३५ गृत्समदगणेशसमागमः

॥ श्रीगणेशाय नमः ॥

गार्ग्य उवाच ।

मुकुन्दा कामदग्धा सा पपात धरणीतले ।
न किञ्चित् सुखदं तस्या बभूव पृथिवीतले ॥ १ ॥

ततोऽतिशोकसंयुक्ता तमेवाचिन्त्य संस्थिता ।
निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥ २ ॥

तस्याः शान्तिप्रदानार्थं स्वयं तत्राजगाम ह ।
रुक्माङ्गदस्वरूपी स बुभुजे तां सुराधिपः ॥ ३ ॥

सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता ।
इन्द्रः स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥ ४ ॥

वाचक्नविः समायातः कृत्वा नित्यक्रियां मुनिः ।
न बुबोध मुकुन्दायाश्चरितं स तपोरतः ॥ ५ ॥

ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम् ।
जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥ ६ ॥

गृत्समदेति पुत्रस्य नाम चक्रे सुखप्रदम् ।
चकार व्रतबन्धं तु पञ्चमे हर्षसंयुतः ॥ ७ ॥

वेदानध्यापयामास श्रवणग्राहकाय वै ।
स्वयं तस्मै ददौ मन्त्रं गणानां त्वेति ऋग्भवम् ॥ ८ ॥

तेन मन्त्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः ।
तोषयामास भावेन नित्यं जपपरायणः ॥ ९ ॥

कदाचित्तत्र राजा स मगधस्तं जुहाव च ।
पितुः श्राद्धे सुदान्तं वै तपोयुक्तं यशस्विनम् ॥ १० ॥

तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः ।
समागताः सभायां ते विविशुः पूजिता नृप ॥ ११ ॥

तत्र शास्त्रप्रसङ्गे स गृत्समद उवाच ह ।
योगमयोगिभावस्थः श्रुत्वाऽत्रिस्तं वचोऽब्रवीत् ॥ १२ ॥

अयोगी योगिनां मध्ये रुक्माङ्गदसुतस्तथा ।
वदसि त्वं न योग्योऽसि पङ्क्तौ गच्छ निजाश्रमम् ॥ १३ ॥

ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम् ।
जगाम सोऽपि जननीमपृच्छद्रक्तलोचनः ॥ १४ ॥

वद तातं मदीयं त्वं कामुके निरपत्रपे ।
कथं रुक्माङ्गदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥ १५ ॥

जगाद शापभीता तं ततः सा कम्पसंयुता ।
वृत्तान्तं पूर्वसम्भूतं रुक्माङ्गदविहारजम् ॥ १६ ॥

तच्छ्रुत्वा कोपसंयुक्तः शशाप जननीं सुतः ।
कण्टकी भव मातस्त्वं दुष्टकर्मपरायणा ॥ १७ ॥

अतितिक्तफलां तत्र भक्षिष्यन्ति नरा न ताम् ।
अरण्ये निन्दिता नित्यं भुङ्क्ष्व पापं पुरा कृतम् ॥ १८ ॥

ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता ।
त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ॥ १९ ॥

ततो देहं समुत्सृज्य मुकुन्दा साऽभवन्नृप ।
कण्टकी श्यामसञ्ज्ञा सा पापकर्मपरायणा ॥ २० ॥

गणेशभक्तविक्षेपदातृत्वादघमुत्तमम् ।
तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥ २१ ॥

कल्पे कल्पे च शापात् सा सदा वृक्षत्वमागता ।
पश्य विघ्नस्वरूपं त्वं महाभयकरं नृप ॥ २२ ॥

ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः ।
तत आकाशवाणी तं जगाद प्रेमसंयुता ॥ २३ ॥

इन्द्रो रुक्माङ्गदीभूतस्तस्माज्जातोऽसि मानद ।
भज लम्बोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥ २४ ॥

श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम् ।
निराहारेण संस्थश्च गणेशमभजत् सदा ॥ २५ ॥

ब्रह्मणस्पतिसूक्तैश्चाभिषिञ्चन् मण्डले स्थितम् ।

[[८४]]

जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥ २६ ॥

ऐल उवाच ।

ब्रह्मणस्पतिसूक्तानां मण्डलं कीदृशं स्मृतम् ।
फलं च कीदृशं तत्र लभते मानवः प्रभो ॥ २७ ॥

कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे ।
येन विघ्नेश्वरः प्रीतो भवेत् सर्वार्थदायकः ॥ २८ ॥

गार्ग्य उवाच ।

ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते ।
यथा गृत्समदः सिद्धो बभूवे तस्य सेवनात् ॥ २९ ॥

गणानां त्वेति मन्त्रेण षोडशाङ्गेषु भूमिप ।
न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥ ३० ॥

एकविंशतिभिर्भूपा वृत्तिभिरेकविंशतिः ।
समाख्याता च सूक्तानामभिषेके तथा जपे ॥ ३१ ॥

एतादृशाश्च राजेन्द्र भवन्त्येकाधिकास्ततः ।
विंशत्यो मण्डलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥ ३२ ॥

मण्डलानि महाभाग एकविंशन्मितानि च ।
भवन्ति चेत् समाख्यातं महामण्डलकं बुधैः ॥ ३३ ॥

अभिषेके समाख्यातं जपे वा राजसत्तम ।
सर्वसिद्धिप्रदं पूर्णं महामण्डलकं सुरैः ॥ ३४ ॥

धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् ।
गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥ ३५ ॥

ब्राह्मणत्वस्य कार्यार्थं कृतं तेन महात्मना ।
गृत्समदेन सूक्तानां महामण्डलकं नृप ॥ ३६ ॥

एतत्ते कथितं भूपाधुना शृणु कथानकम् ।
विघ्नेशप्रापकं गृत्समदस्य दुरितापहम् ॥ ३७ ॥

स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि ।
गणानां त्वेति मन्त्रेण पुपूज विघ्ननायकम् ॥ ३८ ॥

एकविंशतिमेकां स नित्यं चकार भूमिप ।
अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥ ३९ ॥

गणानां त्वेति मन्त्रस्य जपं चकार नित्यदा ।
शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥ ४० ॥

नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः ।
महोग्रतपसा देवं तोषयामास विघ्नपम् ॥ ४१ ॥

एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ ।
मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥ ४२ ॥

श्रीगणेश उवाच ।

पश्य मां मूनिशार्दूल ब्रह्मणस्पतिमागतम् ।
वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥ ४३ ॥

गणेशवचनं श्रुत्वा गृत्समदः सुहर्षितः ।
उन्मील्य लोचने ढुण्ढिमपश्यन्निकटे स्थितम् ॥ ४४ ॥

ततोऽतिहर्षसंयुक्तः प्रणनाम विनायकम् ।
भक्त्या सम्पूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥ ४५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः ॥

[[८५]]