३९ गृत्समदप्रोक्तबाह्यपूजावर्णनम्

॥ श्रीगणेशाय नमः ॥

ऐल उवाच ।

बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो ।
तेन मार्गेण विघ्नेशं भजिष्यामि निरन्तरम् ॥ १ ॥

गार्ग्य उवाच ।

आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः ।
चकार विधिवद्बाह्यां तां शृणुष्व सुखप्रदाम् ॥ २ ॥

हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् ।
नासिकारन्ध्रमार्गेण बाह्यगं तं चकार सः ॥ ३ ॥

आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् ।
पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४ ॥

गृत्समद उवाच ।

चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तये ॥ ५ ॥

आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित ।
सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ ६ ॥

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥ ७ ॥

रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ ८ ॥

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥ ९ ॥

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥ १० ॥

रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११ ॥

दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२ ॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३ ॥

चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४ ॥

यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल ।
उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥ १५ ॥

नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६ ॥

कामधेनुसमुद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७ ॥

पञ्चामृतस्य मध्ये तु जलस्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेन ब्रह्मकमण्डलूद्भवैः ॥ १८ ॥

दधिधेनुपयोभूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९ ॥

सन्तोषकारकं ढुण्ढे घृतं धेनुसमुद्भवम् ।
महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥ २० ॥

पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१ ॥

इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् ।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२ ॥

यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।
आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३ ॥

ततो गन्धाक्षतादीन् दूर्वां कुरांश्च गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ॥

ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः ।
अभिषेकं ते करोमि गृहाण द्विरदानन ॥ २५ ॥

तीर्थैराचमनं देव सुवस्त्वभिसुवासितैः ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६ ॥

[[९४]]

वस्त्रयुग्मे गृहाण त्वमनर्घे रक्तवर्णके ।
लोकलज्जाहरायैव विघ्नराज नमोऽस्तु ते ॥ २७ ॥

उत्तरीयं सुचित्रं ते नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८ ॥

उपवीतं गणाध्यक्ष गृहाण त्वं ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९ ॥

ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदानन्दविवर्धन ॥ ३० ॥

भूषणानि विचित्राणि सर्वाङ्गे भूषणाय ते ।
सुवर्णरत्नकाद्यैश्च निर्मितानि गृहाण भोः ॥ ३१ ॥

अष्टगन्धं समायुक्तं गन्धं रक्तं गजानन ।
द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२ ॥

रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् ।
गणराज गृहाण त्वमक्षतान् भालमण्डले ॥ ३३ ॥

कह्लारचम्पकादीनि रक्तानि च गजानन ।
पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥ ३४ ॥

दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ ॥

नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानं मानसं दोषं हरन्तं ज्योतिरात्मकम् ॥ ३६ ॥

चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ ॥

सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८ ॥

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९ ॥

खर्जूरं दाडिमं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४० ॥

अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१ ॥

दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२ ॥

राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३ ॥

तत आवरणं तेऽद्य पूजयामि विधानतः ।
उपचारैश्च विविधैस्तेन तुष्टो भव प्रभो ॥ ४४ ॥

ततो दूर्वाङ्कुरान् ढुण्ढे एकविंशतिसङ्ख्यकान् ।
गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५ ॥

नानादीपसमायुक्तं नीराजनं गजानन ।
गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥ ४६ ॥

गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७ ॥

कर्पूराद्यां महार्तिं च नानादीपमयीं प्रभो ।
गृहाण ज्योतिषां नाथ तया नीराजयाम्यहम् ॥ ४८ ॥

पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो ।
एकं तु सप्तवारं वै सर्वाङ्गेषु नीराजनम् ॥ ४९ ॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५० ॥

गाणपत्यैः पञ्चविधमयैः स्तोत्रैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१ ॥

एकविंशतिसङ्ख्याकां त्रिसङ्ख्यां वा गजानन ।
प्रदक्षिणां गृहाण त्वं ब्रह्मब्रह्मेशभावतः ॥ ५२ ॥

साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३ ॥

[[९५]]

न्यूनातिरिक्तभावार्थं काञ्चित् दूर्वाङ्कुरान् प्रभो ।
समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व मे ॥ ५४ ॥

त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५ ॥

अपराधानसङ्ख्यातान् क्षमस्व गणनायक ।
भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६ ॥

त्वं माता त्वं पिता त्वं वै सुहृत् सम्बन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७ ॥

जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् ।
सांसर्गिकं च यत् कर्म गणेशाय समर्पये ॥ ५८ ॥

बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।
गणेशपादतीर्थस्य मस्तके वन्दनात् किल ॥ ५९ ॥

पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ॥ ६० ॥

गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु योऽर्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ ६१ ॥

यदि गणेशपूजादौ गन्धं भस्मादिकं चरेत् ।
गणेशोच्छिष्टगन्धं तु नोचेत्तत्र विधिं चरेत् ॥ ६२ ॥

द्वादशाङ्गेषु विघ्नेश नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशस्य समो भवति भूतले ॥ ६३ ॥

गणेश्वरं मूर्ध्नि चादौ ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४ ॥

वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५ ॥

बाहौ दक्षिणके चैव हेरम्बं वामबाहुके ।
विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६ ॥

कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७ ॥

सर्वाङ्गलेपनं शस्तं चित्रितं गन्धमष्टकैः ।
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८ ॥

भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९ ॥

गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासो गजानन सदाऽस्तु मे ॥ ७० ॥

गार्ग्य उवाच ।

एवं गृत्समदो विप्रश्चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१ ॥

तथा कुरु महीपाल गाणपत्यो भविष्यसि ।
यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥

[[९६]]