॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् ।
पूजनं गणनाथस्य कृतं तस्य फलं वद ॥ १ ॥
श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः ।
अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥ २ ॥
मुद्गल उवाच ।
अत्र ते कथयिष्यामि इतिहासं पुरा भवम् ।
श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥ ३ ॥
ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले ।
स तु नित्यं गणपतिं तुलस्याऽपूजयद्धठात् ॥ ४ ॥
अन्ये तत्र द्विजास्तं वै वारयन्तो विशेषतः ।
न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥ ५ ॥
गणेशः सर्वरूपश्चेत् कुतस्तत्र प्रवर्तते ।
विधिनिषेधकाद्यं हि मा वदेत क्रियात्मकाः ॥ ६ ॥
ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः ।
परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥ ७ ॥
अहो गाणेश्वरे देहे तुलसी मस्तकेऽथवा ।
दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥ ८ ॥
अन्यैरपि न सन्देहो नो चेन्नरकगामिनः ।
उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥ ९ ॥
तत्र विलम्बभावेन पापभागी नरो भवेत् ।
किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥ १० ॥
यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः ।
तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥ ११ ॥
ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा ।
बहिष्कृतो महापापी स्वगृहे तादृशे रतः ॥ १२ ॥
ततः स्वल्पेन कालेन ममार काश्यपाधमः ।
नरकेषु च तं यामाः पातयामासुरञ्जसा ॥ १३ ॥
एककल्पसमं कालं नरकेषु स्थितोऽभवत् ।
क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥ १४ ॥
सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः ।
अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥ १५ ॥
एकदा तत्र गार्ग्यश्च समायातो निजेच्छया ।
गणेशभक्तमुख्यः स महायोगी प्रजापते ॥ १६ ॥
तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ ।
गार्ग्यो गणेशमन्त्रेण मन्त्रितं जलमाक्षिपत् ॥ १७ ॥
जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः ।
धर्मध्रुक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८ ॥
ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् ।
जगाद प्राञ्जलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥ १९ ॥
धर्मध्रुगुवाच ।
रक्ष मां मुनिशार्दूल गाणपत्य महायशाः ।
त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥ २० ॥
ततः स सर्ववृत्तान्तं कथयामास राक्षसः ।
पूर्वजन्मभवं तस्मै गार्ग्याय भयसङ्कुलः ॥ २१ ॥
त्वदीयदर्शनेनैव मन्त्रितेन जलेन च ।
जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥ २२ ॥
श्रुत्वा शरणगं वीक्ष्य दयायुक्तो महामुनिः ।
गणेशनाममन्त्रं स ददौ तस्मै हितावहम् ॥ २३ ॥
जगाद तं महायोगी जप त्वं नाममन्त्रकम् ।
नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥ २४ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गार्ग्यः परमपावनः ।
दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥ २५ ॥
[[८०]]
ततः क्षुधा सुशान्ता वै बभूवे तस्य दुर्मतेः ।
रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥ २६ ॥
अन्ते गणेश्वरं सोऽपि जगाम दुःखवर्जितः ।
तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥ २७ ॥
एतत्ते कथितं सर्वं सङ्क्षेपेण चरित्रकम् ।
तुलसीवर्जने भूतं सर्वसंशयनाशनम् ॥ २८ ॥
तुलसीं गणनाथाय समर्पयति यो नरः ।
स चाण्डालो न सन्देहो नारकीभूमिसंस्थितः ॥ २९ ॥
वंशहानिर्भवेत्तस्य लक्ष्मीनाशस्तथा विधे ।
रोगाद्यैः पीडितोऽत्यन्तमन्ते नरकगो भवेत् ॥ ३० ॥
तस्य स्पर्शं न कुर्यात् कः कृत्वा स्नानं समाचरेत् ।
सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥ ३१ ॥
नाम तस्य प्रजानाथ न ग्राह्यं पापदायकम् ।
बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥ ३२ ॥
इदं ते कथितं सर्वं पृच्छते च यथातथम् ।
श्रोतुमिच्छसि किं भूयश्चरित्रं वद साम्प्रतम् ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥