॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे ।
ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ १ ॥
ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ २ ॥
कर्तॄणां कतृरूपाय कवये कविनायक ।
कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ ३ ॥
जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते ।
उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥ ४ ॥
सदा मोहयुतायैव मोहमोहकराय ते ।
जीवाय बृहतां नाथाय बृहस्पतये नमः ॥ ५ ॥
सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे ।
गुहाहिताय साङ्ख्याय बृहस्पतिसखाय ते ॥ ६ ॥
स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे ।
जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥ ७ ॥
सत्यायायोगरूपाय मनोवाणीविवर्जित ।
भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥ ८ ॥
सर्वेषां पोषकायैव सोमायामृतरूपिणे ।
सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥ ९ ॥
उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च ।
त्रयीमयाय तूर्याय तूर्यातीताय ते नमः ॥ १० ॥
इन्द्रादिदेवतानां वै सहायाय नमो नमः ।
धर्मपालकभावाय धर्माधीशाय ते नमः ॥ ११ ॥
सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः ।
अराज्याय परेशाय संसारार्णवतारिणे ॥ १२ ॥
योगेभ्यो योगदात्रे च योगयोगाय ते नमः ।
शान्तिदाय सदा शान्तिस्थाय तत्पतये नमः ॥ १३ ॥
इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः ।
तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥ १४ ॥
किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् ।
भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥ १५ ॥
एवं गृत्समदः स्तुत्वा गणेशानं महीपते ।
हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥ १६ ॥
दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः ।
वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥ १७ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहो मम भक्तिविवर्धनम् ॥ १८ ॥
सदा शान्तिमयो भूत्वा मां भजिष्यसि मानद ।
त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥ १९ ॥
पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् ।
प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥ २० ॥
तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह ।
नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥ २१ ॥
उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् ।
गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥ २२ ॥
गृत्समद उवाच ।
धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः ।
विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ २३ ॥
अहो साक्षाद्गणेशानो ब्रह्मेन्द्रो दृष्टिमागतः ।
मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥ २४ ॥
एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् ।
तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥ २५ ॥
ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः।
[[८६]]
अतो मां ब्राह्मणं नाथ कुरु योगीन्द्र वन्द्यकम् ॥ २६ ॥
यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् ।
नाथो भवामि विघ्नेश योगीन्द्राणां गुरोर्गुरुः ॥ २७ ॥
त्वदीयपादपद्मे वै भक्तिं देहि गजानन ।
सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे ॥ २८ ॥
गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः ।
गृत्समदसमो नास्ति गाणपत्यस्वभावधृक् ॥ २९ ॥
एवमुक्त्वा गणेशानं प्रणनाम महामुनिः ।
तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥ ३० ॥
श्रीगणेश उवाच ।
गणानां त्वेति मन्त्रस्य जपः खलु कृतस्त्वया ।
सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥ ३१ ॥
ऋषिर्भव महाभाग गणानां त्वास्य मन्त्रतः ।
सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु ॥ ३२ ॥
आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति ।
पश्चान् मे देवतायाश्च मुख्यो भव मदीयके ॥ ३३ ॥
न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने ।
मानयिष्यन्ति विप्रास्त्वामत्रिमुख्या न संशयः ॥ ३४ ॥
त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च मे ।
गणानां त्वा जपिष्यन्ति फलहीना भवन्तु ते ॥ ३५ ॥
शिवविष्ण्वादयो देवा ब्रह्माद्या ब्राह्मणा नराः ।
शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा ॥ ३६ ॥
त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् ।
त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥ ३७ ॥
त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् ।
भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥ ३८ ॥
भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद ।
तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥ ३९ ॥
यद्यच्चिन्तयसि प्राज्ञ तत्तत्ते सफलं भवेत् ।
स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥ ४० ॥
एवमुक्त्वाऽन्तर्दधेऽसौ ब्रह्मणस्पतिरञ्जसा ।
स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥ ४१ ॥
ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपम् ।
ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥ ४२ ॥
ततो गृत्समदो योगी सर्वमान्यो बभूव ह ।
ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥ ४३ ॥
यथा गजाननः प्राह तथा सर्वं बभूव ह ।
मुनिस्तत्र महीपालाऽभजत्तं स विनायकम् ॥ ४४ ॥
नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः ।
गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥ ४५ ॥
इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् ।
सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥ ४६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥
[[८७]]