॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
वद पूजां विधियुतां गणेशस्य सविस्तराम् ।
मानसीं बाह्यरूपां च सर्वसिद्धिप्रदायिनीम् ॥ १ ॥
गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे ।
कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥ २ ॥
मुद्गल उवाच ।
अत्र ते कथयिष्यामि पुरातनभवं शुभम् ।
इतिहासं महाभाग सर्वसिद्धिप्रदायकम् ॥ ३ ॥
पुरा ते कथितं स्थानं गणेशस्य महात्मनः ।
कार्तिकेयवराज्जातं लक्षवैनायकात्मकम् ॥ ४ ॥
तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः ।
ऐलः शस्त्रास्त्रतत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥ ५ ॥
सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा ।
सार्वभौमः सुविख्यातो गाणपत्यप्रियोऽभवत् ॥ ६ ॥
तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः ।
तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥ ७ ॥
ऐल उवाच ।
स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक् ।
साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥ ८ ॥
मयूरेशावतारे त्वं मयूरेशसमन्वितः ।
स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥ ९ ॥
धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम् ।
मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥ १० ॥
मयूरेशस्य विप्रेशाज्ञया योगविदांवर ।
भाष्यं कृतं गणेशस्य गीतायाः शान्तिदं परम् ॥ ११ ॥
[[८१]]
त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः ।
बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥ १२ ॥
यादृशं गणनाथेन कथितं तादृशं प्रभो ।
त्वया ज्ञातं न सन्देहो गणेशस्त्वमतो मतः ॥ १३ ॥
गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः ।
त्वं त्रयः सम्मताः शास्त्रे जानते पूर्णयोगतः ॥ १४ ॥
धन्येन येन भाग्येन दृष्टं ते पादपङ्कजम् ।
विद्याव्रततपोदानं पितरौ कुलमेव मे ॥ १५ ॥
यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् ।
न ह्यल्पपुण्ययोगेन दर्शनं योगिनां भवेत् ॥ १६ ॥
अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि ।
पूजां बाह्यां तथाऽऽन्तर्यां गाणपत्यप्रकारतः ॥ १७ ॥
एवं पृष्टो महायोगी गार्ग्यः सर्वार्थकोविदः ।
तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥ १८ ॥
गार्ग्य उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥ १९ ॥
वाचक्नविस्तपोनिष्ठो बभूव परमार्थवित् ।
तस्य पत्नी मुकुन्दा वै रूपयौवनशालिनी ॥ २० ॥
वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः ।
रुक्माङ्गदो नृपो भूप मृगयासक्तचेतसा ॥ २१ ॥
क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् ।
प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥ २२ ॥
तस्मिन् काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् ।
निर्जगामाश्रमाद्वाचन्कविस्तस्मान् महायशाः ॥ २३ ॥
गते मुनौ नृपस्तत्र जगाद देहि मे जलम् ।
मातर्मुकुन्दे श्रान्ताय चाकुलाय क्षुधातृषा ॥ २४ ॥
तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला ।
दृष्ट्वा नृपवरं तं च कामबाणार्दिताऽवदत् ॥ २५ ॥
मुकुन्दोवाच ।
त्वत्समं पुरुषं क्वापि न पश्यामि नृपात्मज ।
त्रैलोक्येऽतो महाभाग मां भजस्व सुविह्वलाम् ॥ २६ ॥
नो चेत् प्राणा गमिष्यन्ति कामबाणैर्हता मम ।
इत्युक्त्वा तं नृपं सा तु चुचुम्बे हठतत्परा ॥ २७ ॥
ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् ।
जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥ २८ ॥
रुक्माङ्गद उवाच ।
सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः ।
पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥ २९ ॥
तत्र विघ्नेश्वरे सक्ता न चलन्ति कदाचन ।
परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥ ३० ॥
एवं निर्भर्त्स्य तां राजा निःसृतः शोकसङ्कुलः ।
आश्रमात् सा शशापैव तं नृपं काममोहिता ॥ ३१ ॥
कुष्ठी भव महादुष्ट सकामां त्यजसि स्त्रियम् ।
मोहितां पापकर्मा त्वं कठिनोऽसि सुदुर्मते ॥ ३२ ॥
तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह ।
रुक्माङ्गदो वने गत्वा सस्मार द्विरदाननम् ॥ ३३ ॥
ततो रात्रौ महायोगी नारदस्तत्र चागतः ।
तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥ ३४ ॥
रुक्माङ्गद उवाच ।
कुष्ठनाशकरं तीर्थं क्षेत्रमौषधमेव च ।
वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥ ३५ ॥
नारद उवाच ।
इन्द्रेण तपसा देवो गणेशः पूजितोऽभवत् ।
सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥ ३६ ॥
[[८२]]
गणेशवरदानेन महेन्द्रस्तेजसा युतः ।
योगयुक्तोऽपालयत त्रैलोक्यं सचराचरम् ॥ ३७ ॥
तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् ।
चिन्तामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥ ३८ ॥
तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् ।
कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥ ३९ ॥
तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः ।
भवन्ति स्वानन्दगास्तु नृप नास्त्यत्र संशयः ॥ ४० ॥
एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥ ४१ ॥
ततः प्रातः समायाता सेना तस्य महात्मनः ।
तया सार्द्धं जगामाऽसौ विदर्भे तीर्थसेवकः ॥ ४२ ॥
चिन्तामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते ।
कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥ ४३ ॥
ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् ।
पूजयामास हर्षेण चिन्तामणिं नृपात्मजः ॥ ४४ ॥
पूजयित्वा यथान्यायं दत्त्वा दानानि कृत्स्नशः ।
संस्थितो मण्डपे राजा गणेशे भक्तिसंयुतः ॥ ४५ ॥
तत्राकस्माद्विमानं तु समायातं सुखप्रदम् ।
तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥ ४६ ॥
गाणपत्या ऊचुः ।
इदं विमानमारुह्य ससैन्यो नृपसत्तम ।
चल स्वानन्दलोके त्वं तीर्थस्नानप्रभावतः ॥ ४७ ॥
ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः ।
पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥ ४८ ॥
रुक्माङ्गद उवाच ।
भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् ।
मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥ ४९ ॥
गाणेशानौ विशेषेण तथा तं ते समब्रुवन् ।
तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥ ५० ॥
ततस्तावपि नेष्यामो मा चिन्तां कुरु सत्तम ।
स्नानमात्रेण स्वानन्ददायकं तीर्थमुच्यते ॥ ५१ ॥
ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः ।
नाम्ना ग्रन्थिं समाबध्य चक्रे स्नानं यथाविधि ॥ ५२ ॥
ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः ।
स्नानं चक्रुर्जनानां ते आबालं श्वपचावधि ॥ ५३ ॥
ततस्ते यानमारुह्य कौण्डिन्यनगरं ययुः ।
पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानन्दमाययुः ॥ ५४ ॥
एवं तीर्थप्रभावेण नगरस्थजना नृप ।
गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥ ५५ ॥
धर्मयुक्तो गणेशस्य भक्तो रुक्माङ्गदः स्वयम् ।
स्वल्पकालेन निर्विघ्नो बभूव छलितोऽपि सः ॥ ५६ ॥
गणेशभक्तमत्युग्रं ये छलन्ति नराधमाः ।
तेषां तु निष्कृतिर्नास्ति दुःखं भुञ्जन्ति दारुणम् ॥ ५७ ॥
रुक्माङ्गदं मुकुन्दा सा छलयित्वा विशेषतः ।
या गतिश्च तया प्राप्ता तां शृणुष्व महीपते ॥ ५८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥
[[८३]]