४० स्वानन्दलोकवर्णनम्

॥ श्रीगणेशाय नमः ॥

ऐल उवाच ।

श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् ।
न तृप्तोऽहं महायोगिन् भवाम्यमृतपानवत् ॥ १ ॥

न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके ।
धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥ २ ॥

अधुना वद योगीश गणेशलोकवर्णनम् ।
कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥ ३ ॥

गार्ग्य उवाच ।

अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥ ४ ॥

एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप ।
जगाम कपिलस्यैवाश्रमं गङ्गातटे स्थितम् ॥ ५ ॥

प्रणम्य स जगादापि कपिलं हर्षसंयुतः ।
कृत्वा करपुटं चाङ्गिरस आदौ वराग्रणीः ॥ ६ ॥

मुद्गल उवाच ।

साक्षाद्विष्णुस्वरूपस्त्वं शुक्ल सर्वार्थदायक ।
गाणपत्येषु मुख्यस्त्वं साङ्ख्यानां परमा गतिः ॥ ७ ॥

त्वद्दर्शनजपुण्येन कृतकृत्योऽहमञ्जसा ।
कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥ ८ ॥

एवं वदन्तमत्यन्तं कपिलस्तं ननाम च ।
पूजयामास हर्षेण मुद्गलं भावभावितम् ॥ ९ ॥

ततस्तं कपिलो योगी जगाद वचनं हितम् ।
तात ते दर्शनेनाद्य पवित्रोऽहं च साम्प्रतम् ॥ १० ॥

पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने ।
साक्षान् मुद्गल शस्त्रेशो गाणेशो नात्र संशयः ॥ ११ ॥

यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् ।
नामरूपविहीनांश्च कुरुते मानवः परान् ॥ १२ ॥

तथा त्वया महायोगिंस्तपसा योगसेवया ।
अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥ १३ ॥

नानायोगिन एवं तं योगेन स्वाभिमानकम् ।
चूर्णयन्ति महाभाग तथापि हृदि तिष्ठति ॥ १४ ॥

तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम ।
वयं न तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥ १५ ॥

त्वदीयकृत्याङ्गिरसं पुराणं सम्भविष्यति ।
सर्वेषां मान्यमेकं तद्योगप्रदं न संशयः ॥ १६ ॥

अभिमानेन युक्तानि पुराणानि विशेषतः ।
शास्त्राणि नात्र सन्देहः कारणं शृणु मुद्गल ॥ १७ ॥

ज्ञातं गुह्यं तत्तथापि सङ्गोप्य स्वमतं पुनः ।
स्थापयित्वा विशेषेणाञ्जसा तथ्यं वदन्ति ते ॥ १८ ॥

गणेशभक्तः संस्त्वं तु तथापि गणनायकम् ।
रहस्येन विशेषार्थं न करोषि कदाचन ॥ १९ ॥

त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः ।
अभिमानेन हीनत्वाद्वेदगुह्यप्रकाशकम् ॥ २० ॥

त्वया कृतं पुराणं यत्तदान्त्यं प्रभविष्यति ।
पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥ २१ ॥

त्वयोक्तं निन्दयेद्यो वै भवेत् स निरयप्रदः ।
अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥ २२ ॥

वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् ।
ग्रन्थो भविष्यन् नूनं निरभिमानत्वकारणात् ॥ २३ ॥

न मुद्गलसमो योगी न मुद्गलसमः कदा ।
गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥ २४ ॥

स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ ।
त्वद्दर्शनेन संहृष्टो भवामि गणपप्रिय ॥ २५ ॥

[[९७]]

कपिलेन महायोगी सत्कृतस्तत्र भूमिप ।
मुद्गलस्तत्र सान्निध्ये न्यवसद्भावसंयुतः ॥ २६ ॥

एकदा सुखमासीनं कपिलं योगिनां वरम् ।
पप्रच्छ मुद्गलो हर्षात् विनयावनतोऽभवत् ॥ २७ ॥

मुद्गल उवाच ।

स्वामिंस्त्वदीयगेहे स चिन्तामणिः समागतः ।
पुत्रभावेन साक्षात्तु ब्रह्मणां नायकः परः ॥ २८ ॥

त्वया भावेन सर्वेश आराधितो निरन्तरम् ।
गुह्यं तस्य त्वमेवेह जानास्यत्र न संशयः ॥ २९ ॥

न त्वत्समो महासिद्धः साक्षाद्विष्णुस्त्वमञ्जसा ।
गाणपत्यः स्वयं योगी गणेशजनकः पुनः ॥ ३० ॥

परिपृच्छाम्यतस्त्वाहं वद सर्वं महाप्रभो ।
भवादृशा जनानां तु तारणाय भवन्ति हि ॥ ३१ ॥

स्वानन्दवसतिः स्वामिन् कीदृशी तत्र किं सुखम् ।
विस्तारः कीदृशस्तस्याः केन योगेन लभ्यते ॥ ३२ ॥

न कोऽपि तस्य लोकस्य जानाति त्वदृते परम् ।
रहस्यं वद सर्वेश गाणपत्यस्य विस्तरात् ॥ ३३ ॥

गार्ग्य उवाच ।

एवं पृष्टो महासिद्धस्तं प्रहस्य प्रशंसयन् ।
जगाद कपिलो हर्षाद्गाणपत्याग्रणीर्वचः ॥ ३४ ॥

कपिल उवाच ।

शृणु मुद्गल माहात्म्यं सङ्क्षेपेण ब्रवीम्यहम् ।
स्वानन्दलोकगं पूर्णं सारं सर्वत्र सम्मतम् ॥ ३५ ॥

गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् ।
गन्तुं समुद्यतस्तत्र निजलोके यदाऽभवत् ॥ ३६ ॥

ततो मयाऽतिभक्त्या वै प्रार्थितो गणनायकः ।
उवाच मां वरं योगिन् वृणु दास्यामि मानद ॥ ३७ ॥

ततश्चिन्तामणिं विप्र प्रणम्योचेऽतिदुःखितः ।
वद स्वानन्दलोकस्य माहात्म्यं गणनायक ॥ ३८ ॥

नानालोकाः श्रुताः स्वामिन् न स्वानन्दं गजानन ।
जानाति कोऽपि यत्र त्वं प्रभो वससि नित्यदा ॥ ३९ ॥

चिन्तामणिरुवाच ।
स्वानन्दं यच्च वेदेषु ब्रह्म योगीन्द्रसत्तम ।
तदेव मायया पूर्वं बभूव नगरं महत् ॥ ४० ॥

स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचित् ।
अथवा मे व्रताद्यैश्चोपासनेन महामुने ॥ ४१ ॥

न जपैस्तपसा दानैर्नानाकर्मपरायणैः ।
लभ्यते निजलोको वै जानीहि मुनिसत्तम ॥ ४२ ॥

न तत्र विष्णुशम्भ्वाद्याः शुकाद्या योगिनोऽपरे ।
गच्छन्ति मार्गहीनत्वादगम्यः सम्मतः सदा ॥ ४३ ॥

चतुर्विधमयैर्भावैर्लभ्यते न कदाचन ।
अगम्यस्तैर्न सन्देहो मम लोको महामते ॥ ४४ ॥

दशसाहस्रकं विप्र योजनानां प्रविस्तरः ।
अत ऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः ॥ ४५ ॥

वर्तुलः सर्वतः सोऽपि स्वस्थाधारेण तिष्ठति ।
सदा ज्योतिर्मयः साक्षाज्ज्योतिषां ज्योतिरुच्यते ॥ ४६ ॥

न तत्र सगुणं सर्वं निर्गुणं नैव विद्यते ।
पुमान् नपुंसकं न स्त्री वर्तते मुनिसत्तम ॥ ४७ ॥

चतुर्विधेषु सर्वेषु नानाभावगतेषु च ।
स्वसंवेद्यं निजात्मस्थं संस्थितं मेऽत्र सन्निधौ ॥ ४८ ॥

चतुर्विधेषु सर्वेषु मायायुक्तमिह स्थितम् ।
सदा भ्रान्तं विजानीहि स्वस्वरूपं महामते ॥ ४९ ॥

तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितम् ।
निर्गुणेन स्वभावेन सदा खण्डमयं परम् ॥ ५० ॥

[[९८]]

तयोर्योगे निजानन्दो ढुण्ढिलोकग एव सः ।
बभूव तत्र भक्त्या मे भक्तास्तिष्ठन्ति सन्निधौ ॥ ५१ ॥

मम लोके महाभाग न क्षुधा न तृषादिकम् ।
सदा स्वानन्दभोगस्था वसन्ति मम सेवकाः ॥ ५२ ॥

न कृत्रिमं सुखं तत्र विद्यतेऽकृत्रिमं न हि ।
स्वानन्देन निमग्नास्ते सर्वं भुञ्जन्ति नित्यदा ॥ ५३ ॥

सगुणं तु सुखं सर्वे भुञ्जते निर्गुणं तथा ।
स्वानन्दसम्भवं तत्स्था एककाले महामते ॥ ५४ ॥

अत्र यत् संस्थितं सर्वं नानाभेदमयं मुने ।
तदेव ज्योतीरूपेण मम लोके प्रतिष्ठति ॥ ५५ ॥

अत्रैव न स्थितं यच्च निर्गुणं विप्र तत्र तत् ।
ज्योतीरूपेण मे लोके किल तिष्ठति सर्वदा ॥ ५६ ॥

स्वानन्दसम्भवं सर्वं तत्र तिष्ठति नित्यदा ।
मायया मेऽत्र लोकेऽतः सदाऽऽश्चर्यमयो बभौ ॥ ५७ ॥

सगुणो नैव विप्रेश सगुणं तत्र वर्तते ।
निर्गुणो न स नैर्गुण्यं वर्तते मे च लोकगम् ॥ ५८ ॥

सगुणैर्निर्गुणैर्हीनं वर्तते तत्र सर्वदा ।
अत आश्चर्यसंयुक्तो मम लोको विशेषतः ॥ ५९ ॥

न तत्राऽहं स्वभावश्च नाऽहं भावविवर्जितः ।
मम लोके महायोगिन् सदा तिष्ठन्ति मत्प्रियाः ॥ ६० ॥

सगुणाऽमृतरूपं यद्भोगदं मृततुल्यकम् ।
निर्गुणामृतरूपं यदमृते भोगकारकम् ॥ ६१ ॥

तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकम् ।
तन्मयः सागरस्तत्र स्वस्थाधारेण वर्तते ॥ ६२ ॥

मिष्टं नानाविधं तस्मान्निःसृतं सगुणात्मकम् ।
निर्गुणात्मकमेतस्मादिक्षुसागर उच्यते ॥ ६३ ॥

स्वस्वरूपात्मकं तत्र जलं रक्तस्वरूपकम् ।
तस्य नश्यति पानेन नैर्गुण्यं सगुणात्मकम् ॥ ६४ ॥

तस्माद्धारा समुद्भूता मधुधारा प्रकथ्यते ।
तया सगुणनैर्गुण्यं वर्तते तृप्तिसंयुतम् ॥ ६५ ॥

तत्राऽहं सिद्धिबुद्धिभ्यां सदा क्रीडामि मानद ।
ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसन्ति हि ॥ ६६ ॥

शुण्डादण्डादिचिह्नैश्च संयुतोऽहं सदा मुने ।
गणा मेऽन्ये तथा भक्ताः स्वेच्छारूपाः वसन्ति ते ॥ ६७ ॥

एतत्ते कथितं सर्वं मम लोकसुखं महत् ।
मानयुक्तं मानहीनं हृदये पश्य मां मुने ॥ ६८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॥

[[९९]]