॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलगं कुरुष्व ॥ १ ॥
एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ २ ॥
शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोञ्छ्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३ ॥
द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४ ॥
रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥ ५ ॥
सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः ।
तोयं सुवासै रचितं गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६ ॥
शुद्धेन वस्त्रेण गणेश पादौ सम्प्रोञ्छ्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो चित्तं विलीनं कुरु ते पदाब्जे ॥ ७ ॥
कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाऽऽशु ॥ ८ ॥
प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९ ॥
शुद्धं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण ।
तोयेन चाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १० ॥
द्रव्यैर्युतं चम्पकजातिकाद्यैः तैलं मया कल्पितमेव ढुण्ढे ।
दत्तं गृहाणाऽऽशु विमर्दयामि सर्वाङ्गमानन्दद सेवनाय ॥ ११ ॥
[[८९]]
देवं सुखोष्णेन जलेन चाऽहं सर्वाद्यतीर्थाहृतकेन ढुण्ढिम् ।
चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२ ॥
ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामय त्वं प्रकल्पितं नाथ जलस्य चाथ ॥ १३ ॥
ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४ ॥
सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तर्गणेश मायाभ्रमवारणाशु ॥ १५ ॥
सुयक्षपङ्कस्थमथो गृहाण स्नानं परेशाधिपते ततश्च ।
कमण्डलौ सम्भवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥ १६ ॥
दुग्धेन सूक्तैर्मनसा सुतीर्थैः सम्पूज्य दूर्वादिभिरल्पभावैः ।
सङ्ख्यातिगैर्मण्डलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥ १७ ॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन चाचान्तमेव ढुण्ढे कुरु विघ्नराज ॥ १८ ॥
अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै ।
दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९ ॥
आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् ।
भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥ २० ॥
यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धृतिकारणाय ॥ २१ ॥
आचान्तमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुण्ढे ।
भावेन कामण्डलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥ २२ ॥
उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादरात्त्वं हेरम्ब चित्तेन कुरुष्व पूर्णम् ॥ २३ ॥
साहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै ।
अनन्तरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥
विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥
शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥ २६ ॥
सुवर्णरत्नैश्च युतानि सम्प्रकल्प्यैकदन्ताभरणानि ढुण्ढे ।
गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥ २७ ॥
रत्नैः सुवर्णेन कृतानि यानि चत्वारिसङ्कल्प्य गृहाण तानि ।
सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८ ॥
विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् ।
तथाङ्गुलिष्वेव यदङ्गुलीयं गणेश संशोभय तत्परेश ॥ २९ ॥
रत्नैर्विचित्रैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३० ॥
प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥ ३१ ॥
[[९०]]
चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥
चिन्तामणिं चिन्तितदं परेश हृद्देशगं कान्तिमयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानथ पालयस्व ॥ ३३ ॥
नाभौ फणीशं च सहस्रशीर्षं संवेष्टनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥ ३४ ॥
देशे कटौ रत्नसुवर्णयुक्तां काञ्चीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥ ३५ ॥
गणेश ते रत्नसुवर्णयुक्ते मञ्जीरके नूपुरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६ ॥
इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि ।
सुभूषयाम्येव तवाङ्गकेषु रत्नादिधातुप्रभवाणि ढुण्ढे ॥ ३७ ॥
सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगन्धमुख्यैः ।
मया युतं कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८ ॥
लिप्तेषु वैचित्रमथाष्टगन्धैरङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥ ३९ ॥
आज्येन वै कुङ्कुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि ।
भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४० ॥
गृहाण भोश्चम्पकमालतीस्थलपङ्कजान्यम्बुजपङ्कजानि ।
मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥ ४१ ॥
पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि ।
दत्तानि चित्तेन सुकल्पितानि सङ्ख्यातिगानि प्रणवाकृते ते ॥ ४२ ॥
दूर्वाङ्कुरान् वै मनसा प्रदत्तान् पञ्चत्रिपत्रान्वितकार्द्रभूतान् ।
श्वेतांश्च विघ्नेश्वर सङ्ख्यया त्वं हीनांश्च सर्वोपरि सङ्गृहाण ॥ ४३ ॥
दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्नौ ।
मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह सङ्गृहाण ॥ ४४ ॥
दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसकं गृहाण ।
विघ्नेश कर्पूरभवं गृहाण तैलादिसम्भूतममोघदृष्टे ॥ ४५ ॥
भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् ।
हेरम्ब नैवेद्यमथो गृहाण सङ्कल्पितं पुष्टिपते ह्यपारम् ॥ ४६ ॥
सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण ।
सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७ ॥
ततः करोद्वर्तनकं गृहाण सुगन्धयुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुण्ढे ॥ ४८ ॥
आचम्य सर्वेश सुवासितं च दत्तं मया तीर्थजलं पिबस्व ।
सङ्कल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखे करोमि ॥ ४९ ॥
द्राक्षादिरम्भाफलचूतकानि खर्जूरकर्कन्धुकदाडिमानि ।
स्वादेन युक्तानि मया गृहाण सङ्कल्प्य दत्तानि फलानि ढुण्ढे ॥ ५० ॥
पुनर्जलेनैव करादिकं क्षालयामि तेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१ ॥
अष्टाङ्गयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै ।
सुकल्प्य विघ्नेश्वर सङ्गृहाण नाथासकृत्तुण्डविशोधनार्थम् ॥ ५२ ॥
[[९१]]
ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते ।
शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसञ्छादितके प्रसीद ॥ ५३ ॥
भक्त्या त्वदीयावरणं परेश सम्पूजयामि मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४ ॥
गृहाण लम्बोदर दक्षिणां तामसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृस्नमिदं सुपाहि ॥ ५५ ॥
राजोपचारान्विविधान् गृहाण छत्राश्वहस्त्यादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६ ॥
दानस्य नानाविधरूपकांस्ते दत्तान् मया वै मनसा गृहाण ।
गोभूमिकाद्यान् स्थिरजङ्गमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७ ॥
मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल सङ्गृह्य भक्तं कुरु मां पदस्ते ॥ ५८ ॥
ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९ ॥
ततः शुकाद्याः शिवविष्णुमुख्यामराधिपाः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६० ॥
वामाङ्गके भक्तियुता गणेशं सिद्धिश्च नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१ ॥
ब्रह्मेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेशा माया सुसाङ्ख्यप्रदचित्तरूपा ॥ ६२ ॥
प्रमोदमुख्याः प्रभुपृष्ठभागे गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३ ॥
गन्धर्वमुख्या मधुरं जगुश्च विश्वेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४ ॥
इत्यादि नानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु नीराजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥
चतुर्भुजं पाशधरं गणेशं तथाऽङ्कुशं वै दधतं च दन्तम् ।
त्रिनेत्रयुक्तं ह्यभयन्धरं तं महोदरं चैकरदं गजास्यम् ॥ ६६ ॥
सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः सम्पूजितं शक्तियुतं परेशम् ॥ ६७ ॥
ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८ ॥
आरार्तिकं त्वेतदपारदीपं कर्पूरभूतं प्रकरोमि पूर्णम् ।
चित्तेन लम्बोदर तत् गृहाण ह्यज्ञानध्वान्ताघहरं निजानाम् ॥ ६९ ॥
गणेश वैघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलप्रभूतम् ।
गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७० ॥
अनन्तवृत्त्या स्तुतिमेकदन्त विघ्नेश चित्तेन कृतां गृहाण ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥ ७१ ॥
प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः ।
असङ्ख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥
[[९२]]
नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३ ॥
न्यूनातिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण ।
दूर्वाङ्कुरान् विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४ ॥
क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् ।
मदीयभक्तिं सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५ ॥
मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवन्द्यम् ।
स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६ ॥
गणेश उत्थाय सभां विहाय गतस्ततस्त्वन्तरधामशक्तया ।
शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७ ॥
सर्वान्नमस्कृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महान्तम् ॥ ७९ ॥
विघ्नेशपादोदकपानकं मे तत्त्यक्तगन्धस्य सुलेपनं तु ।
निर्मात्यसन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८० ॥
करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश ।
प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१ ॥
शय्यामनर्घां परिकल्पयामि मन्दारकार्पासकवस्त्रयुक्ताम् ।
नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु सङ्गृहाण ॥ ८२ ॥
सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव ।
गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३ ॥
एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते रसलालसोऽहम् ॥ ८४ ॥
गार्ग्य उवाच ।
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५ ॥
य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६ ॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७ ॥
यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥
[[९३]]