॥ श्रीगणेशाय नमः ॥
ऐल उवाच ।
कथं नित्यं महायोगी गाणपत्याग्र्य एव च ।
महापूजां गृत्समदो द्विविधां प्रचकार ह ॥ १ ॥
तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै ।
गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥ २ ॥
गार्ग्य उवाच ।
शृणु तस्य मुनीन्द्रस्य चरित्रं भक्तिसंश्रितम् ।
यथा गजाननं सोप्यभजत्तं नित्यमादरात् ॥ ३ ॥
प्रातः काले समुत्थाय गुरुं नत्वा स्वमस्तके ।
मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥ ४ ॥
गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् ।
क्षमाप्य धरणीं पश्चात् पादं चिक्षेप विप्रपः ॥ ५ ॥
शौचाचारमशेषं च चकार शास्त्रमार्गतः ।
दन्तकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥ ६ ॥
आदावाभ्यन्तरं स्नानं चकार शृणु तन्नृप ।
वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥ ७ ॥
सहस्रारे समासीनं गजाननमनामयम् ।
अङ्गुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥ ८ ॥
पाशाङ्कुशधरं पूर्णं दन्ताभयसमन्वितम् ।
त्रिनेत्रं भूषणैर्युक्तमनर्घ्यवस्त्रराजितम् ॥ ९ ॥
पादाङ्गुष्ठाग्रसम्भूतां तस्य तीर्थमयीं पराम् ।
सरितं चिन्तयेत् पूर्णामासमन्तात् प्रसारिणीम् ॥ १० ॥
सर्वान्तर्गतजं पूर्णमज्ञानं मलरूपकम् ।
तया सङ्क्षालयेच्चित्ते नृप सर्वगया सुधीः ॥ ११ ॥
एवमान्तरगं स्नानं यः करोति नरोत्तमः ।
स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥ १२ ॥
बाह्यं ततः समाख्यातं वैदिकं तान्त्रिकं द्विधा ।
स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥ १३ ॥
ततः स्वमूलमन्त्रेण युक्तं तान्त्रिकमाचरेत् ।
स शुद्धः सर्वकर्मार्हो भवते देवतासमः ॥ १४ ॥
एवं गृत्समदः सर्वं चकार राजसत्तम ।
गणेशप्रीतिकामार्थं भक्तियुक्तो महामुनिः ॥ १५ ॥
शुचिवस्त्रे तथा गृह्य सन्ध्यां चकार वैदिकीम् ।
तत आगमसम्भूतां गाणेशीं सर्वसिद्धिदाम् ॥ १६ ॥
तत्राचमनकं प्रोक्तं त्रिविधं विबुधोत्तमैः ।
वैदिकं तान्त्रिकं पौराणिकं चैव सुसिद्धिदम् ॥ १७ ॥
व्याहृत्या वैदिकं प्रोक्तं मूलमन्त्रेण तान्त्रिकम् ।
पौराणिकं चतुर्थ्यन्तं तं गणेशनामसंयुतम् ॥ १८ ॥
तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु ।
यथा गृत्समदो विप्रेन्द्रश्चकार महायशाः ॥ १९ ॥
गणेशो ढुण्ढिराजश्च हेरम्बो वक्रतुण्डकः ।
शूर्पकर्णश्च विघ्नेशश्चिन्तामणिर्गजाननः ॥ २० ॥
लम्बोदरश्चैकदन्तो ब्रह्मणस्पतिरेव च ।
विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥ २१ ॥
धरणीधर आशापूरको महोदरस्तथा ।
धूम्रकेतुर्मयूरेशः स्वानन्दवासकारकः ॥ २२ ॥
त्रिभिराचम्य हस्तौ वै द्वाभ्यां सङ्क्षालयेन्नरः ।
द्वाभ्यामोष्ठौ सम्पुटं चैकेन वै संस्पृशंस्ततः ॥ २३ ॥
पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप ।
द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशेत्ततः ॥ २४ ॥
द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा ।
ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥ २५ ॥
जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् ।
आचमनं भवेत् साक्षाद्गणेशो भूमिमण्डले ॥ २६ ॥
[[८८]]
ततो न्यासादिकं कुर्यात् कलशस्थापनं चरेत् ।
पीठपूजां ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ २७ ॥
आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् ।
चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥ २८ ॥
ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् ।
स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥ २९ ॥
मानस्यां स्थिरचित्तत्वं कारणं परमं मतम् ।
न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥ ३० ॥
वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् ।
अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥ ३१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥