर्भेदा मयि चैकत्वमागताः ।
?35 missing in the original अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥ ३६ ॥

एतत्ते कथितं सर्वं मम लोकागमे मुने ।
सङ्क्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥ ३७ ॥

कपिल उवाच ।

त्वदीयोपासनं कृत्वा बहवस्ते गजानन ।
लोकं गच्छन्ति विघ्नेश तथा योगिन एव च ॥ ३८ ॥

ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतन्ति चेत् ।
तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥ ३९ ॥

पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो ।
पूर्णं विश्वमिदं नित्यमञ्जसा भाति खेलसि ॥ ४० ॥

चिन्तामणिरुवाच ।
यथाऽहं मायया विप्र युद्धकाले विशेषतः ।
भूत्वा ह्यनन्तरूपेण प्रयुद्ध्ये विश्वपालनात् ॥ ४१ ॥

हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् ।
भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥ ४२ ॥

तथा मायाबलेनैव नूतनं संसृजाम्यहम् ।
न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥ ४३ ॥

कपिल उवाच ।

ब्रह्मभूता नरा नार्यः स्वानन्दे संस्थिता बभुः ।
अनन्तास्ते प्रभक्त्या वै पुनः स्वानन्दगामिनः ॥ ४४ ॥

तेषां वासः सदा तत्र नगरं नियतं प्रभो ।
सङ्कीर्णता भवेन्नूनं कुत्र तिष्ठन्ति तद्वद ॥ ४५ ॥

चिन्तामणिरुवाच ।
स्वानन्दे कल्पपर्यन्तमवसन्नित्यमादरात् ।
महालये समुत्पन्ने मद्देहे सङ्गता बभुः ॥ ४६ ॥

मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम ।
युगान्ते योगभावेन मद्रूपं भवतीत्यहो ॥ ४७ ॥

मद्देहे योगभावेनाज्ञानेनैव समागताः ।
सा योगनिद्रा विप्रेन्द्र मदीया कथ्यते बुधैः ॥ ४८ ॥

स्वानन्दस्था जनाः सर्वे ज्ञानयुक्ता मदीयके ।
देहे लीना वै भवन्ति योगीन्द्रा योगभावतः ॥ ४९ ॥

पुनः सृष्टियुगे विप्र निःसृतं विश्वमञ्जसा ।
अज्ञानेन युतं लीनं मायया मे न संशयः ॥ ५० ॥

ज्ञानेन ये समायाता मद्देहे ते पुनः कदा ।
भवन्ति भिन्नरूपा न सृष्ट्यादौ योगभाविताः ॥ ५१ ॥

[[१०१]]

एवं वसन्ति ये तत्र स्वानन्दे मुनिसत्तम ।
कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥ ५२ ॥

कपिल उवाच ।

भक्तिमिच्छन्ति विघ्नेश त्वदीयां नित्यमादरात् ।
न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥ ५३ ॥

कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः ।
भवन्ति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥ ५४ ॥

चिन्तामणिरुवाच ।
दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् ।
योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥ ५५ ॥

अपारयोजनाकारो मम लोको न संशयः ।
स्वानन्दस्तत्र मे भक्ता वसन्ति सेवनोत्सुकाः ॥ ५६ ॥

सङ्ख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः ।
नवधा मां भजन्ते ते कल्पे कल्पे गतव्यथाः ॥ ५७ ॥

भवन्ति तु भविष्यन्ति बभूवुर्ये महामुने ।
मद्भक्ता मे प्रसान्निध्ये वसन्ति मोहदाः सदा ॥ ५८ ॥

महाभागा प्रियं भक्तिसमं मे नैव विद्यते ।
भक्त्यधीनो महानन्दाद् भ्रमेयं भक्तसन्निधौ ॥ ५९ ॥

यत्र कुत्र तु तिष्ठन्ति भक्ता मे तत्र सर्वदा ।
तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥ ६० ॥

नवधा चित्तभावेन भक्तसामीप्यगो मुदा ।
भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥ ६१ ॥

न स्वानन्दप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा ।
मम देहो न विप्रेश प्रिया भक्ता यथा च मे ॥ ६२ ॥

कपिल उवाच ।

स्वानन्दस्था गणास्ते ये भक्तान्नेतुं समागताः ।
ज्योतीरूपाश्च भक्तैस्ते दृश्यन्ते कथमप्यहो ॥ ६३ ॥

चिन्तामणिरुवाच ।
मायया मे महायोगिन् दुर्लभं किं भवेद्वद ।
कृपया मेऽत्र पश्यन्ति भक्तास्तान् चर्मचक्षुषा ॥ ६४ ॥

स्वानन्दः सर्वरूपश्च तत्र मार्गं वदामि ते ।
भेदयुक्तैर्गणा मे वै दृश्यन्ते भेदसंयुताः ॥ ६५ ॥

भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने ।
दृश्यन्ते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥ ६६ ॥

जलादिषु यथा बिम्बं भवते तादृशं किल ।
तथा मदीयलोकस्था दृश्यन्ते सर्वमण्डले ॥ ६७ ॥

एतत्ते कथितं सर्वं ममलोकविचेष्टितम् ।
अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥ ६८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥

[[१०२]]